दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ २।३३।१ ॥
पूर्वं पित्रानुज्ञातो ऽपि सीतालक्ष्मणयोरनुज्ञापनाय पुनः रामो दशरथसमीपं गच्छति–दत्त्वेत्यादि ॥ २।३३।१ ॥
ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे ।
मालादामभिराबद्धे सीतया समलङ्कृते ॥ २।३३।२ ॥
तत इति । तदायुधे तयोरायुधे, धनुषी इति यावत् । खङ्गादीनामप्युपलक्षणमेतत् । मालादामभिः मालानिचयैरित्यर्थः । अलङ्कृते चन्दनादिभिरलङ्कृते ॥ २।३३।२ ॥
ततः प्रासादहर्म्याणि विमानशिखराणि च ।
अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ २।३३।३ ॥
तत इति । प्रासादहर्म्याणि प्रासादो देवतानां भूभुजां चावासः, हर्म्याणि धनिनां मन्दिराणि । “हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्” इत्यमरः । विमानशिखराणि विमानं सप्तभूमिसहितं सद्म “विमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति वैजयन्ती । उदासीनः निरुत्सुकः, निर्विण्ण इति यावत् ॥ २।३३।३ ॥
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥ २।३३।४ ॥
नहीति । तस्मात् रथ्या गमनस्याशक्यत्वात् । प्रासादानितिपाठः । प्रासादादितिपाठे ल्यब्लोपे पञ्चमी क्लिष्टा ॥ २।३३।४ ॥
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ।
ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ २।३३।५ ॥
दीनत्वे हेतुमाह–पदातिमित्यादिना ॥ २।३३।५ ॥
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
तमेकं सीतया सार्द्धमनुयाति स्म लक्ष्मणः ॥ २।३३।६ ॥
यमिति । एकं मुख्यम् ॥ २।३३।६ ॥
ऐश्वर्यस्य रसज्ञस्सन् कामिनां चैव कामदः ।
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ २।३३।७ ॥
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।
तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ २।३३।८ ॥
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् ।
वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम् ॥ २।३३।९ ॥
ऐश्वर्यस्येति । रसज्ञः सङ्ग्रहसुखज्ञः । कामिनाम् अर्थकाङ्क्षिणां कामदः अभीष्टधनप्रदः । अनृतम् अनृतवचनम् । कर्तुं धर्मगौरवात् पितृशुश्रूषणवचनकरणविधेयत्वादिरूपधर्मविषयकबहुमानात् ॥ २।३३।७९ ॥
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते ।
न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ॥ २।३२।१० ॥
अद्येति । सत्त्वं जन्तुं “सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । पिशाचमिति यावत् । आविश्य प्राप्य ॥ २।३३।१० ॥
निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् ।
किंपुनर्यस्य लोको ऽयं जितो वृत्तेन केवलम् ॥ २।३३।११ ॥
निर्गुणस्यापीति । वृत्तेन केवलं चरित्रमात्रेण । “वृत्तं पद्ये चरित्रे च” इत्यमरः । वृत्तेन केवलमित्युक्तिः दानमानादौ विद्यमानेपि चरित्रप्राधान्यात् ॥ २।३३।११ ॥
आनृशंस्य मनुक्रोशः श्रुतं शीलं दमः शमः ।
राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ २।३३।१२ ॥
आनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया “कृपा दयानुकम्पा स्यादनुक्रोशः” इत्यमरः । दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः । “शमश्चित्तप्रशान्ति स्याद्दम इन्द्रियनिग्रहे” इति निर्वचनात् ॥ २।३३।१२ ॥
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ २।३३।१३ ॥
तस्मादिति । तस्मात् षाङ्गुण्ययुक्तत्वात् । तस्य रामस्य । उपघातेन हिंसनेन । औदकानि उदकजीवनानि । शैषिको ऽण् ॥ २।३३।१३ ॥
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ।
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ २।३३।१४ ॥
पीडयेति । अस्य जगत्पतेः रामस्य । पीडया विवासनरूपया । पुष्पफलैरुपगमो यस्य स पुष्पफलोपगो वृक्ष इव “अन्येष्वपि दृश्यते” इति डप्रत्ययः ॥ २।३३।१४ ॥
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः ।
पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ २।३३।१५ ॥
मूलमिति । मनुष्याणां प्राणिनाम् । उपलक्षणमेतत् । धर्म एव सारो यस्य सः धर्मसारः ॥ २।३३।१५ ॥
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः ।
गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ २।३३।१६ ॥
त इति । ते वयं सपत्न्यः सपत्नीकाः । समासान्तविधेरनित्यत्वेन “नद्यृतश्च” इति कबभावः । येन मार्गेण गच्छति तेनेति शेषः ॥ २।३३।१६ ॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ २।३३।१७ ॥
उद्यानानीति । उद्यानानि राजार्होद्यानसहृशक्रीडावनानि । एकदुःखसुखाः समानसुखदुःखाः ॥ २।३३।१७ ॥
समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥ २।३३।१८ ॥
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥ २।३३।१९ ॥
अपेतोदकधूमानि हीनसंमार्जनानि च ।
प्रणष्टबलिकर्मेज्या मन्त्रहोमजपानि च ॥ २।३३।२० ॥
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ।
अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २।३३।२१ ॥
समुद्धृतनिधानानीत्यादि । समुद्धृतनिधानानि सम्यगुद्धृतनिक्षेपाणि । परिध्वस्ताजिराणि भग्नाङ्गणानि “अङ्गणं चत्वराजिरे” इत्यमरः । उपात्तधनधान्यानि अत्र धन शब्देन गवादिकं निक्षिप्तभूषणनिष्कादिकं चोच्यते । साराणि शय्यासनादीनि । दैवतैः गृहदैवतैः । उद्बिलैः उद्भिन्नबिलैः । उदकम् उदकसेचनम् । हीनसम्मार्जनानि सम्मार्जनहीनानि । दुष्कालेन क्षामक्षोभयुक्तकालेन । भाजनं भाण्डादि ॥ २।३३।१८२१ ॥
वनं नगरमेवास्तु येन गच्छति राघवः ।
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ॥ २।३३।२२ ॥
वनमिति । येन वनेन हेतुना ॥ २।३३।२२ ॥
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ।
त्यजन्त्यस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ २।३३।२३ ॥
बिलानीति । दंष्ट्रिणः सर्प्पाद्याः । अस्माद्भयात् अस्मत्प्रयुक्तभयहेतोः ॥ २।३३।२३ ॥
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ २।३३।२४ ॥
अस्मत्त्यक्तमिति । अस्माभिस्त्यक्तं पुरम्, सेव्यमानं वनमित्यर्थसिद्धम् । अत्र कर्त्तारः पूर्वोक्तदंष्ट्र्यादयः ॥ २।३३।२४ ॥
तृणमांसफलादानां देशं व्यालमृगद्विजम् ।
प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः ।
राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ २।३३।२५ ॥
तृणेति । तृणमांसफलादानां तृणादाः हरिणादयः, मांसादाः व्याघ्रादयः, फलादाः वायसादयः । व्यालमृगद्विजम् व्यालाः क्रूराः मृगद्विजाः यस्मिंस्तादृशं देशम् । इदमेव नगरं तादृशं भविष्यतीति भावः । निर्वृताः सुखिताः ॥ २।३३।२५ ॥
इत्येवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसम् ॥ २।३३।२६ ॥
स तु वेश्म पितुर्दूरात् कैलासशिखरप्रभम् ।
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २।३३।२७ ॥
विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २।३३।२८ ॥
इतीति । श्रुत्वा अवस्थितस्येति शेषः । न विचक्रे न विकारं प्राप ॥ २।३३।२६२८ ॥
प्रतीक्षमाणो ऽपि जनं तदार्तमनार्तरूपः प्रहसन्निवाथ ।
जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २।३३।२९ ॥
प्रतीक्षमाण इति । निदेशं नियोगम् ॥ २।३३।२९ ॥
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनमार्त्तरूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ २।३३।३० ॥
तत्पूर्वमिति । तत्पूर्वं तत्प्रथमम् । महात्मा महाधैर्यः । प्रतिहारणार्थं स्वागमननिवेदनार्थम् ॥ २।३३।३० ॥
पितुर्निदेशेन तु धर्मवत्सलो वनप्रदेशे कृतबुद्धिनिश्चयः ।
स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ॥ २।३३।३१ ॥
पितुरिति । अस्यान्ते इतिकरणं द्रष्टव्यम् ॥ २।३३।३१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीगो० श्रीरा० पीता० अयोध्याकाण्डे त्रयिस्त्रिंशः सर्गः ॥ ३३ ॥