ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् ।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ २।३२।१ ॥
एवं निश्चित-सीता-लक्ष्मणानुयात्रस्य रामस्य यात्रा-दानं प्रस्तूयते द्वात्रिंशे– तत इत्यादि ।
आज्ञाय अङ्गीकृत्य ।
शुभतरं ब्राह्मणोपकारत्वात्।
प्रियम् आत्मनोनुगमनाङ्गीकार-फलत्वात् ॥ २।३२।१ ॥
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् ।
सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २।३२।२ ॥
तमिति । अग्न्यगारस्थम् अग्निहोत्रशालास्थम् । दुष्करकारिणः दुष्करकर्मकारिणः । वेश्म अभ्यागच्छ कृत्यं च पश्येत्यर्थः ॥ २।३२।२ ॥
ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह ।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ २।३२।३ ॥
तत इति । सन्ध्योपासनं माध्याह्निकम् अथवा सन्ध्यानियताग्निहोत्रम् । अग्न्यगारस्थमित्युक्तेः ॥ २।३२।३ ॥
तमागतं वेदविदं प्राञ्जलिः सीतया सह ।
सुयज्ञमभिचक्राम राघवो ऽग्निमिवार्चितम् ॥ २।३२।४ ॥
तमिति । अर्चितं हुतम् ॥ २।३२।४ ॥
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ।
सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ २।३२।५ ॥
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ २।३२।६ ॥
जातरूपमयैरित्यादि । जातरूपमयैः स्वर्णमयैः । अङ्गदैः कूर्परोपरिधार्यैः बाहुभूषणैः । सहेमसूत्रैर्मणिभिः हेमसूत्रप्रोतैर्वैदूर्य्यपद्मरागमुक्तादिमणिभिः । “रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिके ऽपि च” इत्यमरः । केयूरैः भुजशिरोव्यापिफणाकारशिखरयुक्तबाहुभूषणैः । अथवा अङ्गदकेयूरयोः स्थूलत्वसूक्ष्मत्वाभ्यां भेदः । वलयैः कटकैः । “कटकं वलयो ऽस्त्रियाम्” इत्यमरः । रत्नैः भूषणप्रकरणात् भूषणश्रेष्ठैरित्यर्थः । “रत्नं स्वजातिश्रेष्ठेपि” इत्यमरः ॥ २।३२।५६ ॥
हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।
रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ २।३२।७ ॥
हारमिति । हेमसूत्रं हेममयं कण्ठसूत्रम् । रशनां च ते भार्यायै सीता दातुमिच्छति । तत्सर्वं हारय दापयेत्यर्थः ॥ २।३२।७ ॥
अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ २।३२।८ ॥
अङ्गदानीति । भार्यायै भार्याधारणार्थम् । तुभ्यं प्रतिग्रहीत्रे । प्रयच्छति । गच्छतीत्यत्र नुमभाव आर्षः ॥ २।३२।८ ॥
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ।
तमपीच्छति वैदही प्रतिष्ठापयितुं त्वयि ॥ २।३२।९ ॥
पर्यङ्कमिति । त्वयि प्रतिष्ठापयितुं तुभ्यं दातुमित्यर्थः ॥ २।३२।९ ॥
नागः शत्रुञ्जयो नाम मातुलो ऽयं ददौ मम ।
तं ते गजसहस्रेण ददामि द्विजपुङ्गव ॥ २।३२।१० ॥
नाग इति । मातुलो ददाविति दशरथीयशत्रुञ्जयव्यावृत्तिः ॥ २।३२।१० ॥
इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ २।३२।११ ॥
इतीति । प्रतिगृह्येत्यनेन न्यासभूतत्वं व्यावर्त्त्यते ॥ २।३२।११ ॥
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः ।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ २।३२।१२ ॥
अथेति । त्रिदिशेश्वरम् इन्द्रम् ॥ २।३२।१२ ॥
अगस्त्यं कौशिकञ्चैव तावुभौ ब्राह्मणोत्तमौ ।
अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥ २।३२।१३ ॥
अगस्त्यमिति । अगस्त्यम् अगस्त्यपुत्रम् । कौशिकं विश्वामित्रपुत्रम् । रत्नैः श्रेष्ठवस्तुभिः ॥ २।३२।१३ ॥
तर्पयस्व महाबाहो गोसहस्रैश्च मानद ।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥ २।३२।१४ ॥
रत्नैरर्चनं विवृणोति–तर्पयस्वेति ॥ २।३२।१४ ॥
कौसल्यां च य आशीर्भिभक्तः पर्युपतिष्ठति ।
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ २।३२।१५ ॥
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय ।
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ २।३२।१६ ॥
कौसल्यामित्यादिश्लोकद्वयमेकान्वयम् । तैत्तिरीयाणां तित्तिरिसम्बन्धिशाखाध्येतृ़णाम् । आचार्यः अध्यापयिता । अभिरूपः बुधः ऽप्राप्तरूपसुरूपाभिरूपाबुधमनोज्ञयोःऽ इति विश्वः ॥ कौशेयानि कृमिकोशोत्थानि । “कौशेयं कृमिकोशोत्थम्” इत्यमरः । यावत् यावत्पर्यन्तम् तुष्यति तावत्सम्प्रदापयेति सम्बन्धः ॥ २।३२।१५१६ ॥
सूतश्चित्ररथश्चार्य्यः सचिवः सुचिरोषितः ।
तोषयैनं महार्हेश्च रर्त्नैर्वस्त्रैर्धनैस्तथा ।
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ॥ २।३२।१७ ॥
सूत इत्यादिसार्धश्लोक एकान्वयः । सूतः सुमन्त्रतुल्यः कश्चिच्चित्ररथनामा । सुचिरोषितः चिरकालमस्मद्गृहे स्थितः । पशुकाभिः । अल्पार्थे कन्प्रत्ययः । अजादिभिरित्यर्थः ॥ २।३२।१७ ॥
ये चेमे कठकालापा बहवो दण्डमाणवाः ॥ २।३२।१८ ॥
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किञ्चन ।
अलसाः स्वादुकामाश्च महतां चापि सम्मताः ।
तेषामशीतियानानि रत्नपूर्णानि दापय ॥ २।३२।१९ ॥
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ २।३२।२० ॥
ये चेत्यादि उपाकुर्वित्यन्तमेकं वाक्यम् । कठेन प्रोक्तमधीयते कठाः । कठशब्दात्प्रोक्तार्थे वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य “कठचरकात्–” इतिलुक् । ततः “तदधीते तद्वेद” इत्यण् । तस्य “प्रोक्ताल्लुक्” इति लुक् । कलापिना प्रोक्तमधीयते कालापाः । कलापिशब्दात् प्रोक्तार्थे “कलापिनो ऽण्” इत्यण् । “सब्रह्मचारिपीठसर्पि” इत्यादिना टिलोपः । ततः ऽतदधीतेऽ इत्याद्यण् । तस्य प्रोक्ताल्लुक् । कठप्रोक्तशाखाध्यायिनः कलापिप्रोक्तशाखाध्यायिनश्चेत्यर्थः । कठाश्च कालापाश्च कठकालापाः । “दण्डप्रधानाः माणवाः दण्डमाणवाः” इति काशिकायाम् । सदा पलशदण्डधारिणो ब्रह्मचारिण इत्यर्थः । किञ्चन आहारार्थयत्नादिकम् । न केवलं नित्यस्वाध्यायशीलत्वात् किञ्चिन्न कुर्वन्ति किंत्वालस्याच्चेत्याशयेनाह अलसा इति । गोसहस्रप्रदानहेतुत्वेनाह स्वादुकामाश्चेति । रसवत्पदार्थकाङ्क्षिण इत्यर्थः । महतां चापि सम्मताः अतीव साध्वाचारा इत्यर्थः । रत्नपूर्णानि रत्नालङ्कारपूर्णानि । अशीतियानानीत्युक्त्या दण्डमाणवाश्चाशीतिसङ्ख्याका इतिगम्यते । रत्नवाहानुष्ट्रानिति वा । शालिवाहसहस्रं शालिधान्यवाहकबलीवर्दसहस्रम् । भद्रकान् । अल्पार्थे कन्प्रत्ययः । कर्षणयोग्याननडुह इत्यर्थः । धान्यविशेषानित्यपरे । व्यञ्जनार्थं क्षीरदधिघृतार्थम् । उपाकुरु ददस्वेत्यर्थः ॥ २।३२।१८२० ॥
मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ।
तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय ॥ २।३२।२१ ॥
मेखलीनामिति । मेखला मौञ्जी, तद्वतां ब्रह्मचारिणामित्यर्थः । आर्षो दीर्घः । सहस्रं गोसहस्रम् प्रकृतत्वात् तासाम् ॥ २।३२।२१ ॥
अम्बा यथा च सा नन्देत् कौसल्या मम दक्षिणाम् ।
तथा द्विजातींस्तान् सर्वाल्लँक्ष्मणार्चय सर्वशः ॥ २।३२।२२ ॥
ममाम्बेत्यन्वयः । दक्षिणां पूर्वोक्तदानाङ्गभूताम् । सर्वशः वस्त्रधान्यादिसर्वप्रकारैः ॥ २।३२।२२ ॥
ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥ २।३२।२३ ॥
तत इति । यथोक्तं रामोक्तमनतिक्रम्य अददात् धनदो यथेति । धनदस्य दातृत्वं ऽधनदेन समस्त्यागेऽ इति बालरामायण् एवोक्तम् । ब्राह्मणेन्द्राणामिति चतुर्थ्यर्थे षष्ठी ॥ २।३२।२३ ॥
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ।
सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम् ॥ २।३२।२४ ॥
अथेति । बाष्पं कलन्ति मुञ्चतीति बाष्पकलाः तान् उपजीविनं प्रति एकैकस्योपजीविनो बहुद्रव्यं सम्प्रदायाब्रवीत् ॥ २।३२।२४ ॥
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ।
अशून्यं कार्यमेकैकं यावदागमनं मम ॥ २।३२।२५ ॥
अशून्यं कार्य्यं, यथापूर्वं भवद्भिरुपविश्य रक्षणीयमित्यर्थः । एकैकं पृथक् पृथक् ॥ २।३२।२५ ॥
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ।
उवाचेदं धनाध्यक्षं धनमानीयतामिति ॥ २।३२।२६ ॥
इतीति । धनाध्यक्षं कोशगृहाधिकृतम् ॥ २।३२।२६ ॥
ततो ऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ।
स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ॥ २।३२।२७ ॥
तत इति । अस्य रामस्य ॥ २।३२।२७ ॥
ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ।
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् ॥ २।३२।२८ ॥
तत इति । बालवृद्धेभ्यः बालेभ्यो वृद्धेभ्यश्चेत्यर्थः ॥ २।३२।२८ ॥
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ।
उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥ २।३२।२९ ॥
तत्रेति । तत्र तस्मिन् काले देशे वा । पिङ्गलः पिङ्गलवर्ण इति दारिद्र्यलक्षणोक्तिः । पिङ्गलकेशो वा । गार्ग्यः गर्गमुनिवंश्यः । उञ्छवृत्तिः उञ्छेन एकैकशो धान्यग्रहणेन वृत्तिर्जीवनं यस्य तथा । क्षतवृत्तिरितिपाठे–क्षतेन खननेन जीवनं यस्येत्यर्थः । खननलब्धकन्दमूलादिजीवन इत्यर्थः । फालकुद्दाललाङ्गली फल्यते अनेनेति फालः द्वैधीकरणसाधनं कुठारशङ्कुलादिकम् । कुद्दालः खननसाधनम्, खनित्रमिति यावत् । लाङ्गलं हलाकारः फलाकर्षणसाधनभूतो दण्डविशेषः तद्वान् । एवं वनवासी कश्चिद्दरिद्रो गृहस्थः दैवात्तत्र नगरे तदानीं सङ्गतो ऽभूदिति भावः ॥ २।३२।२९ ॥
तं वृद्धं तरुणी भार्या बालानादाय दारकान् ।
अब्रवीद्ब्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता ॥ २।३२।३० ॥
तमिति । दारकान् पुत्रकान् ॥ २।३२।३० ॥
अपास्य फालं कुद्दालं कुरुष्व वचनं मम ।
रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ॥ २।३२।३१ ॥
अपास्येति । कुद्दालमिति लाङ्गलस्याप्युपलक्षणम् । दर्शयेति भार्यापुत्रसहितमात्मानमित्यर्थः । “गतिबुद्धि–” इत्यादिना द्विकर्मकत्वम् । यदि दर्शयसि तदा किञ्चिदवाप्स्यसीत्यर्थः । किञ्चिदिति स्वभाग्यहान्यपेक्षयोक्तम् ॥ २।३२।३१ ॥
स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।
स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ २।३२।३२ ॥
स इति । दुश्छदाम् अतिजीर्णत्वादाच्छादयितुमशक्याम् । रामदर्शनार्थमाच्छादनयत्नः । यत्र यन्मार्गाश्रितवीथ्याम् ॥ २।३२।३२ ॥
भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि ।
आ पञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत् ॥ २।३२।३३ ॥
भृग्वङ्गिरेति । अङ्गिरेत्यत्र अकारान्तत्वमार्षम् ॥ २।३२।३३ ॥
स राजपुत्रमासा़ त्रिजटो वाक्यमब्रवीत् ।
निर्द्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः ।
उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ २।३२।३४ ॥
स इत्यादि । प्रत्यवेक्षस्व कटाक्षयेत्यर्थः ॥ २।३२।३४ ॥
तमुवाच ततो रामः परिहाससमन्वितम् ॥ २।३२।३५ ॥
तमिति । परिहाससमन्वितं लीलास्मितसमन्वितम्, बहुकुटुम्बिनो दरिद्रस्य अस्य कियती धनाशेति जिज्ञासया सस्मित इत्यर्थः ॥ २।३२।३५ ॥
गवां सहस्रमप्येकं न तु विश्राणितं मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥ २।३२।३६ ॥
गवामिति । अनेकगोसहस्राणां मध्ये एकमपि सहस्रं न विश्राणितमित्यर्थः । यद्वा असङ्ख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । तुभ्यमिति शेषः । अपि तु दण्डेन यावत्परिक्षिपसि गवाकीर्णं यावन्तं देशं परिक्षिपसि तावदवाप्स्यसि, तावद्देशस्थं गोजातमवाप्स्यसीत्यर्थः । एकं गोसहस्रमात्रं न दत्तम् अन्यत् सर्वं दत्तमिति नार्थः । ऽबहुसाहस्रेऽ इत्यादि वक्ष्यमाणेन विरोधात् अपिशब्दास्वारस्याच्च ॥ २।३२।३६ ॥
स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम् ।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ २।३२।३७ ॥
स शाटीमिति । कट्यां परिवेष्टनं बलोत्तम्भनाय । आविध्य भ्रामयित्वा । सर्वप्राणेन सर्वशक्त्या । “शक्तिः पराक्रमः प्राणः” इत्यमरः ॥ २।३२।३७ ॥
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः ।
गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ ॥ २।३२।३८ ॥
स इति । उक्षणसन्निधौ उक्षसन्निधौ - “वष्टिभागुरिः” इत्यादिरीत्या +अकारान्तत्वम् ॥ २।३२।३८ ॥
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात् ।
आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति ॥ २।३२।३९ ॥
तमिति । आ तस्मादित्यत्राभिविधिवाचकस्याङः सरयूतटादित्यनेन सम्बन्धः । आनयामास नाययामासेत्यर्थः ॥ २।३२।३९ ॥
उवाच च ततो रामः तं गार्ग्यमभिसान्त्वयन् ।
मन्युर्न खलु कर्त्तव्यः परिहासो ह्ययं मम ॥ २।३२।४० ॥
उवाचेति । परिहासो ह्ययं मम अयं दण्ड-क्षेपण-प्रचोदना । परिहासः विनोदार्थ इत्यर्थः ॥ २।३२।४० ॥
इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया ।
इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ॥ २।३२।४१ ॥
परिहासमेव विवृणेति–इदमिति । तेजः बलम् । दुरत्ययं निरतिशयमित्यर्थः । यद्वा जिज्ञासितुं ज्ञातुमित्यर्थः । यद्वा जिज्ञासितुं मीमांसितुम् । “मानेर्जिज्ञासायाम्” इति मीमांसार्थे जिज्ञासाशब्दप्रयोगात् । इममर्थं दण्डप्रक्षेपणरूपम् । अपरं किञ्चिद् व्यवस्यति अभिलषति चेत् तद्वृणीष्व ॥ २।३२।४१ ॥
ब्रवीमि सत्येन न ते ऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात् ।
भवत्सु सम्यक् प्रतिपादनेन तन्मयार्जितं प्रीतियशस्करं भवेत् ॥ २।३२।४२ ॥
इदं च पूर्ववन्न परिहासरूपमित्याह–ब्रवीमीति । यन्त्रणा निरोध इत्यर्थः । मम यद्यद्धनमस्ति तत्सर्वं विप्रकारणात् विप्रार्थमेव आर्जितम्, भवत्सु भवादृशेषु विप्रेषु । सम्यक् करणत्रयपूणकम् प्रदानेन मम प्रीतियशस्करं भवेत् ॥ २।३२।४२ ॥
ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः ॥ २।३२।४३ ॥
तत इति । मोदित इत्यनेन गोभ्योन्यन्नापेक्षितवानित्यवगम्यते । उपबृंहणीः वर्द्धनीः । तदा गमनकाले । महात्मनः रामस्य ॥ २।३२।४३ ॥
स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम् ।
नियोजयामास सुहृज्जने चिराद्यथार्हसम्मानवचः प्रचोदितः ॥ २।३२।४४ ॥
स इति । धर्मबलैः धर्मप्रयुक्तपराक्रमैः । नियोजयामास प्रतिपादयामास । सुहृज्जने विषये यथार्हसम्मानवचःप्रचोदितः । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः ॥ २।३२।४४ ॥
द्विजः सुहृद्भृत्यजनो ऽथवा तदा दरिद्रभिक्षाचरणश्च यो ऽभवत् ।
न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः ॥ २।३२।४५ ॥
द्विज इति । द्विजः ब्राह्मणः । सुहृत् द्विजत्वाभावेपि सुहृत् । द्विजत्वसुहृत्त्वाभावेपि भृत्यजनः, तथात्वाभावेपि दरिद्रभिक्षाचरणः । भिक्षां चरतीति भिक्षाचरणः । “कृत्यल्युटो बहुलम्” इति कर्त्तरि ल्युट् । कर्मधारयसमासः । तत्र तेषु मध्ये । कश्चिदपि यथार्हसम्माननदानसम्भ्रमैः सम्भ्रमस्त्वरा । “आरम्भः सम्भ्रमस्त्वरा” इत्यमरः । न तर्पितो न बभूव । त्वरया क्रियमाणैरपि सम्मानदानैः सर्वेपि तर्पिता बभूवुरित्यर्थः ॥ २।३२।४५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥