०२९ सीतायाः वनगमनविज्ञप्तिः

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।

प्रसक्ता श्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ २।२९।१ ॥

एतदिति । पूर्वसर्गान्ते इदमित्युक्तावपि पुनरिदमित्युक्तिर्विशेषणविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थः ॥ २।२९।१ ॥

ये त्वया कीर्त्तिता दोषा वने वस्तव्यतां प्रति ।

गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् ॥ २।२९।२ ॥

य इति । वस्तव्यतां वासित्वम् । तान् दोषान् । तव स्नेहपुरस्कृतान् गुणानित्येवविद्धि । प्रेयसा त्वया सह वर्तमानायाः मम कोकिलालापचन्दनमलयमारुतवत् सुखकरान् जानीहीत्यर्थः । अमुमर्थमुपरितनसर्गे कुशकाशेत्यादिश्लोकैर्विवरिष्यति ॥ २।२९।२ ॥

मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा ।

पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ २।२९।३ ॥

अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव ।

रूपं दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥ २।२९।४ ॥

मृगा इत्यादि । शरभाः अष्टपादमृगाः । सृमराः गवयाः । भये भयहेतौ । अस्मान् दृष्ट्वा अभिमुखमायास्यन्तीत्युक्तवान् रामः । इयं त्वपसर्पेयुरिति तत् परिजहार ॥ २।२९।३४ ॥

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया ।

त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ २।२९।५ ॥

त्वयेति । गुरुजनाज्ञया पित्रोराज्ञया त्वया च सह मया गन्तव्यम् । “अर्द्धो वा एष आत्मनो यत्पत्नी” इति श्रुत्युक्तप्रक्रियया जायापत्योरेकात्मत्वात् त्वद्विषयादेश एव मद्विषयादेश इत्यर्थः । त्वद्वियोगेन हेतुना । मे मया ॥ २।२९।५ ॥

न च मां त्वत्समीपस्थामपि शक्नोति राघव ।

सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा ॥ २।२९।६ ॥

न चेति । अपिशब्दो भिन्नक्रमः । सुराणामीश्वरोपीत्यर्थः ॥ २।२९।६ ॥

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।

काममेवंविधं राम त्वया मम विदर्शितम् ॥ २।२९।७ ॥

पतिहीनेति । या नारी पतिहीना पतिवियुक्ता सा जीवितुं न शक्ष्यतीत्येवंविधं त्वया मम कामम् अत्यर्थम् । विदर्शितम् उपदिष्टम् ॥ २।२९।७ ॥

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।

पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ २।२९।८ ॥

अथेति । अथचापि अपिचेत्यर्थः । हे महाप्राज्ञ पुरा पितृगृहे वसन्त्या मया ब्राह्मणानां ब्राह्मणेभ्यः ज्योतिर्विद्भ्यः । मे मया वने वस्तव्यं किलेति सत्यं वचनं मया श्रुतम् ॥ २।२९।८ ॥

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा ।

वनवासकृतोत्साहा नित्यमेव महाबल ॥ २।२९।९ ॥

लक्षणिभ्य इति । लक्षणिभ्यः सामुद्रिकलक्षणज्ञेभ्यः । लक्षणज्ञानमस्त्येषामिति इनिः ॥ २।२९।९ ॥

आदेशो वनवासस्य प्राप्तव्यस्स मया किल ।

सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥ २।२९।१० ॥

आदेश इति । सः ब्राह्मणोक्तः वनवासस्यादेशः आदिष्टो वनवास इत्यर्थः । मया प्राप्तव्यः किल, ललाटलिखितस्यापरित्याज्यत्वादिति भावः । सा एवमादिष्टाहं त्वया सह यास्यामि नान्यथा केवलं स्वेच्छया न यास्यामीत्यर्थः ॥ २।२९।१० ॥

कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।

कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः ॥ २।२९।११ ॥

फलितमाह–कृतादेशेत्यादि । अयं कालः वनवासकालः । द्विजः लक्षणवादी । जातावेकवचनम् ॥ २।२९।११ ॥

वनवासे हि जानामि दुःखानि बहुधा किल ।

प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ २।२९।१२ ॥

वनवास इति । वनवासे दुःखानि जानामि, तानि अकृतात्मभिः अशिक्षितमनस्कैः । प्राप्यन्ते न तु मादृशैर्जनैरिति भावः ॥ २।२९।१२ ॥

कन्यया च पितुर्गेहे वनवासः श्रुतो मया ।

भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः ॥ २।२९।१३ ॥

प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो ।

गमनं वनवासस्य कांक्षितं हि सह त्वया ॥ २।२९।१४ ॥

कान्ययेत्यादिश्लोकद्वयमेकान्वयम् । भिक्षिण्यास्तापस्याः । व्रीह्यादित्वादिनिः । वनवासः श्रुतः भावीति श्रुतः । इह गृहेत्वया सह वनवासस्य गमनं लीलार्थं जाह्नवीतीरतपोवनादिगमनं कांक्षितं हि त्वं च बहुविधं प्रसादितो वै प्रसादित एवेति सम्बन्धः ॥ २।२९।१३१४ ॥

कृतक्षणाहं भद्रते गमनं प्रति राघव ।

वनवासस्य शूरस्य चर्या हि मम रोचते ॥ २।२९।१५ ॥

कृतक्षणेति । कृतक्षणा कृतोत्सवा । “निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः” इत्यमरः । वनवासस्य वने वासो यस्य इति वनवासः तस्य । शूरस्य तव चर्या परिचर्या । मम मह्यं रोचते ॥ २।२९।१५ ॥

शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा ।

भर्त्तारमनुगच्छन्ती भर्त्ता हि मम दैवतम् ॥ २।२९।१६ ॥

शुद्धात्मत्रिति । शुद्धात्मन् ईर्ष्यादिरहित प्रेमभावात् प्रेमस्वभावात् । हिः प्रसिद्धौ । भर्त्तारं त्वामनुगच्छन्ती । विकल्मषा विगतकल्मषा भविष्यामि । नन्वत्रैव स्थित्वा कुलदेवतामाराध्य विशुद्धा भवेत्यत्राह भर्त्त हि मम दैवतमिति ॥ २।२९।१६ ॥

प्रेत्यभावे ऽपि कल्याणः सङ्गमो मे सह त्वया ॥ २।२९।१७ ॥

प्रेत्यभाव इति । प्रेत्यभावे ऽपि परलोके ऽपि । त्वया सह सङ्गमः कल्याणः शोभनः ॥ २।२९।१७ ॥

श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां तपस्विनाम् ।

इह लोके च पितृभिर्या स्त्री यस्य महामते ।

अदृभिर्दत्त स्वधर्मेण प्रेत्यभावेपि तस्य सा ॥ २।२९।१८ ॥

अत्र प्रमाणमाह–श्रुतिर्हीत्यादिसार्धश्लोकेन । पितृभिरिति बहुवचनं पितामहाद्यपेक्षया । श्रुतिमेवाह इहेति । महामत इत्यनेन न त्वां बोधयामीति सूच्यते । स्वधर्मेण स्वस्ववर्णोक्तब्राह्मादिविवाहविधिना ॥ २।२९।१८ ॥

एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।

नाभिरोच्यसे नेतुं त्वं मां केनेह हेतुना ॥ २।२९।१९ ॥

एवं पूर्वोक्तश्रुतिरूपप्रबलप्रमाणसद्भावे ऽपीत्यर्थः । अस्मान्नगरात् नेतुमित्यनेनान्वयः । यद्वा अस्मात् अद्भिर्दानाद्धेतोः ॥ २।२९।१९ ॥

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।

नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ २।२९।२० ॥

भक्तामिति । सुखदुःखयोः समां प्राप्तयोः सुखदुःखयोरेकरूपाम् । समानसुखदुःखिनीं त्वत्समानसुखदुःखाम् ॥ २।२९।२० ॥

यदि मां दुःखिता मेवं वनं नेतुं न चेच्छसि ।

विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ॥ २।२९।२१ ॥

यदीति । आस्थास्ये स्वीकरिष्ये ॥ २।२९।२१ ॥

एवं बहुविधं तं सा याचते गमनं प्रति ।

नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २।२९।२२ ॥

एवमिति । याचते अयाचत । विजनं बन्धुजनरहितम् ॥ २।२९।२२ ॥

एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।

स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ २।२९।२३ ॥

एवमिति । गां भुवम् ॥ २।२९।२३ ॥

चिन्तयन्तीं तथा तां तु निवर्त्तयितुमात्मवान् ।

ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ॥ २।२९।२४ ॥

चिन्तयन्तीमिति । ताम्रोष्ठीमित्यनेन सान्त्वादिना स्थातुमशक्यत्वमुच्यते ॥ २।२९।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥

इति श्रीगोविन्द० श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥