०२८ वनवासदुःखवर्णनम्

स एव ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।

न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ २।२८।१ ॥

सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ।

निवर्त्तनार्थे ध्ार्मात्मा वाक्यमेतदुवाच ह ॥ २।२८।२ ॥

ऽवने निवासस्य च दुःखिताम्ऽ इत्युक्तं विवृणोति–स एवमित्यादिना ॥ २।२८।१२ ॥

सीते महाकुलीनासि धर्मे च निरता सदा ।

इहाचरस्व धर्मं त्वं मा यथा मनसः सुखम् ॥ २।२८।३ ॥

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले ।

वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ २।२८।४ ॥

सीत इति । मा यथा मनसः सुखं मनसो यथा सुखं भवति तथा माचरेत्यर्थः ॥ २।२८।३४ ॥

सीते विमुच्यतामेषा वनवासकृता मतिः ।

बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ २।२८।५ ॥

सीत इति । बहुदोषम् अहिकण्टकादियुक्तत्वात् । कान्तारं महारण्यम् “महारण्ये दुर्गपथे कान्तारं पुंनपुंसकम्” इत्यमरः ॥ २।२८।५ ॥

हितबुद्ध्या खलु वचो मयैतदभिधीयते ।

सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ २।२८।६ ॥

हितबुद्ध्येति । हितबुद्ध्या न तु त्वद्भरणक्लेशेन ॥ २।२८।६ ॥

गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् ।

सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ २।२८।७ ॥

महावने विद्यमानान् दोषानाह–गिरिनिर्झरेत्यादि । गिरिनिर्झरसम्भूताः गिरिनिर्झरेषु प्रवृद्धाः । श्रोतुं दुःखाः दुःखकराः । अतो वनं दुःखं दुःखकरम् ॥ २।२८।७ ॥

क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः ।

दृष्ट्वा समभिवर्त्तन्ते सीते दुःखमतो वनम् ॥ २।२८।८ ॥

क्रीडमाना इति । शून्ये निर्मानुषे प्रदेशे । विस्रब्धाः निःशङ्काः सन्तः । क्रीडमानाः क्रीडन्तः । अत एव मत्ताः महामृगाः सिंहशार्दूलादयः । अस्मान् दृष्ट्वा अपूर्वदर्शनात्समभिवर्तन्ते हन्तुमभिमुखमागच्छेयुः ॥ २।२८।८ ॥

सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।

मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ २।२८।९ ॥

सग्राहा इति । सग्राहाः सनक्राः । पङ्कवत्यः बहुपङ्काः । मत्तैर्गजैरुपलक्षिताश्च । अत एव दुस्तराः सरितः सन्ति । अतो दुःखतरं पूर्वोक्तदुःखसम्मेलनादतिशयेन दुःखवत् ॥ २।२८।९ ॥

लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः ।

निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ २।२८।१० ॥

यत्र न निर्झरादयस्तेनैव मार्गेण गमिष्याम इत्यत्राह–लता इति । लताः पदाकर्षिण्यः, कण्टकाः पादवेधकाः । कृकवाकवः वनकुक्कटास्तैरुपनादिताः तन्नादयुक्ता इत्यर्थः । तन्नादा अप्यश्रुतपूर्वत्वात् भयावहा एव । निरपाः निर्गतजलाः । “ऋक्पूरब्धूः–” इत्यादिना समासान्तः अप्रत्ययः ॥ २।२८।१० ॥

सुप्यते पर्णशय्यासु स्वयम्भग्नासु भूतले ।

रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ २।२८।११ ॥

सुप्यत इति । भूतले न तु पर्यङ्के । तत्रापि वर्णशय्यासु न तु मृदुतूलास्तरणेषु । तत्रापि स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु । रात्रिषु न त्वहःसु । श्रमखिन्नेन फलमूलाद्याहरणश्रमदुःखितेन, वनवासिना सुप्यते अतो ऽस्माभिरपि तथा स्वपितव्यमिति भावः ॥ २।२८।११ ॥

अहोरात्रं च सन्तोषः कर्त्तव्यो नियतात्मना ।

फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥ २।२८।१२ ॥

अहोरात्रमिति । अहोरात्रं सायम्प्रातश्च । वृक्षावपतितैः वृक्षात्स्वयं पतितैः फलैः । नियतात्मना नियतमनस्केन, इतरानभिलाषिणेत्यर्थः । वनवासिना सन्तोषः भोजनतृप्तिः कर्त्तव्यः ॥ २।२८।१२ ॥

उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि ।

जटाभारश्च कर्त्तव्यो वल्कलाम्बरधारिणा ॥ २।२८।१३ ॥

देवतानां पितृ़णां च कर्तव्यं विधिपूर्वकम् ।

प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ २।२८।१४ ॥

उपवास इति । यथाप्राणेन यथाशक्त्या ॥ २।२८।१३१४ ॥

कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यशः ।

चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ २।२८।१५ ॥

कार्य इति । त्रिरभिषेकश्च नैककाल इत्याह कालेकाल इति । प्रातर्मध्याह्नसायाह्नेष्वित्यर्थः । एतच्च न कतिपयदिनेषु किन्तु प्रतिदिनमित्याह नित्यश इति ॥ २।२८।१५ ॥

उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।

आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ २।२८।१६ ॥

उपहार इति । उपहारो बलिः । “उपहारो बलिर्मतः” इति हलायुधः । आर्षेण ऋषिप्रोक्तेन । विधिना कल्पेन ॥ २।२८।१६ ॥

यथालब्धपेन सन्तोषः कर्त्तव्यस्तेन मैथिलि ।

यताहारैर्वचनरैर्नित्यं दुःखमतो वनम् ॥ २।२८।१७ ॥

यथेति । यथालब्धेन यावल्लब्धेन तेन फलादिना आहारेण सन्तोषः तृप्तिः । यताहारैर्नियताहारैः ॥ २।२८।१७ ॥

अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ।

भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ २।२८।१८ ॥

अतीति । अत्र वने वाताश्चातीव बहुलाः । तिमिरञ्च रात्रिष्वतीवास्ति । बुभुक्षा चातीव भवति । भयानि पूर्वोक्तानि ॥ २।२८।१८ ॥

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।

चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम् ॥ २।२८।१९ ॥

सरीसृपा इति । सरीसृपाः गिरिसर्पाः । बहुरूपाः पृथुशरीराः ॥ २।२८।१९ ॥

नदीनिलयनाः सर्पा नदीकुटिलगामिनः ।

तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ २।२८।२० ॥

नदीनिलयना इति । नदीकुटिलगामिनः नदीवत् कुटिलगामिनः ॥ २।२८।२० ॥

पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।

बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥ २।२८।२१ ॥

पतङ्गा इति । पतङ्गा शलभाः । दंशाः वनमक्षिफाः “दंशस्तु वनमक्षिका” इत्यमरः ॥ २।२८।२१ ॥

द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि ।

वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ २।२८।२२ ॥

द्रुमा इति । कुशकाशयोः शाखाः कुशकाशपर्णान्येव ॥ २।२८।२२ ॥

कायक्लेशाश्च बहवो भयानि विविधानि च ।

अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ २।२८।२३ ॥

कायक्लेशा इति । कायक्लेशाः व्रतोपवासादयः । अरण्यवासे अरण्यरूपवासस्थाने ॥ २।२८।२३ ॥

क्रोधलोभौ विमोक्तव्यौ कर्त्तव्या तपसे मतिः ।

न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ २।२८।२४ ॥

क्रोधलोभाविति । भेतव्ये भयहेतुविषये । प्रागुक्तसर्पादौ न भेतव्यम्, भयं न कार्यम् ॥ २।२८।२४ ॥

तदलं ते वनं गत्वा क्षमं न हि वनं तव ।

विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥ २।२८।२५ ॥

तदिति । वनं गत्वा ऽलमिति “अलंखल्वोः–” इतिनिषेधार्थालमुपपदेक्त्वा । न गन्तव्यमित्यर्थः ॥ २।२८।२५ ॥

वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना ।

न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद्राममिदं सुदुःखिता ॥ २।२८।२६ ॥

वनमिति । रामेण वनं नेतुं मतिर्यदा न कृता बभूव तदा सीता तस्य वचनं न चकार नाङ्गीचकार । इदम् उत्तरसर्गे वक्ष्यमाणम् ॥ २।२८।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥

इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥