एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।
प्रणयादेव संक्रुद्धा भर्त्तारमिदमब्रवीत् ॥ २।२७।१ ॥
एवं रामायणपुरुषेषु रामकर्तव्यं सामान्यधर्मानुष्ठानं दर्शितम् । अथ सीतानुष्ठेयं पातिव्रत्यधर्मं संक्षेपेणोपक्षिपति–एवमुक्तेत्यादि । अप्रियवादिन्यपि प्रियार्हा प्रियभाषणार्हा । तदुपरि प्रियवादिनी । तथाप्येवमुक्ता अप्रियमुक्ता । प्रणयादेव सौहृदादेव, न तु वैरात् संक्रुद्धा ॥ २।२७।१ ॥
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् ।
त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ॥ २।२७।२ ॥
किमिति । हे रामा त्वया लघुतया ध्रुवं निश्चितम् । अत्यन्तनिस्सारमित्यर्थः । “ध्रुवो भभेदे क्लीबन्तु निश्चिते शाश्वते त्रिषु” इत्यमरः । लघुत्वमेवाह यदिति । यद्वाक्यं श्रुत्वा मे स्त्रिया अपि अपहास्यं भवति तद्वाक्यं भाषसे किमिदम् अयमपूर्वप्रकारः इतःपूर्वं न दृष्टचरः । नरवरात्मजेत्यनेनास्यासम्भावितमुच्यते । त्वामिह स्थाप्य वनं गमिष्यामीत्येतद्वचनमेतावत्पर्यन्तमनुसृतायाः प्रणयधारायाः पन्थानं नारोहतीति भावः ॥ २।२७।२ ॥
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।
स्वानि पुण्यानि भुञ्जानाः स्वस्वं भाग्यमुपासते ॥ २।२७।३ ॥
कथं मम वाक्यस्य परिहासास्पदत्वमित्यत्राह–आर्यपुत्रेति । भर्तारंप्रति भार्यायाः सम्बोधनमार्यपुत्रेति । भर्तृसम्बन्धिपित्रादयः । स्वानि पुण्यानि स्वकृतपुण्यफलानि । एतत् पापफलस्याप्युपलक्षणम् । भुञ्जानाः अनुभवन्तः । स्वंस्वं स्वस्यैव फलप्रदं भाग्यं शुभाशुभं कर्म । उपासते आचरन्ति । “भाग्यं कर्म शुभाशुभम्” इत्यमरः ॥ २।२७।३ ॥
भर्तुर्भाग्यं तु भार्य्यैका प्राप्नोति पुरुषर्षभ ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ २।२६।४ ॥
पूर्वोक्ताः सर्वे स्वकीयकर्मफलान्यनुभवन्ति । भर्तुरर्द्धशरीरभूता भार्या भर्तृकृतभाग्यफलमेवानुभवतीत्याह–भर्तुरिति । भार्यैका भार्यैव तु भर्तुर्भाग्यं प्राप्नोति, सहाधिकृतत्वात् । यस्मादेवं तस्मादेवाहमपि वने वस्तव्यमित्यादिष्टैव त्वदादेष्टृभिः । आवयोः सहधर्मचारित्वात्त्वदादेशेनैव ममाप्यादेशः सिद्ध इति भावः ॥ २।२७।४ ॥
न पिता नात्मजो राम न माता न सखीजनः ।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ २।२६।५ ॥
एवं भर्तृसमानभाग्यत्वं स्वगमनहेतुरुक्तः, तदेकगतिकत्वमपि गमनहेतुरित्याह–नेति । प्रेत्य परलोक इत्यर्थः ॥ २।२७।५ ॥
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव ।
अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥ २।२६।६ ॥
फलितार्थमाह–यदीति । अग्रतो गमने हेतुमाह मृद्नन्ती मर्दयन्ती, मृदूकुर्वन्तीत्यर्थः । कुशरूपकण्टकान् ॥ २।२७।६ ॥
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् ।
नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥ २।२६।७ ॥
ईर्ष्येति । परातिशयाक्षमा ईर्ष्या, त्वदनुवर्तनेन चरितार्थेयं भविष्यतीत्येवंरूपा । अत्रैव सुखमास्वेति मयोक्तापि स्वयमनुगमिष्यमिति ब्रूत इति रोषः । तौ भुक्तशेषं शास्त्रनिषिद्धतयोक्तमुदकमिव बहिष्कृत्य निःशेषं निरस्य । विस्रब्धः निश्शङ्कस्सन् मां नय । वीरेत्यनेन स्त्रियमेकाकी कान्तारं कथं नयेयमिति शङ्का न कर्तव्येत्युक्तम् । पापं मयि न विद्यते भवद्वियोगे जीवनहेतुपापं न विद्यत इत्यर्थः । पापान्तरस्यात्र प्रसक्त्यभावात् ॥ २।२७।७ ॥
प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा ।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ २।२७।८ ॥
प्रासादवासं विहाय किमर्थं वनवासं गच्छसीत्यत्राह–प्रासादाग्रैरिति । पञ्चम्यर्थे तृतीया । प्रासादाग्रैः सार्वभौमवासप्रासादाग्रेभ्यः । विमानैर्वा स्वर्लोकादिस्थितविमानाग्रेभ्यो वा । वैहायसगतेन अणिमाद्यष्टैश्वर्यसिद्धिसम्पन्नोचितविहायस्सम्बन्धिगमनाद्वा । सर्वावस्थागता दुरवस्थापन्नापीत्यर्थः । यद्वा सर्वावस्थासु गता अनुगता स्थायिनी, स्वरूपप्राप्तेति यावत् । पादच्छाया पादसेवा । विशिष्यते अतिरिच्यते ॥ २।२७।८ ॥
अनुशिष्टा ऽस्मि मात्रा च पित्रा च विविधाश्रयम् ।
नास्मि सम्प्रति वक्तव्या वर्त्तितव्यं यथा मया ॥ २।२७।९ ॥
उपदेशानुसारादपि मयानुगन्तव्यमित्याह–अनुशिष्टेति । यथा मया भर्तृविषयेवर्तितव्यं तथा मात्रा पित्रा च विविधाश्रयं विविधप्रकारमनुशिष्टास्मि । सम्प्रतीदानीं न वक्तव्यास्मि, न शिक्षणीयास्मीति यावत् ॥ २।२७।९ ॥
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् ।
नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ॥ २।२७।१० ॥
उपदेशफलमाह–अहमित्यादि । दुर्गत्वादिविशेषणविशिष्टमपीत्यर्थः ॥ २।२७।१० ॥
सुखं वने निवत्स्यामि यथैव भवने पितुः ।
अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥ २।२७।११ ॥
दुःखावहेयं प्रवृत्तिरित्यत्राह–सुखमिति । त्रीन् लोकान् अचिन्तयन्ती त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थः । पतिव्रतं पतिविषयं व्रतम्, पतिशुश्रूषणमित्यर्थः ॥ २।२७।११ ॥
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ २।२७।१२ ॥
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् ।
अन्यस्यापि जनस्येह किंपुनर्मम मानद ॥ २।२६।१३ ॥
शुश्रूषमाणेति । नियता नियमयुक्ता । ब्रह्मचारिणी नियतेन्द्रियेत्यर्थः । कामभोगवर्जिता वा । रंस्ये अपूर्वदर्शनेन सन्तुष्टा भविष्यामीत्यर्थः । मधुगन्धिषु पुष्परसगन्धिषु । “मद्ये पुष्परसे मधु” इति वैजयन्ती ॥ २।२७।१२१३ ॥
सह त्वया गमिष्यामि वनमद्य न संशयः ।
नाहं शक्या महाभाग निवर्त्तयितुमुद्यता ॥ २।२७।१४ ॥
सहेति । उद्यता वनगमनोद्युक्ता ॥ २।२७।१४ ॥
फलमूलाशना नित्यं भविष्यामि न संशयः ।
न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ २।२७।१५ ॥
इच्छामि सरितः शैलान् पल्वलानि वनानि च ।
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ २।२७।१६ ॥
फलमूलाशनेति । दुःखम् अशनपानाभ्यर्थनरूपम् ॥ २।२७।१५१६ ॥
हंसकारण्डवाकीर्णाः पद्मिनीः साधु पुष्पिताः ।
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ २।२७।१७ ॥
अभिषेकं करिष्यामि तासु नित्यं यतव्रता ।
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥ २।२७।१८ ॥
कारण्डवाः जलकुक्कुटाः । “मद्गुः कारण्डवः प्लवः” इत्यमरः ॥ २।२७।१७१८ ॥
एवं वर्षसहस्राणां शतं वा ऽहं त्वया सह ।
व्यतिक्रमं न वेत्स्यामि स्वर्गो ऽपि न हि मे मतः ॥ २।२७।१९ ॥
एवमिति । व्यतिक्रमं व्यतिक्रान्तम् । वर्षसहस्राणां शतमपि न वेत्स्यामि क्ष्ाणमिव नेष्यामि किं पुनश्चतुर्दशसमा इति भावः । स्वर्गो ऽपि न हि मे मतः, त्वया विनेति शेषः ॥ २।२७।१९ ॥
स्वर्गो ऽपि च विना वासो भविता यदि राघव ।
त्वया मम नरव्याघ्र नाहं तमपि रोचये ॥ २।२७।२० ॥
एतदेव विवृणोति–स्वर्गे ऽपि चेति ॥ २।२७।२० ॥
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् ।
वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ २।२७।२१ ॥
अहमिति । मृगैः आयुतम् आ समन्ताद्युक्तम् । मृगैः अयुतं नामिश्रितं, मिश्रितमित्यर्थः । “यु मिश्रणामिश्रणयोः” इति धातुः । अत्रेदमवधेयम्–वने मारीचो मृगो भविष्यति तत्प्रसङ्गेनावयोर्वियोगः स्यात् तत्र को वा पुनर्घटकः, कथं त्वं तु मया विना स्थातुं शक्तासीति चिन्तयन्तं रामं प्रति सीता सूचयति वानरवारणैरित्यादि । तथाहि मृगो मारीचः, वानरवारणैः वानरश्रेष्ठैः सुग्रीवादिभिः । पुनर्वनग्रहणात् वनेपि अशोकवनेपि वत्स्यामि पुनस्तवैव पादावुपसंगृह्य संयता नियता भविष्यामीति ॥ २।२७।२१ ॥
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् ।
नयस्व मां साधु कुरुष्व याचनां न ते मया ऽतो गुरुता भविष्यति ॥ २।२७।२२ ॥
अनन्यभावामिति । अन्वयव्यतिरेकाभ्यां स्वानुरक्तेत्युच्यते, अत एव त्वया वियुक्तां मरणाय निश्चितां त्वया वियुक्तत्वे मरणाय निश्चितामित्यर्थः । मां नयस्व । परमार्थस्तु–रावणगृहीतामपि त्वय्येवासक्तचित्ताम् । अथ वेण्युद्गथनेन मरणाय निश्चितां हनुमत्प्रेषणादिकमुखेन नयस्व । याचनां देवकृतरावणवधाभ्यर्थनम् । साधु कुरुष्व । मया कृतात् अतो ऽनुगमनात्ते गुरुता भारः न भविष्यति, क्लेशो न भविष्यतीत्यर्थः ॥ २।२७।२२ ॥
तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति ।
उवाच चैनां बहु सन्निवर्त्तने वने निवासस्य च दुःखितां प्रति ॥ २।२७।२३ ॥
तथेति । धर्मवत्सलः कान्ताक्लेशासहिष्णुः । निनीषति नेतुमिच्छति । बह्विति क्रियाविशेषणम् । सन्निवर्त्तने सन्निवर्त्तननिमित्तम् ॥ २।२७।२३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तविंशः सर्गः ॥ २७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥