अथ तं व्यथया दीनं सविशेषममर्षितम् ।
श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ २।२२।१ ॥
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ २।२२।२ ॥
अथ रामः सौमित्रेः कैकेयीविषयं रोषमुपशमयति–अथेत्यादिश्लोकद्वयमेकं वाक्यम् । सविशेषमन्तरङ्गजनापेक्षया सातिशयम् । अमर्षितं प्राप्तासहनम् । रोषविस्फारितेक्षणं क्रोधविस्तारितनयनम् । आसाद्य अभिमुखीकृत्य । सुहृत्त्वादिविशेषणं कोपेप्यनुपेक्षणीयत्वाय । सत्त्वं सर्वविषयकं स्वं बलम् । धैर्येण धारयन् अप्रकटयन् । आत्मवान् प्रशस्तमनाः, वश्यमनस्क इत्यर्थः ॥ २।२२।१२ ॥
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् ।
अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ २।२२।३ ॥
उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे ।
सर्वं विसर्जयक्षिप्रं पुरु कार्यं निरत्ययम् ॥ २।२२।४ ॥
निगृह्येत्युपक्लृप्तमिति च श्लोकद्वयमेकान्वयम् । रोषं पित्रादि विषयम् । शोकं मद्विषयम् । रोषशोकयोर्निग्रहे हेतुमाह धैर्ममाश्रित्येति । केवलमिति धैर्यनैरन्तर्यमुच्यते । अवमानम् आरब्धाभिषेकत्यागपूर्वकवनगमनम् । निरस्य निजदौर्बल्यकृतत्वाभावान्निवार्य । उत्तमं हर्षं सत्यपरिपालनेन पितरं तारयिष्याम इति बुद्धिजन्यम् । मे ऽभिषेकार्थमुपक्लृप्तं सम्पादितं यत्किञ्चिदलङ्कारादिकं तत्सर्वं विसर्ज्जय । निरत्ययं निरपायं, सत्यपरिपालनोपयुक्तं । कार्यं वल्कलधारणादिकं कुरु ॥ २।२२।३४ ॥
सौमित्रे यो ऽभिषेकार्थे मम सम्भारसम्भ्रमः ।
अभिषेकनिवृत्त्यर्थे सो ऽस्तु सम्भारसम्भ्रमः ॥ २।२२।५ ॥
सौमित्र इति । सम्भारसम्भ्रमः सम्भारसम्पादनविषयोत्साहः । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासार्थे । स सम्भारसम्भ्रमो ऽस्तु वनवासोचितसाधनसम्पादनविषयो भवत्वित्यर्थः ॥ २।२२।५ ॥
यस्या मदभिषेकार्थे मानसं परितप्यते ।
माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ॥ २।२२।६ ॥
यस्या इति । मदभिषेकार्थे मदभिषेकप्रयोजनविषये । माता कैकेयी सविशङ्का लक्ष्मणेन सम्मन्त्र्य राज्यं पुनः किं रामो ग्रहिष्यतीति शङ्कावती ॥ २२।२२।६ ॥
तस्याः शङ्कामयं दुःखं मुहूर्त्तमपि नोत्सहे ।
मनसि प्रतिसञ्जातं सौमित्रे ऽहमुपेक्षितुम् ॥ २।२२।७ ॥
तस्याः कैकेय्याः । शङ्कामयं शङ्कारूपम् । स्वार्थे मयट् । प्राचुर्ये वा ॥ २।२२।७ ॥
न बुद्धिपूर्वं नाबुद्धंस्मरामीह कदाचन ।
मातृ़णां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ २।२२।८ ॥
नेति । मातृ़णां पितुर्वा विषये कदाचन कृतं बुद्धिपूर्वमपि विप्रियं न स्मरामि । अबुद्धम् अबुद्धिपूर्वकमपि विप्रियं न स्मरामि ॥ २।२२।८ ॥
सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः ।
परलोकभयाद्भीतो निर्भयो ऽस्तु पिता मम ॥ २।२२।९ ॥
सत्य इति । सत्यः सत्यवचनः । सत्याभिसन्धः सत्यप्रतिज्ञः । सत्यपराक्रमः अमोघपराक्रमः । परलोकभयात् परलोकसम्बन्धिभयहेतोः, परलोकहानेरिति यावत् । निर्भयो ऽस्तु प्रतिष्ठितसत्यत्वादिति भावः ॥ २।२२।९ ॥
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते ।
सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ २।२२।१० ॥
तस्येति । तस्य दशरथस्यापि । अस्मिन्नभिषेककर्मणि । अप्रतिसंहृते अनिवर्तिते सति । सत्यं नेति मम वरदानविषयसत्यं नेति मनस्तापो भवेत्, तस्य तापः मां तपेत् तापयेदित्यर्थः ॥ २।२२।१० ॥
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण ।
अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥ २।२२।११ ॥
अभिषेकेति । अन्वक् अनुपदमेव । “अन्वगन्वक्षमनुगेनुपदम्” इत्यमरः । इतः अस्मान्नगरात् ॥ २।२२।११ ॥
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा ।
सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ २।२२।१२ ॥
अभिषेचयिता । लुट् ॥ २।२२।१२ ॥
मयि चीराजिनधरे जटामण्डलधारिणि ।
गते ऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ २।२२।१३ ॥
मयीति । स्पष्टम् ॥ २।२२।१३ ॥
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् ।
तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् ॥ २।२२।१४ ॥
बुद्धिरिति । येन मया इयं बुद्धिः वनवासबुद्धिः । प्रणीता शिक्षिता । मनश्च सुसमाहितं स्थिरीकृतम् । तं मां संक्लेष्टुं क्लेशयितुं नार्हामि, अतः प्रव्रजिष्यामि माचिरं मास्तु विलम्बः ॥ २।२२।१४ ॥
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।
राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ २।२२।१५ ॥
पूर्वसर्गे धर्मो ऽस्तीत्युक्तम्, अधुना प्रसङ्गाद्धर्मातिरिक्तं दैवं किञ्चिदस्ति फलप्रदमिति दर्शयन् अस्मत्प्रवासे न कैकेयीनिमित्तम्, अतः सा न निन्दितव्येत्याहकृतान्त इत्यादिना । कृतान्तः दैवम् । “कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” इति निघण्टुः । दैवं च प्राक्तनाहृष्टमित्येके । ईश्वर एवेत्याचार्याः । द्रष्टव्यः कारणत्वेनेति शेषः । वितीर्णस्य दत्तस्य ॥ २।२२।१५ ॥
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।
यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् ॥ २।२२।१६ ॥
कृतान्त एवत्येव कारव्यवच्छेद्यमाह–कैकेय्या इति । दैवः देवीसम्बन्धी कैकेयीसम्बन्धी । अयं भावः अयमभिप्रायः । कृतान्तविहितो यदि न भवेत् तदा मम पीडने कैकेय्याः प्रतिपत्तिः बुद्धिः कथं स्यात् । पीडनमिति लक्ष्मणबुद्ध्या ॥ २।२२।१६ ॥
जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।
भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा ॥ २।२२।१७ ॥
जानासीति । हे सौम्य अपि । मयि वा सुते भरते वा विशेषो यथा न भूतपूर्वः तथा जानासि हि ॥ २।२२।१७ ॥
सोभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः ।
उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ॥ २।२२।१८ ॥
स इति । सो ऽहम् एवमनुभूततद्वात्सल्यो ऽहम् । वाक्यैरिति हेतौ तृतीया । दैवादन्यत् बुद्धिभेदकारणं न समर्थये न निश्चिनोमि ॥ २।२२।१८ ॥
कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।
ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥ २।२२।१९ ॥
कथमिति । प्रकृतिः साधुस्वभावः । “प्रकृति पञ्चभूतेषु स्वभावे मूलकारणे” इति निघण्टुः । प्रकृतिसम्पन्ना साधुस्वभावसम्पन्ना । राजपुत्री महाकुलप्रसूता । तथागुणा पूर्वानुभूतदयादिसद्गुणा । सा कैकेयी प्राकृतेव स्त्री दुष्प्रकृतिका दुष्कुला गुणलेशशून्या क्षुद्रा स्त्रीव । भर्तृसन्निधौ न तु यस्य कस्यचित् सन्निधौ, न तु दूत्यादिमुखेन । मत्पीडां मम निरवधिकस्नेहपात्रस्य पीडां, न त्वप्रियमात्रं कथं ब्रूयात् व्यक्तं वदेत् न तु सूचयेत्, तस्माद्दैवमेवात्र कारणमिति ॥ २।२२।१९ ॥
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते ।
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २।२२।२० ॥
यदिति । यदचिन्त्यम् अचिन्त्यप्रभावं दैवं । तदेव सर्वेष्यपि भूतेषु न हन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावं वर्तते व्यक्तम् अत्र संशयो नास्ति । अत एव हि मयि तस्यांच विपर्ययः वैपरीत्यम् । मयि हस्तगतराज्यभ्रंशरूपः, तस्यां पूर्वस्थितवात्सल्यापगमरूपः । पतितः प्राप्तः ॥ २।२२।२० ॥
कश्च दैनेव सौमित्रे योद्धुमुत्सहते पुमान् ।
यस्य न ग्रहणं किञ्चित् कर्मणो ऽन्यत्र दृश्यते ॥ २।२२।२१ ॥
एवं प्रबलमपि दैवं पौरुषेण निवर्त्यतामित्यत्राह–क इति । क्रियत इति कर्म कार्यम् । फलरूपकार्यतो ऽन्यत्र यस्य ग्रहणं ज्ञानसाधनम् । न दृश्यते कार्यैकानुमेयं यस्य स्वरूपमित्यर्थः । तेन फलात्पूर्वमज्ञायमानेन दैवेन । कः पुमान् योद्धुमुत्सहते, कस्तं निवारयितुं समर्थ इत्यर्थः ॥ २।२२।२१ ॥
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥ २।२२।२२ ॥
ननु कर्मणो ऽन्यत्रेत्युक्तं किं तत्कर्म तत्राह–सुखदुःखे इति । अत्र भयशब्देन शान्तिरुच्यते । भवाभवौ उत्पत्तिविनाशै । यच्च किञ्चित्तथाभूतम् अचिन्त्यकारणकं लोके दृश्यते । तत्सर्वं दैवस्य कर्म कार्यम् ननु हीत्यर्थः ॥ २।२२।२२ ॥
ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ २।२२।२३ ॥
दैवप्राबल्यमेव दृढयति–ऋषय इति । ऋषयः विश्वामित्रादयः । नियमान् व्रतोपवासादीन् । काममन्युभिरिति व्यक्तिबहुत्वात् बहुवचनम् । भ्रश्यन्ते, ऋषित्वादिति शेषः ॥ २।२२।२३ ॥
असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते ।
निवर्त्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥ २।२२।२४ ॥
यच्च किञ्चित्तथाभूतमित्येतद्विशदयति–असङ्कल्पितमिति । इह अस्मिन् लोके । आरब्धम् उपक्रान्तम् । आरम्भं कार्यं निवर्त्य असङ्कल्पितम् अचिन्तितमेव यत्कार्यम् अकस्मात् झटिति प्रवर्त्तते तद्दैवस्य कर्म ॥ २।२२।२४ ॥
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।
व्याहते ऽप्यभिषेके मे परितापो न विद्यते ॥ २।२२।२५ ॥
तस्मादपरितापः संस्त्वमप्यनुविधाय माम् ।
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २।२२।२६ ॥
उपदेशफलमाह–एतयेत्यादिश्लोकद्वयेन । तत्त्वया अबाधितया एतया बुद्ध्या । आत्मानम् अन्तःकरणम् । आत्मना स्वयमेव उपदेशं विनेत्यर्थः । संस्तभ्य निश्चलीकृत्य । स्थितस्य मे अभिषेके व्याहतेपि परितापो न विद्यते । तस्मात् तत्त्वस्यैवंरूपत्वात् । अनुविधाय अनुसृत्य । आभिषेचनिकीम् अभिषेकप्रयोजनिकां क्रियाम् अलङ्करणादि । प्रतिसंहारय निवर्त्तय ॥ २।२२।२५२६ ॥
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।
मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ २।२२।२७ ॥
एभिरिति । तापस्ये तापसयोग्ये कर्मणीत्यर्थः । अभिषेचनसम्भृतैः अभिषेचनाय सम्पादितैः ॥ २।२२।२७ ॥
अथवा किं ममैतेन राजद्रव्यमतेन तु ।
उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ २।२२।२८ ॥
घटस्थजलैः तापस्यव्रतस्नाने क्रियमाणेपि राज्यलिप्सया स्नानं कृतवानिति कैकेय्याः शङ्का माभूदिति स्नानं निषेधति–अथवेति । राजद्रव्यमतेन राजद्रव्यत्वेन सम्मतेन । राज्यद्रव्यमयेनेतिपाठे–राज्यार्थमङ्गलद्रव्यप्रचुरेणेत्यर्थः । व्रतादेशं व्रतनियमम् ॥ २।२२।२८ ॥
मा च लक्ष्मण सन्तापं कार्षिर्लक्ष्म्या विपर्यये ।
राज्यं वा वनवासो वा वनवासो महोदयः ॥ २।२२।२९ ॥
मा चेति । राज्यं वा वनवासो वा उभावपि तुल्यौ । विचार्यमाणे वनवास एव महोदयः महाफलः, राज्यव्यापारक्लेशाभावात् अपूर्वदर्शनसौख्याच्चेति भावः ॥ २।२२।२९ ॥
न लक्ष्मणास्मिन् खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया ।
दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम् ॥ २।२२।३० ॥
महता प्रबन्धेनोक्तं संग्रहेण दर्शयति–नेति । यवीयसी कनिष्ठा । कानिष्ठ्यं महिषीत्रयापेक्षया, न ते ऽम्बा मध्यमेत्यत्र मध्यमात्वं सर्वराजपत्न्यपेक्षया । दैवाभिपन्ना दैवाविष्टा । तथाप्रभावं तादृशप्रभावयुक्तम्, अप्रतिहतप्रभावमित्यर्थः ॥ २।२२।३० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वाविंशः सर्गः ॥ २२ ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥