तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।
आर्त्तशब्दो महान् जज्ञे स्त्रीणामतःपुरे तदा ॥ २।२०।१ ॥
तस्मिन्निति । आर्तशब्दः आर्तानां यादृशः शब्दस्तादृश इत्यर्थः ॥ २।२०।१ ॥
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च ।
गतिर्यः शरणं चापि स रामो ऽद्य प्रवत्स्यति ॥ २।२०।२ ॥
कृत्येष्विति । अन्तःपुरस्य कृत्येषु कर्त्तव्येषु विषये । गतिः कर्तृत्वेन प्राप्यः । शरणं रक्षिता । “शरणं गृहरक्षित्रोः” इत्यमरः ॥ २।२०।२ ॥
कौसल्यायां यथा युक्तो जनन्यां वर्त्तते सदा ।
तथैव वर्तते ऽस्मासु जन्मप्रभृति राघवः ॥ २।२०।३ ॥
कौसल्यायामिति । युक्तः सावधानः । वर्तते शुश्रूषते ॥ २।२०।३ ॥
न क्रुध्यत्यभिशप्तो ऽपि क्रोधनीयानि वर्ज्जयन् ।
क्रुद्धान् प्रसादयन् सर्वान् स इतो ऽद्य प्रवत्स्यति ॥ २।२०।४ ॥
न क्रुध्यतीति । यः अभिशप्तो ऽपि परुषमुक्तो ऽपि न क्रुद्ध्यति । क्रोधनीयाने क्रोधहेतुकर्माणि वर्जयन् क्रुद्धान् केवलमाग्रहेण कुपितान् प्रसादयंश्च वर्त्तते, सः इतः अस्माद्देशात्प्रवत्स्यति । हन्तेति शेषः ॥ २।२०।४ ॥
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् ।
यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ २।२०।५ ॥
अबुद्धिरिति । यः सर्वभूतानां गतिं राघवं परित्यजति स नो राजा अबुद्धिः सन् लोकान् चरति भक्षयति नाशयतीत्यर्थः । “चर गतिभक्षणयोः” इति धातुः ॥ २।२०।५ ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः ॥ २।२०।६ ॥
इतीति । आचुक्रुशुः निन्दति स्म । चुक्रुशुः रुरुदुः ॥ २।२०।६ ॥
स हि चान्तःपुरे घोरमार्त्तशब्दं महीपतिः ।
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥ २।२०।७ ॥
स इति । व्यालीयत लज्जादुःखभरेण शय्यायां विलीनो ऽभूदित्यर्थः ॥ २।२०।७ ॥
रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जरः ।
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ २।२०।८ ॥
राम इति । भृशमायस्तः ऽव्यसनेषु मनुष्याणां भृशं भवति दुःखितःऽ इत्युक्तगुणवत्तयान्तःपुरार्तस्वनश्रवणेनातिशयेन सञ्जातदुःखः । निश्वसन्निव कुञ्जरः परदुःखस्यापरिहार्यतां मत्वा गुप्तदुःखस्सन्, कुञ्जर इव निश्वसन्नित्यर्थः । वशी स्वायत्तीकृतेन्द्रियः ॥ २।२०।८ ॥
सो ऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।
उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् ॥ २।२०।९ ॥
स इति । पुरुषं द्वारपालाध्यक्षम् ॥ २।२०।९ ॥
दृष्टैव तु तदा रामं ते सर्वे सहसोत्थिताः ।
जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम् ॥ २।२०।१० ॥
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।
ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥ २।२०।११ ॥
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः ।
स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ॥ २।२०।१२ ॥
दृष्ट्वेति । जयेन विजयस्वेति जयाशिषा ॥ २।२०।१०१२ ॥
वर्द्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।
न्यवेदयन्त त्वरिता रामामतुः प्रियं तदा ॥ २।२०।१३ ॥
वर्धयित्वेति । वर्द्धयित्वा जयाशिषेति शेषः ॥ २।२०।१३ ॥
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।
प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ २।२०।१४ ॥
कौसल्येति । रात्रिं रात्रौ “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । समाहिता नियमयुक्ता ॥ २।२०।१४ ॥
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।
अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥ २।२०।१५ ॥
सेति । जुहोति हावयति, अत एव हावयन्तीमिति वक्ष्यति । ब्राह्मणैरिति शेषः ॥ २।२०।१५ ॥
प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।
ददर्श मातरं तत्र हावयन्तीं हुताशनम् ।
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् ॥ २।२०।१६ ॥
प्रविश्येत्यादि । देवकार्यनिमित्तमिति द्रव्यजातमिति शेषः ॥ २।२०।१६ ॥
दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ २।२०।१७ ॥
दधीत्यादि । हविषः हवींषि ॥ २।२०।१७ ॥
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा ।
समिधः पूर्णकुम्भाश्च ददर्श रघुनन्दनः ॥ २।२०।१८ ॥
लाजानिति । कृसरं तिलौदनम् । दध्यक्षतमित्यारभ्य वाक्यान्तरम्, अतो न क्रियाद्वयविरोधः । पूर्वं देवकार्यनिमित्तमिति द्रव्याणि सामान्येनोक्तानि । अथ विशेषेणेति विवेकः ॥ २।२०।१८ ॥
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।
तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम् ॥ २।२०।१९ ॥
तामिति । तर्प्पयन्तीं प्रीणयन्तीम् ॥ २।२०।१९ ॥
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।
अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ २।२०।२० ॥
सेति । अभिचक्राम अभिमुखं जगाम । किशोरम् अश्वबालकम् । वडवा अश्वस्त्री ॥ २।२०।२० ॥
स मातरमभिक्रान्तामुपसंगृह्य राघवः ।
परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि ॥ २।२०।२१ ॥
तमुवाच दुराधर्षं राघवं सुतमात्मनः ।
कौसल्यां पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २।२०।२२ ॥
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ॥ २।२०।२३ ॥
स इति । उपसंगृह्य अभिवाद्य । स्थित इति शेषः ॥ २।२०।२१२३ ॥
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।
अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति ॥ २।२०।२४ ॥
सत्यप्रतिज्ञमिति । अभिषेक्ष्यतीत्यत्र हेतुः । इदानीमप्यभिषेको नारब्ध इति नाशङ्कनीयमिति भावः । पश्य जानीहि ॥ २।२०।२४ ॥
दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।
मातरं राघवः किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत् ॥ २।२०।२५ ॥
दत्तमित्यादि श्लोकद्वयमेकान्वयम् । स राघवः । भोजनेन निमन्त्रितः सन् दत्तमासनम् । आलभ्य स्पृष्ट्वा । दण्डकारण्यं प्रस्थितो ऽहम् आप्रष्टुं गमनं निमन्त्रयितुम् । उपचक्रमे उद्योगमकार्षमिति मातरमब्रवीदितिसम्बन्धः । यद्वा दत्तमिति भोजनेन निमन्त्रितः भोजनार्थं निमन्त्रितः । भोजनार्थं दत्तमासनमालभ्य तिष्ठन् दत्तासने उपवेशनाभावेपि स्पर्शमात्रं कार्यमित्यागमात् किञ्चिद्व्रीडात् एवं ब्रुवन्त्यै मात्रे कथं मया प्रस्थानं कथनीयमिति लज्जया अब्रवीत् ॥ २।२०।२५ ॥
स स्वभावविनीतश्च गौरवाच्च तदानतः ।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २।२०।२६ ॥
किमर्थमासनमुपलभ्य नोपविष्टवानित्यत्राह–स इति । गौरवात् मातरि बहुमानात् । प्रस्थितः प्रस्थातुमुद्यतः । आप्रष्टुम् अनुज्ञां कारयितुम् । उपचक्रमे उपक्रान्तवान् ॥ २।२०।२६ ॥
देवि नूनं न जानीषे महद्भयमुपस्थितम् ।
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २।२०।२७ ॥
अब्रवीदित्युक्तमाह–देवीत्यादि । भयं तवेति शेषः । इदं वक्ष्यमाणं वचनं दुःखाय, तथापि वक्ष्यामीत्यर्थः ॥ २।२०।२७ ॥
गमिष्ये दण्डकारण्यं किमनेनासनेन मे ।
विष्टरासनयोग्यो हि कालो ऽयं मामुपस्थितः ॥ २।२०।२८ ॥
इदंशब्दार्थमाह–गमिष्य इति । अनेन रत्नमयेन । विष्टरेत्यादि । विष्टरो नाम पञ्चविंशतिदर्भनिर्मितस्तापसासनविशेषः । “पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्द्धेन तु विष्टरः” इति स्मृतेः ॥ २।२०।२८ ॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ २।२०।२९ ॥
चतुर्दशेति । मुनिवत् वत्स्यामीति सम्बन्धः । अत्रामिषशब्देन सूदैः संस्कृतं मांसमुच्यते । केवलं मांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् “इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना” इति ॥ २।२०।२९ ॥
भरताय महाराजो यौवराज्यं प्रयच्छति ।
मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ २।२०।३० ॥
कुत एवामित्यत्राह–भरतायेति ॥ २।२०।३० ॥
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।
आसेवमानो वन्यानि फलमूलैश्च वर्त्तयन् ॥ २।२०।३१ ॥
स इति । सो ऽहमित्यर्थः । लघुत्वप्रदर्शनाय षट् चाष्टौ चेत्युक्तम् । चतुर्दशेत्युक्ते हि गौरवं गम्यते । वन्यानि वनसम्बन्धीनि । वानप्रस्थयोग्यकर्माणीति यावत् । आसेवमानः आचरन् । वर्त्तयन् जीवनं कुर्वन् ॥ २।२०।३१ ॥
सा निकृत्तेव सालस्य यष्टिः परशुना वने ।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ २।२०।३२ ॥
सेति । सा पुत्रोक्तं श्रुतवती । सालस्य वृक्षस्य “अनोकहः कुटः सालः” इत्यमरः । परशुनेति हठात् छेदनज्ञापनाय, नगरे तथा छेदनाभावात् वन इत्युक्तम् ॥ २।२०।३२ ॥
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ २।२०।३३ ॥
तामिति । गतचेतसं मूर्च्छिताम् ॥ २।२०।३३ ॥
उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् ।
पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ २।२०।३४ ॥
उपावृत्त्येति । उपावृत्त्योत्थितां श्रमनिवृत्त्यर्थं भुवि वेष्टनं कृत्वोत्थिताम् । वाहितां भारवहनं प्रापिताम् ॥ २।२०।३४ ॥
सा राघवमुपासीनमसुखार्त्ता सुखोचिता ।
उवाच पुरुषव्यार्घमुपशृण्वति लक्ष्मणे ॥ २।२०।३५ ॥
सेति । असुखार्ता दुःखार्ता ॥ २।२०।३५ ॥
यदि पुत्र न जायेथा मम शोकाय राघव ।
न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ २।२०।३६ ॥
यदीति । हे पुत्र त्वं यदि न जायेथाः, अतः अजननात् । भूयः अतिशयितम् । दुःखम् इष्टपुत्रविश्लेषजम् न पश्येयम् । अप्रजाः वन्ध्या ॥ २।२०।३६ ॥
एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ २।२०।३७ ॥
इदमेवोपपादयति–एक इति । अन्यः विश्लेषजः, भूलुण्ठनादिः कायिकश्च । अप्रजास्मीत्यसिजभावआर्षः ॥ २।२०।३७ ॥
न दृष्टपूर्वं कल्याणं सूखं वा पतिपौरुषे ।
अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥ २।२०।३८ ॥
नेति । पतिपौरुषे सत्यपि कल्याणं ज्येष्ठपत्नीत्वोचितग्रामाभरणाद्यैश्वर्यरूपं शुभम् । सुखं वा भर्तृसम्माननादिजनितसौख्यं वा । अपि पुत्र इति अपिःसम्भावनायाम् । पुत्रे सति तद्बलात् पश्येयमिति मया स्थितमित्यर्थः ॥ २।२०।३८ ॥
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।
अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ २।२०।३९ ॥
भूतदुःखमुक्त्वा भविष्यद्दुःखमाह–सेति । सा एवं सुखमलभमाना । बहूनीत्युक्तेः पूर्वमपि स्वल्पानि सन्तीति गम्यते । अमनोज्ञानि परुषाणि । परुषाणीत्युक्ते मनोज्ञमिश्रत्वमपि प्रतीयेत । वाक्यानि न तु सूचकपदानि । हृदयच्छिदां भर्त्तृहृदयवैकल्यकारिणीनाम् । अवराणां स्वेनैव तथा वक्तुमुचितानां सपत्नीनां न तु स्वाधीनानाम् । वरा सती स्वस्याप्यवरत्वे न किञ्चिद्दुःखमिति भावः । क्रोधेन सपत्नीनामिति बहुवचनोक्तिः । तत्र हठात् स्वगृहं मा गच्छेत्युक्तिः, कोपेन भर्त्तृसकाशात् निर्याहीत्युक्तिः, अपुत्रायाः किमुत्सवेनेत्युक्तिः इत्येवमादीनि सपत्नीवाक्यानि बोद्ध्यानि ॥ २।२०।३९ ॥
अतो दुःखतरं किन्नु प्रमदानां भविष्यति ।
मम शोको विलापश्च यादृशो ऽयमनन्तकः ॥ २।२०।४० ॥
अत इति । अतः सपत्नीवाक्यश्रवणजाद्दुःखात् । प्रमदानां किं नु दुःखतरम्, तस्मान्मम शोको विलापश्च यादृशः इयत्तया वक्तुमशक्यः । अनन्तकः दुष्पारः ॥ २।२०।४० ॥
त्वयि सन्निहितेप्येवमहमासं निराकृता ।
किं पुनः प्रोषिते तात ध्रुवं मरणमेवमे ॥ २।२०।४१ ॥
उक्तं दुःखं निदर्शयति–त्वयीति । बलवति त्वयि सन्निहिते ऽपि, एवं भवदनुभूतप्रकारेण, निराकृता । त्वयि प्रोषिते किं पुनः अतो मे मरणं ध्रुवमिति योजना ॥ २।२०।४१ ॥
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता ।
परिवारेण कैकेय्याः समा वाप्यथवा वरा ॥ २।२०।४२ ॥
अत्यन्तमिति । भर्त्तुः भर्त्रा निगृहीता अहं अतन्त्रिता अप्रधानीकृतास्मि । “तन्त्रं प्रधाने सिद्धान्ते” इति निघण्टुः । अतः कैकेय्याः परिवारेण दासीजनेन समा कृतास्मि । अथवा विचार्यमाणे अवरा न्यूना कृतास्मि ॥ २।२०।४२ ॥
यो हि मां सेवते कश्चिदथवाप्यनुवर्त्तते ।
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ २।२०।४३ ॥
दुःखान्तरमाह–य इति । त्वयि प्रोषिते यः स्वजनः मां सेवते परिचरति । अनुवर्त्तते प्रियोक्तिं करोति । सो ऽपि कैकेय्याः पुत्रं भरतमन्वीक्ष्य तद्भयादित्यर्थः । नाभिभाषते नाभिभाषेत ॥ २।२०।४३ ॥
नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।
कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ २।२०।४४ ॥
नित्यक्रोधतयेति । खरवादि परुषवचनशीलम् । तत् पूर्वानुभूतम् । दुर्गता अगतिका ॥ २।२०।४४ ॥
दश सप्त च वर्षाणि तव जातस्य राघव ।
आसितानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥ २।२०।४५ ॥
दशेति । तव जातस्य त्वयि जाते सति । दश सप्त च वर्षाणि दुःखपरिक्षयं प्रकाङ्क्षन्त्या तव यौवराज्येनेति भावः । मया सुखमासितानि आस्थितानि । ननु “ऊनषोडशवर्षो मे रामो राजीवलोचनः” इति विश्वामित्रं प्रति दशरथवचनात् विवाहानन्तरम् “उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने” इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्याष्टाविंशतिवर्षाणि वर्त्तन्ते । तत्कथं दश सप्त च वर्षाणीत्युच्यते इति चेत्, नैष दोषः । अत्र जातस्येत्युक्तिः द्वितीयजन्मापेक्षया “गर्भैकादशेषु राजन्यम्” इति बहुवचने गर्भनवममारभ्य क्षत्र्रियस्योपनयनकालत्वोक्तेः । “वयसा पञ्चविंशकः” इति सीतावचनात् वचनान्तरविरोधपरिहारादिकं बालकाण्ड एव कृतम् ऽऊनषोडशवर्षो मेऽ इत्यत्र ॥ २।२०।४५ ॥
तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम् ।
विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ २।२०।४६ ॥
तदिति । सहितुं सोढुं चिरं नोत्सहे । जीर्णापि सपत्नीदुर्वाक्यश्रवणदुःखेन जीर्णापि । विप्रकारम् अपकाररूपं दुःखमित्यन्वयः ॥ २।२०।४६ ॥
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ॥ २।२०।४७ ॥
अपश्यन्तीति । कृपणजीविकां दीनजीवनम् । वर्तयिष्यामि करिष्यामीत्यर्थः । “आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने” इत्यमरः ॥ २।२०।४७ ॥
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।
दुःखसंवर्द्धितो मोघं त्वं हि दुर्गतया मया ॥ २।२०।४८ ॥
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ २।२०।४९ ॥
ममैव नूनं मरणं न विद्यते न चावकाशो ऽस्ति यमक्षये मम ।
यदन्तको ऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ॥ २।२०।५० ॥
उपवासैरिति । योगैः देवताध्यानैः । परिश्रमैः व्रतैः । मोघं निष्फलं यथा भवति तथा । दुर्गतया भाग्यरहितयेति यावत् ॥ २।२०।४८५० ॥
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।
अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ २।२०।५१ ॥
स्थिरं हीति । अनेन दुःखेन अर्पितम् आहतम् मम हृदयं न भिद्यते इति यत् अतः स्थिरं हि नाशरहितमेव । देहं च नावदीर्यत इति यत् अतः आयसम् अयोनिर्मितम्, नूनम् । तथाहि अकाले अविहितकाले मरणं न विद्यते ध्रुवम् ॥ २।२०।५१ ॥
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि न संयमाश्च हि ।
तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे ॥ २।२०।५२ ॥
इदं त्विति । इदं वक्ष्यमाणं दुःखं तु पूर्वदुःखेभ्यो विलक्षणम् । तदेवाह यदिति । यस्मान्मे अपत्यकारणात् कृतानि व्रतानि दानानि, संयमाःध्यानानि च अनर्थकानि जातानि । “सामान्ये नपुंसकम्” इति नपुंसकत्वम् । तप्तं तपश्च ऊषरे उप्तं बीजमिव सुनिष्फलमासीत् । इदन्तु दुःखमित्यन्वयः ॥ २।२०।५२ ॥
यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ।
गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ॥ २।२०।५३ ॥
ऽध्रुवं ह्यकाले मरणं न विद्यतेऽ इत्येतत् सकार्यं दर्शयति–यदि हीति । यदि लभेत तदाहं परेतसंसदं यमसभां गता स्यामित्यन्वयः ॥ २।२०।५३ ॥
अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ ।
अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवानुकांक्षया ॥ २।२०।५४ ॥
अथेति । अथापि अकालमरणाभावेपि । किञ्जीवितं कुत्सितजीवितम् वृथा सुदुर्बला, अधीरेति यावत् । अनुकाङ्क्षया वात्सल्येन ॥ २।२०।५४ ॥
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।
व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी ॥ २।२०।५५ ॥
भृशमिति । असुखं दुःखम् । अमर्षिता सोढुमशक्ता । व्यसनं रामविश्लेषभवं व्यसनम् । उपनिशाम्य आलोच्य ॥ २।२०।५५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे विंशः सर्गः ॥ २० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥