तदप्रियममित्रघ्नो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ २।१९।१ ॥
तदिति । मरणोपममिति लोकदृष्ट्या ॥ २।१९।१ ॥
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।
जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २।१९।२ ॥
एवमिति । इतः अस्मान्नगरात् ॥ २।१९।२ ॥
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः ॥ २।१९।३ ॥
इदं त्विति । यद्यप्येतेन कारुण्येन समाप्लुत इत्यनभिनन्दने हेतुरुक्तः । तथापि मत्स्वभावं जानन् किमर्थं नाभिनन्दतीत्याहेति बोध्यम् । यथापुरं यथापूर्वम् ॥ २।१९।३ ॥
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः ।
यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ २।१९।४ ॥
मन्युरिति । मन्युः दैन्यम् । “मन्युर्दैन्ये क्रतौ क्रुधि” इत्यमरः । ब्रूमि ब्रवीमि ॥ २।१९।४ ॥
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।
नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ २।१९।५ ॥
हितेनेति । हितेन हितपरेण । गुरुणेत्यनेन रामस्य तस्मान्मन्त्रविशेषस्वीकारो ऽस्तीति गम्यते । कृतज्ञेन स्वकृतवरप्रदानाभिज्ञेन ॥ २।१९।५ ॥
अलीकं मानसं त्वेकं हृदयं दहतीव मे ।
स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ २।१९।६ ॥
अलीकमिति । अलीकम् अप्रियम् । मानसं मनसि वर्त्तमानम् ॥ २।१९।६ ॥
अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च ।
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ २।१९।७ ॥
तवाप्रीतिर्भविष्यतीति नोक्तवानित्याशङ्क्याह–अहं हीति । सीतां धनुर्भङ्गकाल इति भावः ॥ २।१९।७ ॥
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।
तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ २।१९।८ ॥
किं पुनरिति । पित्रा प्रयोदितस्तव प्रियकामार्थं प्रतिज्ञामनुपालयंश्च दद्यामिति किं पुनः ॥ २।१९।८ ॥
तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः ।
वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ २।१९।९ ॥
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥ २।१९।१० ॥
तदिति । इमं राजानं त्वमाश्वासय अश्रूणि मुञ्चतीति यत् इदं किंनु, निर्हेतुकमित्यर्थः ॥ २।१९।९१० ॥
दण्डकारण्यमेषो ऽहमितो गच्छामि सत्वरः ।
अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ २।१९।११ ॥
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।
प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ २।१९।१२ ॥
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादुपावर्त्तयितुं नराः ॥ २।१९।१३ ॥
दण्डकेति । पितुर्वाक्यमविचार्य वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वेत्यर्थः । समाःसंवत्सरान् ॥ २।१९।१११३ ॥
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ २।१९।१४ ॥
अयं यावद्भरतागमनं विलम्बिष्यते चेन्महाननयः स्यात्, भरतस्य ज्येष्ठभ्रातृभक्तत्वादिति मत्वाह–तव त्विति । उत्सुकस्य भरताभिषेकदर्शनोत्सुकस्य गमनोत्सुकस्य वा ॥ २।१९।१४ ॥
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।
नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥ २।१९।१५ ॥
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।
पिता तावन्न ते राम स्नास्यते भोक्ष्यते ऽपि वा ॥ २।१९।१६ ॥
व्रीडान्वित इति । नृपो व्रीडान्वितः सन् स्वयं नाभिभाषत इति यत् एतत् न किञ्चिद्विचारानर्हं व्रीडां विना कारणान्तराभावात् । मन्युः स्वयं नाभिभाषत इत्याग्रहः दैन्यं वा ॥ २।१९।१५१६ ॥
धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः ।
मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ २।१९।१७ ॥
धिगिति । उक्तासत्यवचनं श्रुत्वेति भावः ॥ २।१९।१७ ॥
रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
कशये वाहतो वाजी वनं गन्तुं कृतत्वरः ॥ २।१९।१८ ॥
तदप्रियमनार्याया वचनं दारुणोदयम् ।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ २।१९।१९ ॥
राम इति । कृतत्वरः अभूदिति शेषः ॥ २।१९।१८१९ ॥
नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे ।
विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ २।१९।२० ॥
नेति । लोकमावस्तुं लोके वस्तुम् । “उपान्वध्याङ्वसः” इतिकर्मत्वम् । धर्मम् आस्थितम् आश्रितम् । अनेन राज्याय भरतागमनं प्रतीक्षते राम इति कैकेयीशङ्का वारिता ॥ २।१९।२० ॥
यदत्रभवतः किञ्चिच्छक्यं कर्तुं प्रियं मया ।
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २।१९।२१ ॥
यदिति । अत्रभवतः पूज्यस्य पितुः कृतमेवेति विद्धीति शेषः ॥ २।१९।२१ ॥
न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २।१९।२२ ॥
अनुक्तोप्यत्रभवता भवत्या वचनादहम् ।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २।१९।२३ ॥
न हीति । शुश्रूषा पादसंवाहनादिः । वचनक्रिया वचनकरणम् ॥ २।१९।२२२३ ॥
न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम् ।
यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २।१९।२४ ॥
नेति । गुणम् आर्जवौदार्यादिगुणम् । नाशंससे न जानीष इत्यर्थः । ईश्वरतरा अत्यन्तनियन्त्री ॥ २।१९।२४ ॥
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।
ततो ऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ २।१९।२५ ॥
अद्यैव गन्तव्यमित्युक्तम्, तत्र यत्किञ्चिद्विलम्बं याचते–यावदिति । मातरं यावदापृच्छे सीतां चानुनयामि तावदनुज्ञां कुर्विति शेषः । ततः तदनन्तरम् । अद्यैव दिने । दण्डकानां महद्वनं दण्डो नामेक्ष्वाकुसुतस्तस्य राष्ट्रं शुक्रशापात्पांसुवर्षेण विनाशितं सदरण्यमभूत् तद्राष्ट्रं तन्नाम्ना दण्डकमित्युच्यते । “संज्ञायां कन्” इतिकन्प्रत्ययः । प्रदेशभेदात् बहुवचनम् ॥ २।१९।२५ ॥
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
तथा भवत्या कर्त्तव्यं स हि धर्मस्सनातनः ॥ २।१९।२६ ॥
भरत इति । धर्मः सनातन इत्यत्र धर्मापेक्षया पुँल्लिङ्गत्वम् ॥ २।१९।२६ ॥
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता ।
शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ॥ २।१९।२७ ॥
स इति । बाष्पमशक्नुवन्, निरोद्धुमिति शेषः ॥ २।१९।२७ ॥
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा ।
कैकेय्याश्चाप्यनार्याया निष्पपात महाद्य़ुतिः ॥ २।१९।२८ ॥
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
निष्क्रम्यान्तः पुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥ २।२९।२९ ॥
तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह ।
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्द्धनः ॥ २।१९।३० ॥
वन्दित्वेति । निष्पपात निर्जगाम ॥ २।१९।२८३० ॥
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
शनैर्जगाम सापेक्षो हृष्टिं तत्राविचालयन् ॥ २।१९।३१ ॥
आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनकम् । भाण्डम् उपकरणजातम् । प्रदक्षिणकरणं “प्रशस्तमाङ्गल्यदेवतायतन च तुष्पथादीन् प्रदक्षिणमावर्त्तयेत्” इत्यादिधर्मशास्त्रोल्लङ्घनभयात् न तु तदासक्त्या । दृष्टिं तत्राविचालयन् स्वयं तत्र निरपेक्ष इत्यर्थः । सापेक्षः भरतस्यानेनाभिषेकोस्त्विति प्रार्थनासहितः शनैर्जगाम, तत्र देवतासान्निध्यसम्भवादिति भावः ॥ २।१९।३१ ॥
न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति ।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥ २।१९।३२ ॥
न चेति । लक्ष्मीं मुखविकासम् । राज्यनाशः राज्यभ्रंशः ॥ २।१९।३२ ॥
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ २।१९।३३ ॥
रामस्य मुखवैवर्ण्यादिशरीरविकाराभावमभिधाय मानसविकाराभावमप्याह–न वनमिति । सर्वलोकातिगस्य तुल्यमानावमानस्य, परमयोगीश्वरस्येत्यर्थः ॥ २।१९।३३ ॥
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।
विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ २।१९।३४ ॥
प्रतिषिध्येत्यादि । व्यजने वालव्यजने ॥ २।१९।३४ ॥
धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च ।
प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ २।१९।३५ ॥
धारयन्निति । रामस्य परदुःखासहिष्णुत्वाद्दुःखशब्देन सुहृज्जनदुःखदर्शनजं दुःखमुच्यते । अप्रियशंसिवान् अप्रियमभिधातुकामः । क्वसुः समासाभ्यासलोप आर्षः ॥ २।१९।३५ ॥
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।
नालक्षयत रामस्य किञ्चिदाकारमानने ॥ २।१९।३६ ॥
सर्व इति । आकारं विकृताकारम् । श्रीमान् रामाभिषेकार्थं कृतालङ्कारः ॥ २।१९।३६ ॥
उचितं च महाबाहुर्न जहौ हर्षमात्मनः ।
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ २।१९।३७ ॥
उचितमिति । उचितं योग्यम्, सहजमित्यर्थः ॥ २।१९।३७ ॥
वाचा मधुरनया रामः सर्वं सम्मानयन् जनम् ।
मातुः समीपं धीरात्मा प्रविवेश महायशाः ॥ २।१९।३८ ॥
एतादृशदुर्दशायामपि रमयितृत्वरूपं रामशब्दार्थं प्रकटयति–वाचेति ॥ २।१९।३८ ॥
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः ।
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥ २।१९।३९ ॥
तमिति । गुणैः सुखदुःखादिभिः । समतां प्राप्तः, समानसुखदुःख इत्यर्थः ॥ २।१९।३९ ॥
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।
न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ २।१९।४० ॥
प्रविश्येति । अर्थविपत्तिं अर्थनाशम् । सुहृज्जनस्य आत्मविपत्तिशङ्कया प्राणनाशशङ्कया, विक्रियां न जगाम । स्वविक्रियास्फुरणे सुहृज्जनो नश्येदिति शङ्कया स्वविक्रियां राज्यनाशजां नादर्शयदित्यर्थः ॥ २।१९।४० ॥
इत्यार्षे श्रीरामायणे वाल्मीकाये आदि० श्रीमदयोध्याकाण्डे एकोनविंशःसर्गः ॥ १९ ॥
इति श्रीगोविन्दाराजविरचिते श्रीरामायणभूषणे पीताम्बराव्याख्याने अयोध्याकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥