०१८ रामेण दशरथसान्त्वनम्

स ददर्शासने रामो निषण्णं पितरं शुभे ।

कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ २।१८।१ ॥

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।

ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ २।१८।२ ॥

स इति । आसने पर्यङ्के । ऽमूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषितेऽ इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ॥ २।१८।१२ ॥

रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः ।

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ २।१८।३ ॥

रामेति । नाभिभाषितुं रामेत्यस्मादधिकमित्यर्थः ॥ २।१८।३ ॥

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।

रामो ऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ २।१८।४ ॥

तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसद्भावेप्यक्षुभितो रामो दशरथविषादस्य स्वहेतुकत्वमाशङ्क्य भयमापन्न इत्यवगन्तव्यम् ॥ २।१८।४ ॥

इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् ।

निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ २।१८।५ ॥

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।

उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ २।१८।६ ॥

इन्द्रियैरित्यादिश्लोकद्वये दृष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । उपप्लुतं राहुग्रस्तम् । उक्तानृतमृषिं यथा ऋषिमिव स्थितम्, निस्तेजस्कमित्यर्थः ॥ २।१८।५६ ॥

अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् ।

बभूव संरब्धतरः समुद्र इव पर्वणि ॥ २।१८।७ ॥

अचिन्त्यकल्पमिति । अचिन्त्यकल्पम्, असम्भावितमित्यर्थः । उपधारयन् विचारयन् । संरब्धतरः सम्भ्रान्ततरः ॥ २।१८।७ ॥

चिन्तयामास च तदा रामः पितृहितेरतः ।

किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ २।१८।८ ॥

चिन्तयामासेति । किंस्वित् किंवा ॥ २।१८।८ ॥

अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति ।

तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ २।१८।९ ॥

स दीन इव शोकार्त्तो विषण्णवदनद्युतिः ।

कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ २।१८।१० ॥

अद्यैवेत्येवकारव्यवच्छेद्यमाह–अन्यदेति । आयासः चित्तक्लेशः । इति चिन्तयामासेत्यन्वयः ॥ २।१८।९१० ॥

कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।

कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ २।१८।११ ॥

अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः ।

विवर्णवदनो दीनो न हि मामभिभाषते ॥ २।१८।१२ ॥

कच्चिदिति । नापराद्धमपराधो न कृतः । अज्ञानात् प्रमादात् ॥ २।१८।१११२ ॥

शारीरो मानसो वापि कच्चिदेनं न बाधते ।

सन्तापो वाभितापो वा दुर्ल्लभं हि सदा सुखम् ॥ २।१८।१३ ॥

शारीर इति । शारीरः सन्तापो व्याधिः । मानसो ऽभिताप आधिः । दुर्लभं हीति पुण्यपापारब्धत्वान्मानुषशरीरस्येति भावः ॥ २।१८।१३ ॥

कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।

शत्रुध्ने वा महासत्त्वे मातृ़णां वा ममाशुभम् ॥ २।१८।१४ ॥

अतोषयन्महाराजमकुर्वन् वा पितुर्वचः ।

मुहूर्त्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ २।१८।१५ ॥

कच्चिदिति । मातृ़णामिति निर्द्धारणे षष्ठी । कच्चिदिति प्रश्ने । किञ्चिदशुभं न कच्चिदितिसम्बन्धः ॥ २।१८।१४१५ ॥

यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।

कथं तस्मिन्न वर्त्तेत प्रत्यक्षे सति दैवते ॥ २।१८।१६ ॥

यत इति । इह जगति । नरः आत्मनो देहस्य । प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं पश्येत् प्रत्यक्षे दैवते सति सिद्धे तस्मिन् पितरि कथं न वर्त्तेत, तद्वशे एव वर्त्तेतेत्यर्थः ॥ २।१८।१६ ॥

कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम ।

उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ २।१८।१७ ॥

कच्चित्त इति । ते अभिमानात् तव वाल्लभ्यात् । कोपेन वा मम पिता भवत्या किञ्चित्परुषमुक्तः कच्चित् । यत्र येनास्य मनः लुलितं कलुषितम् ॥ २।१८।१७ ॥

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।

किंनिमित्तमपूर्वो ऽयं विकारो मनुजाधिपे ॥ २।१८।१८ ॥

एतदिति । किंनिमित्तमित्याद्याचक्ष्वेति पूर्वोक्तस्य सर्वस्य संग्रहः ॥ २।१८।१८ ॥

एवमुक्ता तु कैकेयी राघवेण महात्मना ।

उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ २।१८।१९ ॥

एवमिति । एवम् इति । धृष्टं प्रत्यक्षते रामानिष्टवचनविषयवैक्लव्यरहितम् ॥ २।१८।१९ ॥

न राजा कृपितो राम व्यसनं नास्य किञ्चन ।

किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥ २।१८।२० ॥

न राजेति ॥ २।१८।२० ॥

प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ २।१८।२१ ॥

त्वद्भयादित्यस्य विवरणम्–प्रियमिति । आश्रुतं प्रतिज्ञातम् ॥ २।१८।२१ ॥

एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।

स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥ २।१८।२२ ॥

तत्किमित्यपेक्षायां सामान्यतो दर्शयति–एष इत्यादिना ॥ २।१८।२२ ॥

अतिसृज्य ददानीति वरं मम विशांपतिः ।

स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २।१८।२३ ॥

अतिसृज्येति । अतिसृज्य प्रतिज्ञाय । गतजले सेतुं बन्धितुमिच्छतीति दानस्य पूर्वमेव कृतत्वात् इदानीं तत्परिहारव्यापारो व्यर्थ इति भावः ॥ २।१८।२३ ॥

धर्ममूलमिदं राम विदितं च सतामपि ।

तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २।१८।२४ ॥

धर्ममूलमिति । इदं जगद्धर्ममूलम् । इदं च सतां विदितं सद्भिर्विदितम् । “क्तस्य च वर्त्तमाने” इति षष्ठी । तत्तस्मात्सत्यं सत्यरूपधर्मम् । राजा त्वत्कृते त्वत्प्रयोजनाय । मयि कुपितः सन् यथा न त्यजेत् तथा कुर्वित्यर्थः ॥ २।१८।२४ ॥

यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् ।

करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २।१८।२५ ॥

तर्हि तद्विशेषतो वक्तव्यमित्यत्राह–यदीति । शुभमशुभं वा तत्प्रतिज्ञातं राजा यद्वक्ष्यति तत् त्वं करिष्यसि यदि तदा राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ २।१८।२५ ॥

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।

ततो ऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २।१८।२६ ॥

राजैव कुतो न वदतीत्यत्राह–यदीति । न विपत्स्यते यदि विफलं न भविष्यति चेदित्यर्थः ॥ २।२८।२६ ॥

एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।

उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २।१८।२७ ॥

एतदिति । व्यथितः गुरुवचनं करिष्यति नवेति सन्देहस्य विषयो ऽस्मीति सन्तप्त इत्यर्थः ॥ २।२८।२७ ॥

अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः ।

अहं हि वचनाद्राज्ञः पतेयमपि पावके ।

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ २।१८।२८ ॥

व्यथामेवाह–अहो इत्यादिना ॥ २।१८।२८ ॥

नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २।१८।२९ ॥

नियुक्त इति । गुरुत्वपितृत्वनृपत्वहितपरत्वानि वचनकरणहेतवः । करिष्ये तदित्यनुकर्षः ॥ २।१८।२९ ॥

तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् ।

करिष्ये प्रतिजाने च रामोद्विर्नाभिभाषते ॥ २।१८।३० ॥

तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।

उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ २।१८।३१ ॥

पुरा दैवासुरे युद्धे पित्रा ते मम राघव ।

रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ २।१८।३२ ॥

तदिति । यत्कार्यमभिकांक्षितं तद्वचनं तद्विषयवचनं ब्रूहि । तत्कार्यं करिष्ये, प्रतिजाने च प्रतिज्ञां करोमि च । रामो द्विर्नाभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न करोतीत्यर्थः ॥ २।१८।३०३२ ॥

तत्र मे याचितो राजा भरतस्याभिषेचनम् ।

गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ २।१८।३३ ॥

यदि सत्यप्रतिज्ञां त्वं पितरं कर्तुमिच्छसि ।

आत्मानं नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ २।१८।३४ ॥

तत्रेति । तत्र वरप्रदाननिमित्तम् ॥ २।१८।३३३४ ॥

सन्निदेशे पितुस्तिष्ठ यथा ऽनेन प्रतिश्रुतम् ।

त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ २।१८।३५ ॥

सन्निदेश इति । सन्निदेशे नियमने ॥ २।१८।३५ ॥

भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।

त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ २।१८।३६ ॥

सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ।

अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ॥ २।१८।३७ ॥

भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् ।

नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ॥ २।१८।३८ ॥

भरत इति । यदेतदभिषेचनम् अभिषेकसाधनम् । त्वदर्थे विहितं तेन सर्वेण राज्ञा भरतो ऽभिषिच्येतेति योजना ॥ २।१८।३६३८ ॥

एतेन त्वां नरेन्द्रो ऽयं कारुण्येन समाप्लुतः ।

शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ २।१८।३९ ॥

एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन ।

सत्येन महता राम तारयस्व नरेश्वरम् ॥ २।१८।४० ॥

एतेनेति । एतेन वरद्वयप्रदाननिमित्तेन ॥ २।१८।३९४० ॥

इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् ।

प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः ॥ २।१८।४१ ॥

इतीति । इवशब्देन अन्यान्यपि परुषाणि बहून्युक्तनीति गम्यते । शोकं मुखवैवर्ण्यादिबाह्यविकारम् । प्रविव्यथे चापि रामविकारादर्शनेनाप्यधिकं विव्यथ इत्यर्थः ॥ २।१८।४१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशः सर्गः ॥ १८ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरख्याने अयोध्याकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥