स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ २।१६।१ ॥
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।
अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २।१६।२ ॥
एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे–स तदित्यादि ॥ २।१६।१२ ॥
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥ २।१६।३ ॥
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।
सह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ॥ २।१६।४ ॥
तत्रति । काषायिणः काषायवस्त्रधारिणः । रामप्रीत्यर्थमलङ्कारकञ्चुकालंकृतानित्यर्थः । वृद्धान् पञ्चनवतिवयस्कान् । ते खल्वन्तःपुरे स्थाप्या भवन्ति । वेत्रपाणीन् यथा रामो धनुर्धृत्वा लोकं रक्षयति तथा तेपि वेत्राणि धृत्वा रामं रक्षन्तीति भावः । स्वलंकृतान् रामश्चक्रवर्तिगृहे कृतमज्जनो भुक्त्वा यदा पुनर्दिव्यान्तःपुरमुपयाति तदा चक्रवर्तिवदन्तरङ्गतया च तमुत्सङ्गे निवेश्य परिष्वज्य मूर्ध्न्याघ्राय विसर्जयन्ति तेन कुङ्कुमपङ्कैः कस्तूरिकादिदिव्याङ्गरागैश्चालंकृतान् स्वलंकृतान् रामसीतालङ्कारेभ्यो ऽप्ययमलङ्कारोतिशयित इति भावः ॥ २।१६।३४ ॥
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः ।
क्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ॥ २।१६।५ ॥
ते राममुपसङ्गम्य भर्त्तुः प्रियचिकीर्षवः ।
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ २।१६।६ ॥
तानिति । प्रकर्षेण दक्षिणः प्रदक्षिणः । सेवानिपुण इत्यर्थः । “दक्षिणे सरलो दारौ” इत्यमरः । तिष्ठतीत्यत्र इतिकरणं द्रष्टव्यम् । तिष्ठतीत्याख्यातेत्यन्वयः ॥ २।१६।५६ ॥
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः ।
तत्रैवानाययामास राघवप्रियकाम्यया ॥ २।१६।७ ॥
प्रतिवेदितमिति । प्रतिवेदितं द्वाःस्थैः निवेदितं पितुः अभ्यन्तरम् अन्तरङ्गं । तत्रैव यत्र सीतया सह स्थितः तत्रैवेत्यर्थः । राघवप्रियकाम्यया राघवस्य दशरथस्य प्रियेच्छया । राम इत्यध्याहारः ॥ २।१६।७ ॥
तं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् ।
ददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे ॥ २।१६।८ ॥
तमिति । वैश्रवणसङ्काशं तद्वदनवधिकैश्वर्यसम्पन्नम् । यद्वा यथा वैश्रवणो दाता “कामेश्वरो वैश्रवणो ददातु” इतिश्रुतेः । तथा परिसरवर्तिनां स्वसौन्दर्यानुभवसर्वस्वं ददातीत्यर्थः । उपविष्टं ऽसह पत्न्या विशालाक्ष्या नारायणमुपागमत्ऽ इत्युक्तरीत्या भगवद्ध्यानपरतयावस्थितम् । स्वलंकृतं ध्यानानुकूलाञ्जलिनयुक्तम् । दिव्यमालालंकृतं वा तं सूतो ददर्श । उत्कर्षकाष्ठाभूमिभूतं रामं निकर्ष सीमाभूमिभूतो ददर्श, को ऽयं भाग्यातिशय इति भावः । पर्यङ्के तादृशैश्वर्य्यसामग्र्यनुरूपापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्य्यङ्के । अत एव ह्युत्तरत्र “पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् । तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ " इति सुयज्ञे तत् स्थापयिष्यति। सौवर्णे उपर्य्युपविष्टसदृशे। काञ्चनगिरिः कालमेघमिव रामं भासयतीत्यर्थः। सोत्तरच्छदे पुष्पहाससुकुमाररामदेहानुगुणमृदुतरास्तरणयुक्ते, पर्यङ्कविद्योक्तरीत्या मुक्तानुभाव्यदिव्यवेषमहो सूतोऽन्वभूदिति सौशील्यातिशयोक्तिः ॥ २।१६।८ ॥
वराहरुधिराभेण शुचिना च सुगन्धिना ।
अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ २।१६।९ ॥
ऽस्रक्चन्द्रनवनिताःऽ इत्युक्त भोग्यवस्तुष्वादौ दिव्यमाल्ययोगमुक्त्वा दिव्यचन्दनयोगं दर्शयति–वराहरुधिराभेणेति । वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धम् । तत्सदृशेन कुङ्कुममिश्रतयेति भावः । सीताकरकमलानुलिप्ततया तत्कान्तिमिश्रत्वमुच्यते । शुचिना सीताकरस्पर्शपूतेन । तत्करस्पर्शकृतशैत्यविशेषं समुच्चिनोति चशब्दः । सुगन्धिना ऽसर्वगन्धःऽ इत्यस्य श्रियोप्यविशेषात्तत्करस्पर्शजनितनिरवधिकगन्धेन । परार्द्ध्येन कान्तानुलिप्ततया श्रेष्ठेन चन्दनेन । अनुलिप्तं पश्चात् लिप्तम् । अनेन सीताङ्गरागकरणानन्तरत्वं गम्यते । परन्तपम् एतादृशसौन्दर्यानुभवविरोधिनिवर्त्तकम् ॥ २।१६।९ ॥
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।
उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ २।१६।१० ॥
अथाप्राकृतवनितायोगं दर्शयति–स्थितयेति । चापीति निपातः पूर्वोक्तसमुच्चये । पार्श्वतः स्थितया चन्दनानुलिप्तगात्रं कान्तं कृत्वा वालव्यजनं हस्ते कृत्वा पार्श्वे स्थितया सीतया भूयः उपेतं विनयेन पार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुषमाविशेषबलोत्कारेण गाढमाश्लिष्टम् । भूय इत्यत्र विराजमानमिति शेष इत्यप्याहुः । तदानीन्तनातिशयं दृष्टान्तमुखेन स्पष्टीकरोति चित्रयेति । चैत्रपौर्णमास्यां चित्राख्यतारकयोपेतम् उदितं शशिनमिव स्थितम् । चित्रयेत्यनेन तत्कृतातिशय उक्तः । उपेतमित्यनेन रक्तवर्णत्वम् शशिनमित्यनेन सीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तम् । एवम्भूतं ददर्शेति दृष्टिसाफल्यमुक्तम् ॥ २।१६।१० ॥
त तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।
ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ २।१६।११ ॥
शिरसो वाचश्च साफल्यमाह–तमिति । ववन्द इति शिरसः साफल्यमुक्तम् । वन्दीति वाक्साफल्यम् । वरदं स्वानुभवरूपवरप्रदम्, विनीतवत् विनीतो यथा साष्टाङ्गं वन्दते तथेत्यर्थः ॥ २।१६।११ ॥
प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ २।१६।१२ ॥
प्राञ्जलिरिति । विहारशयनासन इति द्वैन्द्वकवद्भावः । विहारः गतिः ॥ २।१६।१२ ॥
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।
महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ २।१६।१३ ॥
कौसल्येति । सुप्रजाः, त्वयेति शेषः । यद्वा कौसल्यायाः सुप्रजः सुपुत्र असिच्प्रत्ययान्तः ॥ २।१६।१३ ॥
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।
ततः सम्मानयामास सीतामिदमुवाच ह ॥ २।१६।१४ ॥
एवमिति । सम्मानयामास, सूतमिति शेषः ॥ २।१६।१४ ॥
देवि देवश्च देवी च समागम्य मदन्तरे ।
मन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ॥ २।१६।१५ ॥
देवीति । मदन्तरे मदर्थम् । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये” इत्यमरः । अभिषेचनसंहितम् अभिषेचनसम्बन्धि मदर्थं किञ्चिन्मन्त्रयेते विचारयः ॥ २।१६।१५ ॥
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।
सञ्चोदयति राजानं मदर्थं मदिरेक्षणे । २।१६।१६ ॥
महिष्या सहेत्युक्त्योन्नेयमर्थं दर्शयति–लक्षयित्वेति । सुदक्षिणा सुकुशला अत एव राज्ञो ऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्बः कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थं मदभिषेकं सञ्चोदयति । एतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ॥ २।१६।१६ ॥
सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी ।
जननी चार्थकामा मे केकयाधिपतेः सुता ॥ २।१६।१७ ॥
दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ २।१६।१८ ॥
सन्दिग्धोक्तिजनितां सीताशङ्कां वारयति–सेति । प्रहृष्टा, मयीति शेषः । हितकामा, लोकस्येति शेषः । महाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेषः ॥ २।१६।१७१८ ॥
यादृशी परिषत्तत्र तादृशो दूत आगतः ।
ध्रुवमद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति ॥ २।१६।१९ ॥
यादृशीति । तत्र अन्तःपुरे । यादृशी परिषत् परिसरवर्ती जनः, तादृशस्तत्तुल्यो दूतः ॥ २।१६।१९ ॥
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।
सह त्वं परिवारेण सुखमास्व रमस्व च ॥ २।१६।२० ॥
हन्तेति । हन्तेति हर्षे । परिवारेण परिचारिकासङ्घेन । रमस्व वृत्तकीर्त्तनेन रता भव ॥ २।१६।२० ॥
पतिसम्मानिता सीता भर्त्तारमसितेक्षणा ।
आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २।१६।२१ ॥
अथ सीता रामस्य सौन्दर्यालंकृतिविशेषानालोक्य किंवा भविष्यतीति कलुषितहृदया तस्मै मङ्गलमाशासानानुव्रजति–पतिसम्मानितेति । पतिसम्मानितापत्या स्वकण्ठादुन्मुच्य दत्तमुक्तामालिकेत्यर्थः । पादपल्लवस्पर्शपूर्वकं सान्त्वितेति भट्टारकाः । तदर्हत्वज्ञापनाय तद्वैलक्षण्यं दर्शयति सीतेति । सीता लाङ्गलपद्धतिः, तज्जत्वात्सीता । अयोनिजाभावेन स्वस्माद्विलक्षणायां तस्यां तादृशी प्रीतिरुचितैवेति भावः । असितेक्षणा रामेण मालायां दत्तायामियमपि लोचनाभ्यां कुवलयमालां दत्तवती । भर्त्तारमाद्वारमनुवव्राज आत्मानमनवरतं हृदये बिभ्रतो रामस्य विरहासहतया स्वगमनयोग्यदेशपर्य्यन्तमनुजगाम । मङ्गलान्यभिदध्युषी अभिध्यायन्ती किमस्य सौन्दर्य्यस्य हानिर्भविष्यतीति कलुषितहृदया मङ्गलाशासनपूर्वकमनुवव्राज ॥ २।१६।२१ ॥
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २।१६।२२ ॥
मङ्गलाभिध्यानमेव दर्शयति–राज्यमिति । द्विजातिभिः ब्राह्मणैः जुष्टं सेवितं राजसूयाभिषेचनं राजसूययागे यो ऽभिषेकः ऽअथाभिषिच्यतेऽ इत्युच्यमानः तदर्हम् अनेन महाराज्यवत्त्वं गम्यते । कर्त्तुं दातुम् । लोककृत् ब्रह्मा ॥ २।१६।२२ ॥
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् ।
कुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २।१६।२३ ॥
दीक्षितमिति । दीक्षितं सकृष्णाजिनम् । नवनीताभ्यक्तं यजमानवेषं द्रष्टुमिच्छामीत्याह व्रतसम्पन्नम् । ऋषिणोपवस्तव्यमित्युक्ते मम सौकुमार्यानुगुणमेवमुक्तमिति मत्वा चतुर्गुणमुपवासं करोति श्रद्धया । तदाह सम्पन्नमिति । वराजिनधरं वस्त्रधारणादप्यजिनधारणस्योत्कर्ष उच्यते । शुचिं कामपि स्त्रियं मास्पृश धर्म्मपत्नीत्वेन सीतास्पर्शे न दोष इति मुनिनोक्तेपि शङ्कया सीतावस्त्रदशास्पर्शेपि स्नानं करोति । कुरङ्गश्रृङ्गपाणिं च एकवस्त्रधरो धन्वीत्येतदपेक्षया कण्डूयनार्थं कृष्णविषाणकृतशोभातिशय उच्यते । पश्यन्ती त्वां भजाम्यहं भाविफलापेक्षायां कृतायामान्तरालिकफलमर्थसिद्धमेव । अतो ऽभिषेकान्तरायविरहो न प्रार्थितः । यथा सावित्री भर्त्तारं दर्शयित्वानेनाहमनेकपुत्रा स्यामित्यर्थितवती । तेन सिद्धं भर्त्तुः पूर्णायुःप्रार्थनम् । तद्वत् पश्यन्तीति हेतौ शतृप्रत्ययः । दर्शनार्थमित्यर्थः । दर्शनार्थं हि भगवन्तं भजन्ते अत इयमपि तथैवाह ॥ २।१६।२३ ॥
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ।
वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २।१६।२४ ॥
पूर्वामिति । उत्तरां दिशमित्यनन्तरं इति मङ्गलान्यभिदध्युषीति योज्यम् । भर्तृविषयत्वेन न वाचोक्तवतीति भावः ॥ २।१६।२४ ॥
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २।१६।२५ ॥
अथेति । कृतकौतुकमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ २।१६।२५ ॥
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।
लक्ष्मणं द्वारि सोपश्यत् प्रह्वा़ञ्जिलिपुटं स्थितम् ॥ २।१६।२६ ॥
पर्वतादिति । द्वारि प्रथमद्वारि । प्रह्वाञ्जलिपुटम् अञ्जलिपुटो ऽस्यास्तीत्यञ्जलिपुटः । मत्वर्थी योच्प्रत्ययः । प्रह्वश्चासावञ्जलिपुटश्चेति कर्मधारयः । तम् ॥ २।१६।२६ ॥
अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः ।
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २।१६।२७ ॥
ततः पावकसङ्काशमारुरोह रथोत्तमम् ।
वैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दनः ॥ २।१६।२८ ॥
अथेत्यादिश्लोकद्वयम् । अर्थिनः रामदर्शनार्थिनः अभिषेकार्थिनो वा । वैयाघ्रं व्याघ्रचर्मपरिवृतं “द्वैपवैयाघ्रादञ्” इत्यञ् । राजतं रजतविकारम् । राजन्तमिति च पाठः ॥ २।१६।२७२८ ॥
मेघनादमसम्बाधं मणिहेमविभूषितम् ।
मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २।१६।२९ ॥
मेघनादमित्यादि । मेघस्येव नादो यस्य स मेघनादस्तम् । असम्बाधं सम्बाधरहितम् । उचितविस्तारमित्यर्थः ॥ २।१६।२९ ॥
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ।
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ २।१६।३० ॥
करेणुशिशुकल्पैरिति । करेणुशिशुकल्पैः कलभसदृशैः ॥ २।१६।३० ॥
स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।
निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ २।१६।३१ ॥
स इति । आकाशे स्वनवान् नादवान् । पर्जन्य इव मेघ इव । “पर्जन्यौ रसदब्देन्र्दौ” इत्यमरः । अभिनादयन् रथेन दिश इति शेषः । महेन्द्रशब्दः उदयाद्रिपरः ॥ २।१६।३१ ॥
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ।
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्टतः ॥ २।१६।३२ ॥
छत्रचामरपाणिरीति । एकहस्तेन छत्रम् अपरहस्तेन चामरं च धारयन्नित्यर्थः । जुगोप आतपादिभ्यः इति भावः ॥ २।१६।३२ ॥
ततो हलहलाशब्दस्तुमुलः समजायत ।
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ २।१६।३३ ॥
तत इति । हलहलाशब्दः कलकलाशब्दः । तस्य निष्क्रममाणस्य तस्मिन्निष्क्रममाणे सति जनौघस्य हलहलाशब्द इत्यन्वयः ॥ २।१६।३३ ॥
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ।
अनुजग्मुस्तदा रामं शतशो ऽथ सहस्रशः ॥ २।१६।३४ ॥
तत इति । हयनागशब्दौ तदारूढपरौ ॥ २।१६।३४ ॥
अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः ।
खड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ २।१६।३५ ॥
अग्रत इति । रूषिताः लिप्ताः । आशंसवः रामश्रेय आशंसमानाः ॥ २।१६।३५ ॥
ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् ।
सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ २।१६।३६ ॥
तत इति । ततः तत्र वीथ्याम् । तदा निर्गमनकाले ॥ २।१६।३६ ॥
हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ।
कीर्य्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ॥ २।१६।३७ ॥
हर्म्यवातायनस्थाभिरिति । हर्म्यवातायनस्थाभिः प्रासादगवाक्षस्थाभिः ॥ २।१६।३७ ॥
रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ।
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ २।१६।३८ ॥
राममिति । रामपिप्रीषया रामप्रीणनेच्छया । ववन्दिरे तुष्टुवुः । “वदि अभिवादनस्तुत्योः” इति धातुः ॥ २।१६।३८ ॥
नूनं नन्दति ते माता कौसल्या मातृनन्दन ।
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥ २।१६।३९ ॥
स्तुतिप्रकारमेवाह–नूनमित्यादि । नन्दतीत्यत्रेतिकरणं द्रष्टव्यम् । तस्य ववन्दिर इति पूर्वेण सम्बन्धः । सिद्धमात्रं सफलगमनं अत एव पित्र्यं राज्यम् । अवस्थितं अधिष्ठितम् ॥ २।१६।३९ ॥
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम् ।
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ २।१६।४० ॥
तया सुचरितं देव्या पुरा नूनं महत्तपः ।
रोहिणीव शशाङ्केन रामसंयोगमाप या ॥ २।१६।४१ ॥
इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः ।
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ २।१६।४२ ॥
उत्तरश्लोकार्थहेतुत्वेनाह–सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ॥ २।१६।४०४२ ॥
स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य ।
आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ २।१६।४३ ॥
स इति । कथाप्रपञ्चान् लौकिककथाविस्तारान् । आत्माधिकाराः आत्मानमधिकृत्य प्रवृत्ताः । पुरः पुरस्य सम्बन्धिनो जनस्य ॥ २।१६।४३ ॥
एष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।
एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥ २।१६।४४ ॥
एष इति । श्रियं गमिष्यन् गच्छति श्रियं प्राप्तुं गच्छति ॥ २।१६।४४ ॥
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ।
न ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपे ऽस्मिन् ॥ २।१६।४५ ॥
लाभ इति । अस्य जनस्यायमेव लाभः यदेष सर्वं राष्ट्रं प्रपत्स्यते अस्मिन् मनुजाधिपे सति कश्चित् जातु कदाचित् । किञ्चनाप्यप्रियं प्रियाभावं दुःखमनिष्टं च न पश्येत् ॥ २।१६।४५ ॥
स घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ २।१६।४६ ॥
सघोषवद्भिरिति । स्वस्तिकसूतमागधैः स्वस्तिकाः जयजयेतिमङ्गलं प्रयुञ्जानाः, वन्दिनः इत्यर्थः । सूताः ब्राह्मण्यां क्षत्र्रियाज्जाताः सारथ्येस्तुतिकर्मणि च नियुक्ताः । “ब्राह्मण्यां क्षत्र्रियात्सूतः” इत्यमरः । मागधाः क्षत्र्रियायां वैश्याज्जाताः । राज्ञां प्रबोधनकर्मणि नियुक्ताः “मागधः क्षत्र्रियाविशोः” इत्यमरः ॥ २।१६।४६ ॥
करेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम् ।
प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ २।१६।४७ ॥
करेण्विति । रामो महापथं ददर्शेत्यन्वयः ॥ २।१६।४७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशः सर्गः ॥ १६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामानयणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥