०१४ रामानयनाय सुमन्त्रप्रेषणम्

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।

विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ २।१४।१ ॥

अथ रामविवासननिर्द्धारणं दर्शयति चतुर्दशे–पुत्रेत्यादि ॥ २।१४।१ ॥

पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् ।

शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २।१४।२ ॥

पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थः । पाकं पचतीतिवन्निर्देशः । पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले सन्नः अवसन्नः सन् शेषे । किमिदं स्थित्यां मर्यादायां सत्यपरिपालनरूपायां “मर्यादाधारणा स्थितिः” इत्यमरः । स्थातुमर्हसि ॥ २।१४।२ ॥

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।

सत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ २।१४।३ ॥

इदमेव युक्तमिति दर्शयति–आहुरित्यादिना । सत्यरूपं धर्ममाश्रित्य हि मया प्रचोदितः ॥ २।१४।३ ॥

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।

प्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ २।१४।४ ॥

प्राणसङ्कटे कथं सत्यं पालनीयमित्यत्राह–संश्रुत्येत्यादिना ॥ २।१४।४ ॥

तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।

याचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ २।१४।५ ॥

तथेति । याचमाने ब्राह्मणे । अविमनाः सुप्रसन्नमनाः सन् नेत्रे ददौ । तस्मा इति शेषः ॥ २।१४।५ ॥

सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।

सत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ॥ २।१४।६ ॥

सरितामिति । सरितां पतिः समुद्रः । मर्यादां सत्यमन्वितः वेलां नातिवर्त्तत इति मर्यादारूपं सत्यं प्राप्तः सन् । सत्यानुरोधात् स्वकृतसत्यानुवर्त्तनात् समये सङ्कल्पितकाले । स्वां वेलां स्वल्पामपि नातिवर्तत इतिसम्बन्धः ॥ २।१४।६ ॥

सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।

सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ २।१४।७ ॥

सत्यमिति । सत्यमेव एकपदं ब्रह्म एकं मुख्यम् । “एके मुख्यान्यकेवलाः” इत्यमरः । पद्यत इति पदं परमप्राप्यम्, ब्रह्मेत्यर्थः । यद्वा एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा “ओमित्येकाक्षरं ब्रह्म” इति स्मृतेः । सत्ये धर्मः प्रतिष्ठितः सत्यमेव धर्मस्य परा काष्ठेत्यर्थः । अक्षया वेदाश्च सत्यमेव प्राधान्येन प्रतिपादयन्तीत्यर्थः । परं प्रयोजनं सत्येनैवाप्यते ॥ २।१४।७ ॥

सत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः ।

स वरः सफलो मे ऽस्तु वरदो ह्यसि सत्तम ॥ २।१४।८ ॥

सत्यमिति । अत्रादौ तस्मादित्युपस्कार्यम् । धृता स्थिरा । वरदः सर्वेषां सर्ववरप्रदः ॥ २।१४।८ ॥

धर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात् ।

प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ २।१४।९ ॥

धर्मस्येति । अभिकामार्थं प्रीत्यर्थम् । धर्माभिवृद्ध्यर्थमिति यावत् । मम प्रियाया इति शेषः । समनस्कत्वज्ञापनाय त्रिरित्युक्तम् ॥ २।१४।९ ॥

समयं च ममाद्येमं यदि त्वं न करिष्यसि ।

अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ २।१४।१० ॥

समयमिति । समयं रामविवासनं । परित्यक्ता उपेक्षिता ॥ २।१४।१० ॥

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।

नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ २।१४।११ ॥

एवमिति । एवं त्रिर्ब्रवीमीत्येवम् । पाशं सत्यपाशम् । अन्मोक्तुं मोचयितुम् । बलिः महाबलिः । इन्द्रकृतम् इन्द्रद्वारोपेन्द्रकृतं पाशं पदत्रयदानप्रतिज्ञारूपं पदत्रयादानान्निगलं वा ॥ २।१४।११ ॥

उद्भ्रान्तहृदयश्चापि विवर्णवदनो ऽभवत् ।

स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ २।१४।१२ ॥

उद्भ्रान्तहृदय इति । स राजा युगचक्रयोरन्तरं परिस्पन्दन् गच्छन् । धुर्यो यथा अनङ्वानिव । उद्भ्रान्तहृदयो विवर्णवदनश्चाभवत् ॥ २।१४।१२ ॥

विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ।

कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ २।१४।१३ ॥

विह्वलाभ्यामिति । विह्वलाभ्यां क्षुब्धाभ्याम् । अपश्यन्निव अन्ध इव स्थितः भूमिपः कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य, दुःखातिशयजनितक्षोभं निरुद्ध्येत्यर्थः ॥ २।१४।१३ ॥

यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।

तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ २।१४।१४ ॥

य इति । हे पापे अग्नौ अग्निसमीपे सामीप्ये सप्तमी । मन्त्रकृतः मन्त्रसंस्कृतः । यः पाणिर्मया धृतः तं त्यजामि, तत्प्रयुक्तव्यवहारं त्यजामीत्यर्थः । अत एव स्वजं स्वस्मात् जातमपि तव पुत्रं त्वया सह त्यजामि ॥ २।१४।१४ ॥

प्रयाता रजनीदेवि सूर्यस्योदयनं प्रति ।

अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ २।१४।१५ ॥

प्रयातेति । उदयनं प्रति उदयं प्रतिलभ्य त्वरयिष्यतीति सम्बन्धः ॥ २।१४।१५ ॥

रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।

रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ २।१४।१६ ॥

रामेति । तदर्थं रामाभिषेकार्थम् उपकल्पितैः रामाभिषेकसम्भारैः रामाभिषेकसामग्रीभिःसह गुरुजनस्त्वरयिष्यतीति पूर्वेण सम्बन्धः । यद्वा अभिषेकसामग्र्येव सलिलक्रियासामग्रीभवत्वित्यर्थः ॥ २।१४।१६ ॥

त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया ।

व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ २।१४।१७ ॥

त्वयेति । व्याहन्तासीति लुण्मध्यमपुरषैकवचनम् ॥ २।१४।१७ ॥

न च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् ।

हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ २।१४।१८ ॥

न चेति । तथासुखं तादृशसुखयुक्तम् । जनं दृष्ट्वा पुनः हतहर्षं हतहर्षविकारम् । निरानन्दं अतएवावाङ्मुखं जनं द्रष्टुं न शक्नोमि ॥ २।१४।१८ ॥

तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।

प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ २।१४।१९ ॥

तामिति । तस्य ब्रुवतः तस्मिन् ब्रुवतीत्यर्थः । पुण्येत्युक्तिः अनन्तरं रामदर्शनसम्भवात् ॥ २।१४।१९ ॥

ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।

उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ २।१४।२० ॥

तत इति । रोषमूर्च्छिता क्रोधेन व्याप्ता ॥ २।१४।२० ॥

किमिदं भाषसे राजन् वाक्यं गररुजोपमम् ।

आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २।१४।२१ ॥

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।

निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २।१४।२२ ॥

किमिदमिति । गररुजोपमं विषजनितव्याधिसदृशम् । अङ्गरुजोपममितिपाठे सर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थः । अङ्गेति सम्बोधनं वा । अक्लिष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्धः ॥ २।१४।२१२२ ॥

स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।

राजा प्रयोदितो ऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ २।१४।२३ ॥

स इति । नुन्नः व्यथितः । प्रतोदेन तोत्रेण । अभीक्ष्णं पुनः पुनः । “पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः” इत्यमरः ॥ २।१४।२३ ॥

धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना ।

ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २।१४।२४ ॥

धर्मबन्धेनेति । धर्मबन्धेन धर्मपाशेन । बद्धोस्मीत्यनेन रामविवासनं मनागनुज्ञातम् । द्रष्टुमिच्छामि गमनात्पूर्वमिति शेषः ॥ २।१४।२४ ॥

ततः प्रभातां रजनीमुदिते च दिवाकरे ।

पुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ॥ २।१४।२५ ॥

तत इत्यादि परमद्विजैरित्यन्तमेकं वाक्यम् । प्रभातां रजनीं प्रभातायां रजन्यां समाहिते सन्निहिते सति ॥ २।१४।२५ ॥

वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा ।

उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ २।१४।२६ ॥

सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् ।

विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ २।१४।२७ ॥

प्रविवेश पुरोत्तमम् इत्यनेन वसिष्ठो नगरबाह्यसरय्वां स्नानाद्यनुष्ठानं कृत्वा पुरीं प्रविष्टवानित्यवगम्यते ॥ २।१४।२६२७ ॥

संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।

महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ २।१४।२८ ॥

चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् ।

तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ २।१४।२९ ॥

ददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम् ।

पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।

यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ॥ २।१४।३० ॥

समृद्धविपणापणां समृद्धाः विपणाः विक्रय्याः येषां ते समृद्धविपणाः आपणाः निषद्याः यस्यां ताम् । समुत्सुकां समुत्सुकजनाम् ॥ २।१४।२८३० ॥

तदन्तःपुरमासाद्य व्यतिचक्राम तु जनम् ।

वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ २।१४।३१ ॥

तदिति । तं जनं पौरादिजनम् । व्यतिचक्रामेत्यनेनान्तःपुरद्वारवेदिकां प्राप्त इति गम्यते । विवेश वेदिकायामिति शेषः ॥ २।१४।३१ ॥

स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।

द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ २।१४।३२ ॥

स इति । विनिष्क्रान्तम् स्वगृहादिति शेषः । द्वारे अन्तःपुरद्वारे । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इत्युक्तम् ॥ २।१४।३२ ॥

तमुवाच महातेजाः सूतपुत्रं विशारदम् ।

वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ २।१४।३३ ॥

तमिति । क्षिप्रमाचक्ष्वेति वसिष्ठः प्रोवाचेतिसम्बन्धः ॥ २।१४।३३ ॥

इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ।

औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ २।१४।३४ ॥

इम इत्यादि । काञ्चनाः काञ्चनमयाः । गङ्गोदकघटाः गङ्गोदकपूर्णघटाः । अत्र आहृतमित्येतद्वचनव्यत्ययेन सम्बध्यते । इमे इति छेदमपि । सागरेभ्य आहृता इमे उदकघटा इत्यध्याहारेण योज्यम् ॥ २।१४।३४ ॥

सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ।

क्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः ॥ २।१४।३५ ॥

क्षौद्रं मधु ॥ २।१४।३५ ॥

अष्टौ च कन्यारुचिरा मत्तश्च वरवारणः ।

चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ २।१४।३६ ॥

ऽचतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्ऽ इत्यत्रतु इति गायत्र्याश्चतुर्थाक्षरम् । निस्त्रिंशः खङ्गः ॥ २।१४।३६ ॥

वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ।

श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ २।१४।३७ ॥

भृङ्गारः कनकालुका ॥ २।१४।३७ ॥

हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः ।

केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ २।१४।३८ ॥

सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः ।

सर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥ २।१४।३९ ॥

केसरी प्रशस्तकेसरः । हरिश्रेष्ठः अश्वोत्तमः ॥ २।१४।३८३९ ॥

आचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः ।

पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ २।१४।४० ॥

एते चान्ये च बहवः प्रीयमाणाः प्रियम्वदाः ।

अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ २।१४।४१ ॥

व्याघ्रतनुः व्याघ्रचर्मेत्यर्थः । नैगमो वणिजः । “नैगमो वणिजो वणिक्” इत्यमरः ॥ २।१४।४०४१ ॥

त्वरयस्व महाराजं यथा समुदिते ऽहनि ।

पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ २।१४।४२ ॥

इति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः ।

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ २।१४।४३ ॥

समुदिते सम्यग्व्यक्ते ॥ २।१४।४२४३ ॥

तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ।

न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ २।१४।४४ ॥

पूर्वोदितम् अयं सर्वदा अनिवार्य इति राज्ञा पूर्वमुक्तम् ॥ २।१४।४४ ॥

स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।

वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ २।४।४५ ॥

स इति । अजज्ञिवान् अज्ञातवान् ॥ २।४।४५ ॥

ततः सूतो यथाकालं पार्थिवस्य निवेशने ।

सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ २।१४।४६ ॥

तत इति । यथाकालं प्रातःकालार्हम् ॥ २।१४।४६ ॥

यथा नन्दति तेजस्वी सागरो भास्करोदये ।

प्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः ॥ २।१४।४७ ॥

इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ।

सो ऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ २।१४।४८ ॥

यथेति । भास्करोदयेपि समुद्रवृद्धिरस्त्येव । यद्वा भासः करोतीति व्युत्पत्त्या भास्करश्चन्द्रः ॥ २।१४।४७४८ ॥

वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् ।

ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ २।१४।४९ ॥

वेदा इति । सहाङ्गविद्याः अङ्गभूतशिक्षादिविद्यासहिताः । ब्रह्माणं बोधयन्ति सृष्ट्युपयोगितत्तदर्थबोधं जनयन्ति । तथाह मनुः– “नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ " इति ॥ २।१४।४९ ॥

आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ।

बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ २।१४।५० ॥

आदित्य इति । भूतधरां सर्वप्राणिधरां पृथिवीं बोधयति विशेषणद्वारा पृथ्वीबोधनम्, अद्य बोधयामीत्यन्वयः ॥ २।१४।५० ॥

उत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः ।

विराजमानो वपुषा मेरोरिव दिवाकरः ॥ २।१४।५१ ॥

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ।

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ २।१४।५२ ॥

उत्तिष्ठेति । कृतकौतुकमङ्गलः कृतं कौतुकहेतुभूतं मङ्गलाचरणं येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । यद्वा कौतुकम् उत्सवः । कृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थः । मेरोर्दिवाकर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ॥ २।१४।५१५२ ॥

गता भगवती रात्रिः कृतं कृत्यमिदं तव ।

बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ २।१४।५३ ॥

गतेति । सर्वानन्दकररामाभिषेकमहोत्सवोपयुक्तत्वाद्रात्रिर्भगवतीति स्तूयते ॥ २।१४।५३ ॥

उदतिष्ठत रामस्य समग्रमभिषेचनम् ।

पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ २।१४।५४ ॥

स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ।

क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ २।१४।५५ ॥

यथा ह्यपालाः पशवो यथा सेना ह्यनायका ।

यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ २।१४।५६ ॥

एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ॥ २।१४।५७ ॥

उदतिष्ठतेति । “उदो ऽनूर्ध्वकर्मणि” इत्यात्मनेपदम् । उपस्थितमित्यर्थः । अभिषेचनं अभिषेकसाधनम् । उपतिष्ठतीतिपाठान्तरम् ॥ २।१४।५४५७ ॥

इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।

अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ २।१४।५८ ॥

इतीति । सान्त्वपूर्वं सामपूर्वं “साम सान्त्वम्” इत्यमरः । अर्थवदितिनिर्देशः । प्रातःकालप्रबोधस्य सर्वविजयहेतुत्वात् ॥ २।१४।५८ ॥

ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।

शोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः ।

वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ २।१४।५९ ॥

ततः स राजेत्यादि । सुतं प्रति सन्नहर्षः नष्टहर्षः । भूयो निकृन्तसि कैकेयीवाक्यकृत्तानि मर्माणि भूयोप्यनुचितकालस्तुतिभिर्निकृन्तसीत्यर्थः । अत्र इतिशब्दो ऽध्याहार्यः ॥ २।१४।५९ ॥

सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।

प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ २।१४।६० ॥

करुणं दीनवाक्यम् ॥ २।१४।६० ॥

यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।

तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ २।१४।६१ ॥

मन्त्रज्ञा राजनीत्यनुसारेण स्वकार्योचितविचारज्ञेत्यर्थः ॥ २।१४।६१ ॥

सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ।

प्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ॥ २।१४।६२ ॥

तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ।

राममानय भद्र ते नात्र कार्या विचारणा ॥ २।१४।६३ ॥

सुमन्त्रेति । रजनीमिति अत्यन्तसंयोगे द्वितीया । प्रजागरो निद्राक्षयः । विचारणेत्यनन्तरमितिशब्दोध्याहर्तव्यः । इति प्रत्युवाचेत्यन्वयः ॥ २।१४।६२६३ ॥

स मन्यमानः कल्याणं हृदयेन ननन्द च ।

निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ २।१४।६४ ॥

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।

व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ २।१४।६५ ॥

इति सूतो मतिं कृत्वा हर्षेण महता वृतः ।

निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ २।१४।६६ ॥

स इति । राजशासनादित्युक्तिः राजसम्मतमिति बुद्ध्या ॥ २।१४।६४६६ ॥

सागरह्रदसङ्काशात् सुमन्त्रो ऽन्तःपुराच्छुभात् ।

निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ २।१४।६७ ॥

सागरह्रदयसङ्काशादिति । सागरह्रदः समुद्रान्तर्गतहृदः । पुरान्तर्वत्यन्तःपुरत्वात्समुद्रस्थह्रदौपम्यम् । जनसम्बाधं जनैर्निबिडम् ॥ २।१४।६७ ॥

ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन् ।

ददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ २।१४।६८ ॥

तत इति । पुरस्तादग्रे महीपतीन् विलोकयन् पश्चात् पौरान् ददर्श । महाधनान् उपहारपाणीन् । उपस्थितान् उपस्थानं सदः कुर्वतः ॥ २।१४।६८ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥