अतदर्हं महाराजं शयानमतथोचितम् ।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ २।१३।१ ॥
अनर्थरूपा सिद्धार्थाह्यभीता भयदर्शिनी ।
पुनराकारयामास तमेव वरमङ्गना ॥ २।१३।२ ॥
ऽन ते करिष्यामि वचःऽ इत्युक्त्वापि धर्मपाशबद्धतया पश्चात्तप्तः पुनस्तां सान्त्वयति त्रयोदशेअतदर्हमित्यादि श्लोकद्वयमेकान्वयम् । अतदर्हं तादृश दुःखानर्हम् । अतथोचितम् अधःशयनानुचितम् । अनर्थरूपा पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजनो । अभीता लोकापवादभीतिरहिता । भयदर्शिनी । दशरथस्येति शेषः । यद्वा अभयदर्शिनी दशरथस्य भयमपश्तीत्यर्थः । तमेव वरं पूर्वदत्तमेव वरमुद्दिश्य महाराजम् आकारयामास सम्बोधयामास । यद्वा दातव्यत्वेन ग्राहयामासेत्यर्थः । वस्तुतस्त्वेकवचनस्वारस्यात् वरं श्रेष्ठं दशरथं स्वाभिमतकथनायाह्वयामासेत्यर्थः ॥ २।१३।१२ ॥
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः ।
मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ २।१३।३ ॥
त्वमिति । विधारयितुम् ऋणत्वेन धारयितुं च्यावयितुं वा विशेषेण धारयितुमादातुमितिवार्थः ॥ २।१३।३ ॥
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।
प्रत्युवाच ततः क्रुद्धो मुहूत्त विह्वलन्निव ॥ २।१३।४ ॥
मृते मयि गते रामे वनं मनुजपुङ्गवे ।
हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥ २।१३।५ ॥
विह्वलन् मूर्च्छन् ॥ २।१३।४५ ॥
स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम् ।
प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥ २।१३।६ ॥
स्वर्ग इति । रामस्य कुशलं प्रति दैवतैः प्रत्यादेशादभिहितं धिक्कारपूर्वमभिहितं वाक्यं कथं धारयिष्ये सहिष्ये । मूढः स्त्रीहेतोः कथं गुणवत्पुत्रं त्यक्तवानसीत्यभिहितं श्रुत्वा कथमात्मानं धारयिष्ये । तथा च रामप्रवासने इह परत्र च मम सौख्यं नास्तीत्यर्थः ॥ २।१३।६ ॥
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ २।१३।७ ॥
ननु सत्यप्रतिज्ञत्वनिर्वाहार्थं रामः प्रव्राजित इति वक्तव्यमित्यत्राह–कैकेय्या इति । मयेत्यनन्तरमितिकरणं द्रष्टव्यम् । तदसत्यं भविष्यति ऽश्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तपऽ इति रामोद्देशेनोक्तं वाक्यमसत्यं भविष्यतीत्यर्थः ॥ २।१३।७ ॥
अपुत्रेण मया पुत्रः श्रमेण महता महान् ।
रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ २।१३।८ ॥
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः ।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥ २।१३।९ ॥
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ २।१३।१० ॥
अपरित्यागे हेत्वन्तराणि दर्शयति–अपुत्रेणेत्यादि ॥ २।१३।८१० ॥
सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ २।१३।११ ॥
सुखानामिति । दुःखैरिति षष्ठ्यर्थे तृतीया ॥ २।१३।११ ॥
यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।
अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ २।१३।१२ ॥
यदीति । अदुःखार्हस्य रामस्य दुःखमकृत्वा मम संक्रमणं यदि भवेत् ततस्तदा सुखमवाप्नुयाम् । संक्रमणं तृणजलौकान्यायेन देहाद्देहान्तरप्राप्तिः । पञ्चत्वमिति यावत् ॥ २।१३।१२ ॥
नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् ।
किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ २।१३।१३ ॥
नृशंस इति । मम प्रियं रामं विप्रियेणानभिमतदण्डकारण्यगमेनन । किं किमर्थं योजयसे ॥ २।१३।१३ ॥
अकीर्त्तिरतुला लोके ध्रुवः परिभवश्च मे ॥ २।१३।१४ ॥
अकीर्तिरित्यर्धम् । भविष्यतीति शेषः ॥ २।१३।१४ ॥
तथा विलपतस्तस्य परभ्रमितचेतसः ।
अस्तमभ्यागमत् सूर्योरजनी चाभ्यवर्त्तत ॥ २।१३।१५ ॥
तथेति । तस्य विलपतः तस्मिन् विलपति सतीत्यर्थः ॥ २।१३।१५ ॥
सा त्रियामा तथार्त्तस्य चन्द्रमण्डलमण्डिता ।
राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥ २।१३।१६ ॥
सा त्रियामेति । अत्रियामा यामत्रयवत्त्वं विहायातिदीर्घेत्यर्थः ॥ २।१३।१६ ॥
तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ।
विललापार्त्तद्दुःखं गगनासक्तलोचनः ॥ २।१३।१७ ॥
तथेति । आर्तवत् महारोगादिना पीडित इव । दुःखं विललाप । श्रृण्वतां यथा दुःखं भवति तथा विललापेत्यर्थः ॥ २।१३।१७ ॥
न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे ।
क्रियतां मे दया भद्रे मयायं रचितो ऽञ्जलिः ॥ २।१३।१८ ॥
नेति । प्रभातं प्रभातत्वम् । भावे निष्ठा । अत्र प्रकरणे भर्त्सनप्रसादनाभ्यां पुनः पुनः क्रियमाणाभ्यां धर्ममपि त्यक्तुं न शक्नोमि न पुत्रमपीति गम्यते ॥ २।१३।१८ ॥
अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ।
नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ २।१३।१९ ॥
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ।
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ॥ २।१३।२० ॥
अथवेति । निर्घृणां निर्दयां प्रत्युत नृशंसां क्रूराम् ॥ २।१३।१९२० ॥
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ।
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः ॥ २।१३।२१ ॥
साधुवृत्तस्येति । त्वद्गतस्य त्वदेकशरणस्येत्यर्थः । गतायुषः अल्पावशेषमतीतायुष इत्यर्थः ॥ २।१३।२१ ॥
शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् ।
कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ॥ २।१३।२२ ॥
प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् ।
लभतामसितापाङ्गे यशः परमवाप्नुहि ॥ २।१३।२३ ॥
मम रामस्य लोकस्य गुरूणां भरतस्य च ।
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ॥ २।१३।२४ ॥
शून्य इति । शून्ये निर्जने प्रदेशे । इदं रामाभिषेचनम्, न समुदाहृतं खलु किंतु सर्वजनसन्निधौ समुदाहृतमित्यर्थः । यद्वा शून्येन दीनेन मयेत्यर्थः ॥ २।१३।२२२४ ॥
विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः ।
श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ २।१३।२५ ॥
ततः स राजा पुनरेव मूर्च्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम् ।
समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः ॥ २।१३।२६ ॥
विशुद्धभावस्येति । ताम्रेक्षणस्य, दुःखातिशयेनेति शेषः । अश्रुकलस्य अश्रुपूर्णस्य । कलिः कामधेनुः । विचित्रं प्रसादनभर्त्सनसहितत्वात् ॥ २।१३।२५२६ ॥
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः ।
विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ २।१३।२७ ॥
इतीति । प्रतिबोधनं शङ्खपटहवीणादिकं प्रतिबोधनसाधनम् । यद्वा वैतालिकैः क्रियमाणं प्रतिबोधनम् ॥ २।१३।२७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डे त्रयोदशः सर्गः ॥ १३ ॥