०१२ कैकेय्युपलम्भः

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।

चिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ॥ २।१२।१ ॥

अथ सत्यपाशबद्धस्य राज्ञः शोकं वर्णयति–तत इति । प्रतताप मुमूर्च्छेति यावत् ॥ २।१२।१ ॥

किं नु मे यदि वा स्वप्नश्चित्तमोहो ऽपि वा मम ।

अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ।

इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ २।१२।२ ॥

चिन्तां विवृणोति–किं न्विति । किंन्विति सामान्याकारेण चिन्ता स्वदुःखावहस्य रामाभिषेकविघ्नस्य सत्स्वभावया कैकेय्या कथनासम्भवादिदं पारमार्थिकं न भवति स्वप्नो यदि वा । अथ वेदानीं निद्राया असंभवाच्चित्तमोहः भ्रमो वा । इदानीं भ्रमकारणाभावादनुभूतोपसर्गो वा । जन्मान्तरानुभूतानामर्थानां उपसर्गः भावना वा । स्मरणमिति यावत् । जन्मान्तरेप्येवंविधावस्थाया असम्भावितत्वादाह मनस उपद्रवो वा । रोगज विकारो वा । उन्माद इति यावत् । प्रतताप चेत्येतदनुवदति इतीति ॥ २।१२।२ ॥

प्रतिलभ्य चिरात् संज्ञां कैकेयीवाक्यताडितः ।

व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ २।१२।३ ॥

असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ।

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ २।१२।४ ॥

अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ।

मोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ २।१२।५ ॥

चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ।

कैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ २।१२।६ ॥

प्रतिलभ्येत्यादि श्लोकत्रयमेकान्वयम् । व्यथितः दुःखितः । विक्लवः विह्वलः । “विक्लवो विह्वलः” इत्यमरः । मण्डले अहितुण्डिकयन्त्रमण्डले ॥ २।१२।३६ ॥

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।

किं कृतं तव रामेण पापे पापं मयापि वा ॥ २।१२।७ ॥

नृशंस इति । किं पापं कृतमित्यन्वयः । पापम् अपराधः ॥ २।१२।७ ॥

यदा ते जननीतुल्यां वृत्तिं वहति राघवः ।

तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ॥ २।१२।८ ॥

त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता ।

अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ २।१२।९ ॥

जीवलोको यथा सर्वो रामस्याह गुणस्तवम् ।

अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ २।१२।१० ॥

कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।

जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ २।१२।११ ॥

परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ।

अपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ २।१२।१२ ॥

तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ।

न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ २।१२।१३ ॥

त्वमिति । नृपसुतेत्यत्रेति करणं द्रष्टव्यम् ॥ २।१२।९१३ ॥

तदलं त्यज्यतामेष निश्चयः पापनिश्चये ।

अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ २।१२।१४ ॥

किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ २।१२।१५ ॥

तदलमिति । एष निश्चयः । रामविवासनरूपनिश्चयः । अपिते चरणाविति । अपिः प्रश्नार्थकः ॥ २।१२।१४१५ ॥

अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये ।

अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ २।१२।१६ ॥

स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।

तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ २।१२।१७ ॥

तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् ।

आविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥ २।१२।१८ ॥

अथेत्यादि श्लोकत्रयमेकान्वयम् । अथेति प्रश्ने । त्वं भरतस्य प्रियाप्रिये विषये मां जिज्ञाससे ज्ञातुमिच्छसि तदिदानीमपि भरतो ऽभिषिच्यतामिति यत्तदस्तु तद्वक्तुमुचितम् । त्वया पूर्वं राघवं प्रति “स मे ज्येष्ठः सुतः” इत्यादि यद्व्याहृतं तत् प्रियवादिन्या त्वया सेवार्थं मम मनोरञ्जनार्थं रामकृतशुश्रूषार्थं वा कथितं भवेत्, रामविवासनोक्तिस्तेन विरुद्धेत्यर्थः । परीक्षार्थमपि भरतो ऽभिषिच्यतामित्येव वक्तुमुचितम् । न तु रामो विवास्यतामित्येतत् पूर्वापरविरोधादिति भावः । रामविवासनोक्तिश्च भरते प्रीतिपरीक्षार्थमेवास्त्वित्यत आह तदिति । तत् रामाभिषेचनं श्रुत्वा शोकसंतप्ता सती मां भृशम् अतिनिर्बन्धेन सन्तापयसि । किञ्च परवशं परबोधनवशं गता । सती । शून्यं गृहं क्रोधागारम् । आविष्टासि प्रविष्टासि । इदं सर्वं परीक्षार्थत्वे न संगच्छत इति भावः । शून्यैर्ग्रहैरिति पाठे–शून्यैर्ग्रहैराविष्टा पिशाचादिभिराविष्टेत्यर्थः ॥ २।१२।१६१८ ॥

इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् ।

अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ २।१२।१९ ॥

कुलानर्थकरं चेदं वचनमित्याह–इक्ष्वाकूणामिति । नयसम्पन्ने एतावत्कालं नीतिशालिनि । यत्र इक्ष्वाकुकुलमध्ये । ते मतिरेवमिदानीं विकृता विपरीता जाता । तत्र कुले । अयं संनिहितः । सुमहाननयः अनर्थः संप्राप्तः । सत्प्रकृतेर्विपरीतबुद्धिः कुलस्यानर्थहेतुरिति भावः ॥ २।१२।१९ ॥

न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम ।

अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ २।१२।२० ॥

पूर्वापरपर्यालोचनयात्वद्वचनं न श्रद्धेयं चेत्याह–नहीति । अयुक्तम् अहितमिति यावत् । न श्रद्दाधामि इदमहितं विप्रियकरणमिति शेषः ॥ २।१२।२० ॥

ननु ते राघवस्तुल्यो भरतेन महात्मना ।

बहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ २।१२।२१ ॥

त्वत्प्रीतिविरुद्धं चेदं वचनमित्याह–नन्वित्यादि । ते राघवः भरतेन तुल्यो ननु तुल्यः खलु । अत्र त्वद्वचनमेव प्रमाणमित्याह बहुश इति । बहुश इत्यनेनाहृदयत्वव्यावृत्तिः । सुबाले इत्यकुटिलत्वव्यावृत्तिः ॥ २।१२।२१ ॥

तस्य धर्मात्मनो देवि वने वासं यशस्विनः ।

कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २।१२।२२ ॥

तस्येति । धर्मात्मन इत्यनेन वनवासहेतुभूताकृत्यराहित्यमुक्तम् । भीरु इति तव च धर्मभीरुत्वं क्व गतमिति भावः ॥ २।१२।२२ ॥

अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।

कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २।१२।२३ ॥

रामसौकुमार्यानुचितं चेदमित्याह–अत्यन्तेति ॥ २।१२।२३ ॥

रोचयस्यभिरामस्य रामस्य शुभलोचने ।

तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २।१२।२४ ॥

शुश्रूषादर्शनेनापि रामो न निवासनार्ह इत्याह–रोचयसीति । तव शुश्रूषमाणस्येत्यत्र “न लोकव्यय” इत्यादिना निषिद्धापि षष्ठ्यार्षी बोध्या ॥ २।१२।२४ ॥

रामो हि भरताद्भूयस्तव शुश्रूषते सदा ।

विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २।१२।२५ ॥

शुश्रूषमाणस्येत्येतदुपपादयति–रामो हीति ॥ २।१२।२५ ॥

शश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् ।

कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ २।१२।२६ ॥

न केवलं शुश्रूषैवैवं वचनकारणम् अपि तु प्रमाणादिकमपीत्याह–शुश्रूषामिति । गौरवं प्रतिपत्तिः । प्रमाणं पूजा । वचनक्रिया उक्तकरणम् ॥ २।१२।२६ ॥

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् ।

परिवादो ऽपवादो वा राघवे नोपपद्यते ॥ २।१२।२७ ॥

परिवादादिकमपि रामविवासकारणं नास्तीत्याह–बहूनामिति । स्त्रीसहस्राणामुपजीविनां च सम्बन्धी परिवादो नोपपद्यते । बहूनामिति विशेषणेन तन्मध्ये एकया एकेन वा स्त्रीपुरुषाविशेषेण परिवादस्तत्सम्बन्धी परिभवविषयवादः अपवादः निन्दा वा राघवे नोपपद्यते न दृश्यते ॥ २।१२।२७ ॥

सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।

गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २।१२।२८ ॥

अविवासननिमित्तभूतान् भूयो गुणान् दर्शयति–सान्त्वयन्नित्यादि । अनेन वाङ्मनःकायैर्जनरञ्जकत्वमुक्तम् । प्रियैः अभीष्टप्रदानैः । गृह्णाति संगृह्णाति ॥ २।१२।२८ ॥

सत्येन लोकान् जयति दीनान् दानेन राघवः ।

गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २।१२।२९ ॥

सत्येनेति । सत्येन भूतहितेन । लोकान् स्वर्गादिवैकुण्ठपर्यन्तान् । जयति स्वाधीनान् करोति । दीनान् दरिद्रान् । दानेन धनप्रदानेन । जयति वशीकरोति । गुरून् शुश्रूषया जयति स्वहितोपदेशप्रवणान् करोति । शात्रवान् शत्रून् । धनुषा धनुःप्रदर्शनमात्रेण न तु बाणप्रयोगेण । युधि युद्धे । न तु कपटवृत्त्या । जयति निरस्यतीत्यर्थः । वीर इति सर्वत्र सम्बध्यते । दयावीरस्त्यागवीरो विद्यावीरः पराक्रमवीर इत्येवम् । चोलमहीपतिः कदाचित्सन्निहितं मध्यमवीथिभट्टारकं प्रति ऽआत्मानं मानुषं मन्येऽ इति वदन् रामः कथं जटायुषो मोक्षं दत्तवानिति पप्रच्छ । सोपि ऽसत्येन लोकान् जयतिऽ इत्युक्त्या महतीं बहुमतिमवाप्तवानित्यौतिह्यमत्र ज्ञेयम् ॥ २।१२।२९ ॥

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।

विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ २।१२।३० ॥

सत्यादीनि च न कादाचित्कानीत्याह–सत्यमिति । तपःप्रभृति गुणषट्कं पूर्वश्लोके ऽर्थसिद्धमनूद्यते–दानं परलोकप्रयोजनम् । तपः शास्त्रविहितभोजननिवृत्त्यादिरूपः । त्यागः ऐहिकप्रयोजनः प्रीत्यर्थः । मित्रता सर्वसुहृत्त्वम् । शौचं स्नानजन्यशुद्धिः । आर्जवं परचित्तानुवर्त्तित्वम् । विद्या तत्त्वज्ञानम् । गुरुशुश्रूषा गुरोः शुश्रूषा पादसंवाहनादिपरिचर्या ॥ २।१२।३० ॥

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।

पापमाशंससे रामे महर्षिसमतेजसि ॥ २।१२।३१ ॥

तस्मिन्निति । आर्जवसम्पन्न इति दानादिसम्पत्तेरप्युपलक्षणम् । पापं विवासनरूपम् । आशंससे प्रार्थयसि ॥ २।१२।३१ ॥

न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।

स कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम् ॥ २।१२।३२ ॥

नेति । लोकस्य जनमात्रस्य । प्रियवादिनः प्रियवदनशीलस्य, किमुतास्माकमिति भावः । रामस्य सम्बन्धि अप्रियं विवासनविषयं वाक्यं न स्मरामि स्मर्तुमपि न शक्नोमीत्यर्थः । सः तदस्मर्ता अहम् । त्वत्कृते परुषोक्तिमत्स्त्रीकृते । रामं सर्वस्य रमयितारम् । प्रियं रमयितृत्वाभावेपि पुत्रत्वेन प्रियं प्रति कथमप्रियं वक्ष्यामि ॥ २।१२।३२ ॥

क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता ।

अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ २।१२।३३ ॥

क्षमेति । यस्मिन् क्षमादयो वर्तन्ते तमृते मम का गतिः को वा रक्षकः ? तादृशं रक्षकं कथं त्यक्ष्यामीति भावः ॥ २।१२।३३ ॥

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।

दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ २।१२।३४ ॥

ममेति । गतान्तस्य गतः प्राप्तः अन्तश्चरमकालो येन । तस्य वृद्धत्वेपि प्राप्तचरमकालस्येत्यर्थः । तपस्विनः शोचनीयावस्थस्य । लालप्यमानस्य पुनःपुनः कथनशीलस्य । मम मयीत्यर्थः । सम्बन्धसामान्ये षष्ठी ॥ २।१२।३४ ॥

पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते ।

तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ २।१२।३५ ॥

पृथिव्यामिति । सागरान्तायामित्यनेन कृत्स्नायामिति लभ्यते । यत्किंचिद्धनम् अधिगम्यते लभ्यते तत्सर्वं तव तुभ्यं दास्यामि । मन्युः रामविषयक्रोधः ॥ २।१२।३५ ॥

अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।

शरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥ २।१२।३६ ॥

अञ्जलिमिति । कुर्मि करोमि, अञ्जलिपूर्वकं पादवन्दनं करोमीत्यर्थः । शरणं रक्षितृ । अधर्मः प्रतिज्ञाभङ्गरूपः, रामाभिषेकमनुजानीहीत्यर्थः ॥ २।१२।३६ ॥

इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् ।

घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ २।१२।३७ ॥

इतीत्यादिश्लोकद्वयमेकान्वयम् । अचेतनं मूर्च्छितम् । घूर्णमानम् इतस्ततो विवर्तमानम् । शोकेन भाविरामविरहस्मरणदुःखेन । समभिप्लुतं सम्यगभिव्याप्तम् ॥ २।१२।३७ ॥

पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः ।

प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरं वचः ॥ २।१२।३८ ॥

पारं अन्तम्, रामाभिषेकमिति यावत् । अथ कृत्स्नम् । इति वचोविशेषणम् । “आरम्भप्रश्नकार्त्स्न्येष्वथो अथ” इत्यमरः । रौद्रा भयङ्करविकारा । रामाभिषेकनिवर्तनविषये यद्यद्वक्तव्यं तत्सर्वमुवाचेत्यर्थः ॥ २।१२।३८ ॥

यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।

धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ २।१२।३९ ॥

धार्मिकत्वं स्वीयमिति शेषः ॥ २।१२।३९ ॥

यदा समेता बहवस्त्वया राजर्षयः सह ।

कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ २।१२।४० ॥

कथयिष्यन्ति उपकारिण्याः कैकेय्याः किं प्रत्युपकृतमिति कदाचिद्धर्मप्रसङ्गे वक्ष्यन्ति । तत्र तदा । किं प्रतिवक्ष्यसि कीदृशं प्रत्युत्तरं दास्यसि ॥ २।१२।४० ॥

यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।

तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ २।१२।४१ ॥

यस्या इति । प्रसादे सति जीवामि प्रसादेन जीवामीत्यर्थः । प्रसादमेवाह या चेति । या च मां मूर्च्छितदशायां रणादन्यत्रापनीयाभ्यपालयत् । शिशिरोपचारादिना ररक्षेत्यर्थः । तस्याः मया मिथ्या असत्यं कृतमिति वक्ष्यसि । किमिति काकुः । तस्मादद्य प्रतिज्ञां निर्वहेति भावः ॥ २।१२।४१ ॥

किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप ।

यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ २।१२।४२ ॥

किल्बिषत्वमिति । किल्बिषत्वम् अपयशोरूपमालिन्यम् । नरेन्द्राणामित्यनेन सजातीयेष्वेकेन कृतमपयशः सर्वानपि स्पृशति सर्वे राजान एवंविधा इति । अन्यानि वरदानविरुद्धानि ॥ २।१२।४२ ॥

शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।

अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ २।१२।४३ ॥

दुष्करस्यापि प्रतिज्ञातस्य कर्त्तव्यत्वं पूर्वचक्रवर्त्त्यनुष्ठानेन दर्शयति–शैब्य इति । शैब्यो राजा श्येनकपोतीये श्येनकपोतयोर्विरोधे प्राप्ते । पक्षिणे श्येनाय । स्वमांसं कपोतमांसप्रतिनिधित्वेन ददौ । इत्थं किल पौराणिकी गाथा–इन्द्राग्नी श्येनकपोतौ भूत्वा शैब्यौदार्यं परीक्षितुं भक्षकभक्ष्यभावमापन्नौ शैब्यसमीपमागतौ । तत्र कपोतो ऽभयार्थी शैब्याङ्कमाविवेश । तस्मै च सो ऽभयं ददौ । ततः श्येनेन मद्भक्षणं दैवविहितं त्यजेत्युक्ते नाहं त्यजेयम्, अपि तु तत्प्रतिनिधिमांसमेव ददामीत्युक्ते तर्हि त्वन्मांसमेव मे प्रयच्छ नान्यदित्युक्ते स्वमांसमपि सर्वं दत्तवानिति । अलर्कश्च राजर्षिर्ब्राह्मणायान्धाय वरं प्रतिश्रुत्य तेन राजचक्षुषा स्वचक्षुःप्रतिसन्धाने अर्थिते स्वचक्षुषी दत्त्वा उत्तमां गतिं जगाम ॥ २।१२।४३ ॥

सागरः समयं कृत्वा न वेलामतिवर्त्तते ।

समयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ २।१२।४४ ॥

किंच सागरः समुद्रो देवैः प्रार्थितो वेलानतिलङ्घनाय तत्तेभ्यः प्रतिश्रुत्या ऽद्यापि वेलां नातिवर्त्तते । तस्मात्त्वमपि पूर्वशैब्यादिवृत्तान्तमनुस्मरन् समयं प्रतिज्ञाम् । अनृतं मिथ्याभूतं माकार्षीः ॥ २।१२।४४ ॥

स त्वं धर्मं परित्यज्य रामं राज्ये ऽभिषिच्य च ।

सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ २।१२।४५ ॥

एवं न्यायमुक्त्वा तदनुमोदमानं प्रत्याह–स त्वमिति ॥ २।१२।४५ ॥

भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् ।

यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ २।१२।४६ ॥

स्वसिद्धान्तमाह–भवत्विति । मदुक्तो रामविवासनपूर्वको भरताभिषेकः धर्मो वा अधर्मो वा भवतु ऽरामं प्रव्राजयारण्यम्ऽ इत्यादिमदुक्तं वचनं सत्यं समीचीनं वा अनृतं असमीचीनं वा भवतु, त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति प्रतिज्ञातं तस्य व्यतिक्रमो ऽन्यथाभावो नास्तीति योजना ॥ २।१२।४६ ॥

अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ।

पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ २।१२।४७ ॥

व्यतिक्रमे किं करिष्यसीत्यत्राह–अहमिति ॥ २।१२।४७ ॥

एकाहमपि पश्येयं यद्यहं राममातरम् ।

अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ २।१२।४८ ॥

भरतेनात्मना चाहं शपे ते मनुजाधिप ।

यथा नान्येन तुष्येयमृते रामविवासनात् ॥ २।१२।४९ ॥

एतावदुक्त्वा वचनं कैकेयी विरराम ह ।

विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ २।१२।५० ॥

कौसल्यातो ऽप्यधिकं भोगं तव दास्यामीत्यत्र तत्प्राधान्यं न सह इत्याह–एकाहमिति । अञ्जलिं प्रतिगृह्णन्तीं राजमातृत्वेन सर्वेषामिति शेषः । श्रेयः तदा तदपेक्षयेति शेषः ॥ २।१२।४८५० ॥

श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् ।

रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ २।१२।५१ ॥

श्रुत्वेति । वनवासैश्वर्यरूपं वृतं वरमितिसम्बन्धः ॥ २।१२।५१ ॥

नाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रियः ।

प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ २।१२।५२ ॥

नाभ्यभाषतोति । प्रैक्षतानिमिष इति निरन्तरचिन्तावशात् क्रोधाद्वा निर्निमेषप्रेक्षणम् ॥ २।१२।५२ ॥

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् ।

दुःखशोकमयीं घोरां राजा न सुखितो ऽभवत् ॥ २।१२।५३ ॥

तामिति । दुःखशोकमयीमिति अनुचितभरताभिषेकात् दुःखम्, रामविवासनाच्छोकः ॥ २।१२।५३ ॥

स देव्या व्यवसायं च घोरं च शपथं कृतम् ।

ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ २।१२।५४ ॥

स इति । शपथं कृतं स्वेनेति शेषः । निश्वस्येति अशक्यप्रतीकारत्वादिति भावः ॥ २।१२।५४ ॥

नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।

हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ २।१२।५५ ॥

नष्टचित्त इति । नष्टचित्तः कलुषितहृदयः । उन्मत्तः उन्मादी । विपरीतः सन्निपातादिना विपरीतप्रकृतिः । आतुरः व्याधितः । “व्याधितो ऽपटुरातुरः” इत्यमरः । हृततेजाः मन्त्रापहृतवीर्यः ॥ २।१२।५५ ॥

दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ २।१२।५६ ॥

दीनयेति ॥ २।१२।५६ ॥

अनर्थमिममर्थाभं केन त्वमुपदर्शिता ।

भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ २।१२।५७ ॥

अनर्थमित्यादि । उपदर्शिता बोधिता ॥ २।१२।५७ ॥

शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ।

बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ॥ २।१२।५८ ॥

शीलव्यसनं सद्वृत्तभ्रंशम्, “व्यसनं विपदि भ्रंशे” इत्यमरः । नाभिजानामि किन्तु शीलमेवाभिजानामि । तत्र हेतुमाह बालाया इति । इदानीं प्रौढतायां तत् शीलं विपरीतवत् । भावप्रधानो निर्देशः । स्वार्थे वतिर्वा ॥ २।१२।५८ ॥

कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ २।१२।५९ ॥

कुत इति । कुतो निमित्तात् ॥ २।१२।५९ ॥

राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।

विरमैतेन भावेन त्वमेतेनानृतेन वा ।

यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ २।१२।६० ॥

एवंविधमित्यस्यैव विवरणम्–राष्ट्र इति । वने राघवमिति आसीनमित्यनुषङ्गः । एतेन भावेन भरताभिषेकरूपेण । विरम मा प्रवर्त्तिष्ठाः । अनृतेन अनृतपदवाच्येन एतेन वा रामविवासनरूपेण भावेन वा विरमेति सम्बन्धः ॥ २।१२।६० ॥

नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि ।

किन्नु दुःखमलीकं वा मयि रामे च पश्यसि ॥ २।१२।६१ ॥

न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ।

रामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ २।१२।६२ ॥

नृशंस इति । नृशंसे निर्दये । तत्र हेतुः पापसङ्कल्प इति । रामविवासनरूपपापसङ्कल्पे । तत्रापि हेतुः क्षुद्र इति । अल्पमतिके । तत्रापि हेतुः दुष्कृतकारिणीते । जन्मान्तरे पापकारिणीत्यर्थः । दुःखं दुःखनिमित्तम् । अलीकं अप्रियम् । “अलीकं त्वप्रिये ऽनृते” इत्यमरः ॥ २।१२।६१६२ ॥

कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ।

मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ॥ २।१२।६३ ॥

कथमिति । वनं गच्छेति मया भाषिते सति विवर्णं विपरीतवर्णत्वमापादितम् । रामस्य मुखवर्णम् उपप्लुतं राहुग्रस्तमिव कथं द्रक्ष्यामीति सम्बन्धः ॥ २।१२।६३ ॥

तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ।

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ २।१२।६४ ॥

तामिति । तां बुद्धिस्थां सुकृतां मन्त्रिभिः सह सुष्टु निश्चिताम् । अथ सुहृद्भिस्सह निश्चितां बुद्धिम् अपावृत्तां अधरोत्तरीकृतां कथं द्रक्ष्यामि अनुभविष्यामि ॥ २।१२।६४ ॥

किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ।

बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥ २।१२।६५ ॥

किमिति । बतेति खेदे । ऐक्ष्वाकः रामः । राज्यमकारयत् किमकरोत् इति मां किं वक्ष्यन्तीतिसम्बन्धः । यद्वा बालः अज्ञः दशरथः घुणक्षतलिपिन्यायेन दैवाच्चिरं राज्यमकरोदिति मां वक्ष्यन्ति किमिति ॥ २।१२।६५ ॥

यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः ।

परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥ २।१२।६६ ॥

यदेति । यदा श्वःप्रातः वृद्धाः काकुत्स्थं प्रक्ष्यन्ति क्व गतो रामः कुतो नाभिषिक्त इति प्रक्ष्यन्ति, तदाहं किं वक्ष्यामि प्रत्युत्तरम् ॥ २।१२।६६ ॥

कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया ।

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ २।१२।६७ ॥

कैकेयीवरप्रदाननिमित्तं प्रव्राजित इत्युच्यतामित्यत्राह–कैकेय्येति । कैकेय्या क्लिश्यमानेन पूर्वदत्तौ वरौ भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या कैकेय्या पीड्यमानेन मया प्रव्राजित इत्येतत्सत्यं यदि ब्रवीमि तदा तत् राममभिषेक्ष्यामीति वचनं असत्यं भविष्यति, तद्बाधो न सम्भवति । पूर्वप्रवृत्तत्वादिति भावः ॥ २।१२।६७ ॥

किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ।

किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ २।१२।६८ ॥

किमिति । किं मां वक्ष्यति, मत्पुत्रेण ते किमपराद्धमित्येवं वक्ष्यतीति भावः । किं प्रतिवक्ष्यामि, न किमपीत्यर्थः ॥ २।१२।६८ ॥

यदा यदा हि कौसल्या दासीवच्च सखीव च ।

भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥ २।१२।६९ ॥

सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ।

न मया सत्कृता देवी सत्कारार्हा कृते तव ॥ २।१२।७० ॥

यदेत्यादि श्लोकद्वयमेकान्वयम् । यदा यदा उपतिष्ठति तत्तदुचितकृत्येनोपस्ते तदातदा सत्कारार्हा तव कृते न सत्कृता । तव विप्रियं भविष्यतीति सा न सत्कृतेत्यर्थः । परिचर्याकाले दासीवत्परिचरति न महिषीत्वं पुरस्करोति । द्यूतक्रीडादिसमये सखीव व्यवहरति । धर्मानुष्ठानसमये भार्यावत् भार्य्यया यथा वर्तितव्यं तथा वर्तते न तु महिषीत्वाभिमानेन जोषमास्त इत्यर्थः । भार्य्यान्तरविवाहसमये भगिनीवत् सोदरीव । उपलालयति शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीति भावः ॥ २।१२।६९७० ॥

इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ।

अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ २।१२।७१ ॥

इदानीमिति । इदानीं तवद्दौर्ज्जन्यदर्शनकाले त्वयि विषये । मया यत्सुकृतं सुष्ठूपचरितं तत् अपथ्यव्यञ्जनोपेतं दध्याद्युपस्कृतमन्नम् आतुरं व्याधितमिव मां तपति तापयति । अन्तर्भावितण्यर्थो ऽयम् । त्वय्युपचाराकरणे सम्प्रति मम ताप एव न भवेत् । एतादृशवाल्लभ्याभावादिति भावः ॥ २।१२।७१ ॥

विप्रकारं च रामस्य सम्प्रयाणं वनस्य च ।

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ २।१२।७२ ॥

विप्रकारमिति । विप्रकारं विपरीतप्रकारम्, अभिषेकतिरस्कारमित्यर्थः । वनस्येति कर्मणि षष्ठी । भीता मत्पुत्रस्य विप्रकारः किमुतेति भीता । मे माम् ॥ २।१२।७२ ॥

कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ।

मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥ २।१२।७३ ॥

वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ।

हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ॥ २।१२।७४ ॥

न हि राममहं दृष्ट्वा प्रविशन्तं महावने ।

चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ २।१२।७५ ॥

सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ।

न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ॥ २।१२।७६ ॥

कृपणमिति । श्रोष्यतीति यत् तत् कृपणं कष्टम् बतेति योजना ॥ २।१२।७३७६ ॥

सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् ।

रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ २।१२।७७ ॥

सतीमिति । पूर्वं सतीत्वेन ज्ञातां त्वामिदानीमनेन व्यापारेण असतीं सतीं असतीत्वेन स्थितां व्यवस्यामि । कथमिव ? रूपिणीं दृष्टिप्रियां विषसंयुक्तां मदिरां मद्यविशेषं पीत्वा नरः पानानन्तरं तामसतीं दुष्टामध्यवस्यति तथा कार्यकाले त्वामसतीमध्यवस्यामीत्यर्थः ॥ २।१२।७७ ॥

अनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे ।

गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥ २।१२।७८ ॥

अनृतैरिति । अनृतैः सान्त्वैरिष्टवचनै मां सान्त्वयन्ती सती भाषसे स्म । अतः गीतशब्देन मृगवशीकरणहेतुगानशब्देन संरुध्य मृगं लुब्धः व्याधः इव मामवधीः ॥ २।१२।७८ ॥

अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम् ।

धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ २।१२।७९ ॥

अनार्य इति । पुत्रविक्रायिकं पुत्रमूल्येन स्त्रीसुखक्रेतारं माम् आर्यास्सन्तः अयमनार्यः पुत्रविक्रयपापकृदिति धिक्करिष्यन्ति ॥ २।१२।७९ ॥

अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव ।

दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ २।१२।८० ॥

एतादृशदुःखस्याननुभूतत्वाद् विषादातिशयेन विस्मयते–अहो इति । कृच्छ्रं कष्टं “स्यात् कष्टं कृच्छ्रम्” इत्यमरः । एतादृशदुःखकृच्छ्रे कदाचिदपि मया न प्राप्ते इत्यर्थः । किञ्च यस्मिन् वरप्रदानविषये । तव वाचः क्षमे एवंविधं दुःखं पुराकृतम् । अशुभमिवाशुभफलमिव प्राप्तम् ॥ २।१२।८० ॥

चिरं खलु मया पापे त्वं पापेनाभिरक्षिता ।

अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ २।१२।८१ ॥

सौख्यार्थं कृतं त्वद्रक्षणं स्वनाशाय परिणतमिति खिद्यति–चिरमित्यादिना ॥ २।१२।८१ ॥

रममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये ।

बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ २।१२।८२ ॥

रममाण इति । नाभिलक्षये किंत्वस्पृशमिति योजना ॥ २।१२।८२ ॥

मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ।

तं तु मां जीव लोको ऽयं नूनमाक्रोष्टुमर्हति ॥ २।१२।८३ ॥

मयेति । अपितृकः पितृकृतरक्षणादिरहित इत्यर्थः । आसीदिति शेषः । तं तथाविधं माम् । आक्रोष्टुम् आक्रोशं कर्त्तुम् ॥ २।१२।८३ ॥

बालिशो बत कामात्मा राजा दशरथो भृशम् ।

स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ २।१२।८४ ॥

आक्रोशप्रकारमाह–बालिश इति । बालिशः मूर्खः “मुर्खवैधेय बालिशाः” इत्यमरः ॥ २।१२।८४ ॥

व्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शितः ।

भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ २।१२।८५ ॥

व्रतैरिति । व्रतैः काण्डव्रतैः । ब्रह्मचर्यैः मधुमांसवर्जनादिब्रह्मचारिधर्मैः । गुरुभिः गुरुकृतशिक्षादिभिः । भोगकाले गार्हस्थ्यावस्थायाम् ॥ २।१२।८५ ॥

नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।

स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ २।१२।८६ ॥

नालमिति । सः पुत्रः वनं प्रव्रजेत्युक्तः सन् द्वितीयं वचनं परिहारवचनं मां प्रति भाषितुं नालम्, किन्तु बाढमित्येव वक्ष्यति । बाढमित्यङ्गीकारोक्तिः ॥ २।१२।८६ ॥

यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः ।

प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ २।१२।८७ ॥

यदीति । मे मया वनङ्गच्छेति चोदितो रामः प्रतिकूलं वनं प्रत्यगमनं यदि कुर्यात्तदा मे प्रियं स्यात् । वत्सस्तु तन्न करिष्यति ॥ २।१२।८७ ॥

शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः ।

स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ २।१२।८८ ॥

शुद्धभावः शुद्धहृदयः । मे भावं हृदयं न ज्ञास्यति । मां शुद्धतया जानन् मम वचनहृदयं न ज्ञास्यतीति भावः । अतो बाढमित्येव वक्ष्यतीति सम्बन्धः ॥ २।१२।८८ ॥

राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ।

मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ २।१२।८९ ॥

राघव इति । सर्वलोकस्य सर्वजनस्य “लोकस्तु भुवने जने” इत्यमरः । धिक्कृतं धिक्करणम् । अक्षमणीयं क्षन्तुमशक्यम्, किन्तु मृत्युर्मां यमक्षयं यमगृहं नयिष्यति ॥ २।१२।८९ ॥

मृते मयि गते रामे वनं मनुजपुङ्गवे ।

इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ २।१२।९० ॥

मृत इति । शेषे कौसल्यादौ । किं पापं कमन्यायं प्रतिपत्स्यसे चिन्तयिष्यसि ॥ २।१२।९० ॥

कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति ।

दुःखान्यसहती देवी मामेवानुमरिष्यति ॥ २।१२।९१ ॥

कौसल्यामिति । पुत्रौ लक्ष्मणशत्रुघ्नौ । देवी सुमित्रा ॥ २।१२।९१ ॥

कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह ।

प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ २।१२।९२ ॥

कौसल्यामिति । अत्र नरकशब्देन दुःखं लक्ष्यते ॥ २।१२।९२ ॥

मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ।

इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ २।१२।९३ ॥

प्रियं चेद्भ्ारतस्यैतद्रामप्रवाजनं भवेत् ।

मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ २।१२।९४ ॥

हन्तानार्ये ममा मित्रे सकामा भव कैकयि ।

मृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ २।१२।९५ ॥

सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ २।१२।९६ ॥

मयेति । आकुलं क्षुभितंपालयिष्यसि ॥ २।१२।९३९६ ॥

त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि ।

अकीर्त्तिश्चातुला लोके ध्रुवः परिभवश्च मे ।

सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ २।१२।९७ ॥

कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ।

पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ २।१२।९८ ॥

त्वमित्याद्यर्धत्रयमेकान्वयम् । अकीर्त्यादित्रयरूपा त्वं राजपुत्रीवादेन राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवसः । परिभवः महाजनसमक्षं धिक्कारः । अवज्ञा क्षुद्रत्वेन प्रतिपत्तिः ॥ २।१२।९७९८ ॥

यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ।

अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ २।१२।९९ ॥

यस्येति । सूदाः पाचकाः । अहंपूर्वाः अहमहमिकावन्तः । प्रशस्तम् “आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विकप्रियाः ॥ " इत्युक्तप्रकारेण श्रेष्ठम् ॥ २।१२।९९ ॥

स कथं नु कषायाणि तिक्तानि कटुकानि च ।

भक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति ॥ २।१२।१०० ॥

स इति । कषायादित्रयरूपं वन्यमाहारं भक्षयन् कथं नु वर्तयिष्यति केनप्रकारेण जीविष्यति ॥ २।१२।१०० ॥

महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः ।

काषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ २।१२।१०१ ॥

महार्हेति । महार्हेण अतिश्लाघ्येन वस्त्रेण । संवीतः संवृतः । चिरसुखोषितः चिरकालं सुखास्तरणोषितः । काषायपरिधानः कषायेण रक्तं काषायम् । काषायं परिधानं वस्त्रं यस्य स तथोक्तः ॥ २।१२।१०१ ॥

कस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम् ।

रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ २।१२।१०२ ॥

कस्येति । रामस्यारण्यगमनं भरतस्याभिषेचनमित्येवंविधमेतद्वाक्यं कस्य केनोपदिष्टमित्यर्थः । यद्वा कस्य सह्यमिति शेषः ॥ २।१२।१०२ ॥

धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ।

न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ २।१२।१०३ ॥

धिगिति । शठाः गूढविप्रयकारिण्यः । कौसल्यादिषु तदसम्भवादाह न ब्रवीमिति ॥ २।१२।१०३ ॥

अनर्थभावे ऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे ।

किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ २।१२।१०४ ॥

अनर्थभाव इति । मन्निमित्तं मत्कारणकं रामे रामनिमित्तकं वा ॥ २।१२।१०४ ॥

परित्यजेयुः पितरो हि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः ।

कृत्स्नं हि सर्वं कुपितं जगत् स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ॥ २।१२।१०५ ॥

परित्यजेयुरिति । कृत्स्नं जगत् गच्छतीति व्युत्पत्त्या जगच्छब्देन जीववर्ग उच्यते । सर्वशब्देन स्थावरजातमुच्यते । कुपितं त्वां प्रतीति शेषः ॥ २।१२।१०५ ॥

अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजन्तम् ।

नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ॥ २।१२।१०६ ॥

अहमिति । अहं पुनः अहं तु मत्स्वभावः लौकिकेभ्यो भिन्नः । देवकुमाररूपं निसर्गसुन्दरम् । अलंकृतम् अलङ्कारैरतिशयितशोभम् । चन्द्रकान्ताननमित्यस्य हृदि विपरिनवर्त्तमानत्वात्तमित्युक्तम् । सुतं सौन्दर्याद्यभावेपि सुतत्वप्रयुक्तप्रेमास्पदम् । आव्रजन्तं ऽमत्तमातङ्गगामिनम्ऽ इत्युक्तरीत्या गमनकालिकसम्भ्रमविशेषशालिनम् । दर्शनेन मानसज्ञानेन पश्यन्नपि नन्दामि । दृष्ट्वा पुनः साक्षात्कृत्य यु युवेव भवामि, युववद्धृष्टपुष्टाङ्गो भवामि ॥ २।१२।१०६ ॥

विनापि सूर्येण्ा भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि ।

रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ २।१२।१०७ ॥

विनेति । प्रवृत्तिः सञ्चारः । चेतना बुद्धिः । वज्रधरपक्षे प्रवृत्तिशब्देन जीवनविषयप्रवृत्तिरुच्यते ॥ २।१२।१०७ ॥

विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् ।

चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतो ऽस्मि मोहात् ॥ २।१२।१०८ ॥

विनाशकामामिति । मोहात् आवासयं, गृह इति शेषः । सर्पी सर्पजातिः । जातिलक्षणो ङीष् । त्वं मोहादङ्केन धृतासि । तेन अङ्कधारणेन ॥ २।१२।१०८ ॥

मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह ।

पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ॥ २।१२।१०९ ॥

मयेति । सलक्ष्मणेन रामेण मया च हीनो भरतस्त्वया सह पुरं राष्ट्रं बान्धवांश्च निहत्य प्रशास्तु पुरादिहननरूपं प्रशासनं करोतु । ममाहितानां शत्रूणां च अभिहर्षिणी भवेतिसम्बन्धः ॥ २।१२।१०९ ॥

नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे ।

न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ २।१२।११० ॥

नृशंसवृत्त इति । नृशंसवृत्ते क्रूरव्यापारे व्यसनप्रहारिणिक्षते प्रहारन्यायेन विपदि प्रहरणशीले रामविरहासहनं विपत् तत्र प्रहारः पुनःपुनश्चोदनम् । त्वम् इह देशे । अद्यास्मिन् काले । प्रसह्य पतिस्वातन्त्र्यं तिरस्कृत्य । यद्वाक्यं भाषसे तत्र ते मुखात् दशनाः सहस्रधा विशीर्णाः सन्तः केन नाम हेतुना न पतन्तीति सम्बन्धः ॥ २।१२।११० ॥

न च किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् ।

कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते ॥ २।१२।१११ ॥

न किञ्चिदिति । रामः अहितमप्रियं च किञ्चिद्वचो नाह, परुषाणि भाषितुं न वेत्ति । ज्ञानपूर्वकत्वात् भाषणस्य कुतस्तत्प्रसक्तिरिति भावः । न केवलं परुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभाषिणि । गुणैर्नित्यं संमते रामे कथं नु दोषान् प्रव्राजनहेतून् ब्रवीषि ॥ २।१२।१११ ॥

प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज ।

न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥ २।१२।११२ ॥

प्रताम्येति । प्रताम्य ग्लानिं भज । ताम्यतेर्लोण् मध्यमपुरुषैकवचनम् । प्रज्वल कुपिता भव । प्रणश्च नष्टा भव । सहस्रशः स्फुटिता सती महीं व्रज वा, भृगोः पत वेत्यर्थः । केकयराजानां पांसनि दूषणि ॥ २।१२।११२ ॥

क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम् ।

न जीवितुं त्वां विषहे ऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ २।१२।११३ ॥

क्षुरोपमामिति । क्षुरोपमां तद्वत्क्रूराम् । असत्प्रियंवदां मिथ्या प्रियवादिनीम् । प्रदुष्टभावां प्रकर्षेण दुष्टहृदयाम् । अमनोरमामिति पदच्छेदः । सबन्धनं समूलं प्राणरूपमूलसहितम् “प्राणबन्धनं हि सौम्यमनः” इतिश्रुतेः । सदिन्धनमितिपाठे–हृदयमेव सदिन्धनम् । दिधक्षमाणां दग्धुमिच्छन्तीम् । त्वां जीवितुं जीवयितुम् । न विषहे नोत्सहे ॥ २।१२।११३ ॥

न जीवितं मे ऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः ।

ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ २।१२।११४ ॥

नेति । रतिस्त्वद्विषयेति शेषः । यदेवमत आह ममाहितमिति । आत्मवतः जीवत इत्यर्थः ॥ २।१२।११४ ॥

स भूमिपलो विलपन्ननाथवत् स्त्रिया गृहीतो हृदये ऽतिमात्रया ।

पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ॥ २।१२।११५ ॥

स इति । अतिमात्रया अमर्यादया स्त्रिया । हृदये गृहीतः तदधीनहृदय इत्यर्थः । भूमिपालोपि तां निग्रहीतुमसमर्थ इत्यर्थः । अनाथवद्विलपन् त्वां जीवयितुं नोत्सहे ते पादौ स्पृशामि प्रसीदेत्यनवस्थितवचनानि भाषमाणः । प्रसारितावित्यनेनानादर उक्तः । असंस्पृश्येत्यनेन पिस्पृक्षायामेवमूर्च्छा जातेति गम्यते ॥ २।१२।११५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशः सर्गः ॥ १२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥