विदर्शिता यदा देवी कुब्जया पापया भृशम् ।
तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥ २।१०।१ ॥
अथ पूर्वोक्तं कैकेयीक्रोधमविचाल्यत्वसूचनायानुवदन् राज्ञः कैकेयीदर्शनानुनयौ दर्शयति–विदर्शितेति । विदर्शिता विपरीतं बोधिता । दिग्धविद्धा विषलिप्तबाणेन प्रहृता । “विषक्ते दिग्धलिप्तकौ” इत्यमरः ॥ २।१०।१ ॥
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी ।
मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २।१०।२ ॥
निश्चित्येति । सा कैकेयी कृत्यं कर्तव्यं पुरोक्तरीत्या मनसा निश्चित्य । सर्वं त्वदुक्तं सम्यगिति मन्थरायै आचचक्षेतिसम्बन्धः ॥ २।१०।२ ॥
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।
नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ।
मुहूर्त्तं चिन्तयामास मार्गमात्ममुखावहम् ॥ २।१०।३ ॥
सा दीनेत्यर्धत्रयमेकं वाक्यम् । दीना अत्र स्वोद्योगः फलिष्यति नवेति शङ्क्या दीना । मार्गं उपायम् । एतदर्धत्रयं निश्चित्येति पूर्वश्लोकात् पूर्वमेव निवेशनीयम् । अर्थसङ्गतिस्वारस्यात् ॥ २।१०।३ ॥
सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम् ।
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ॥ २।१०।४ ॥
सेति । तं निश्चयं ऽइह वा मां मृताम्ऽ इत्यादिना पूर्वसर्गान्तोक्तनिश्चयम् । निशम्य श्रुत्वा । सिद्धिं निश्चयफलम् । प्राप्येव प्रीता ॥ २।१०।४ ॥
अथ सा मर्षिता देवी सम्यक् कृत्वा विनिश्चयम् ।
संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ॥ २।१०।५ ॥
अथेति । पुनःसंवेशनाभिधानं रोषसूचकभ्रुकुटीकरणमाल्यभूषणापवेधादिविशेषप्रदर्शनार्थम् । भ्रुकुटीं क्रोधजनिताकारविशेषम् ॥ २।१०।५ ॥
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ।
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ॥ २।१०।६ ॥
पूर्वं त्यक्तभूषणादीनामौदासीन्येन भूमौ विक्षेपं दर्शयति–तत इति । यान्यप्यविद्धानि तानि भूमिं प्रपेदिरे न तु मञ्जूषिकाम् । क्रोधातिशयसूचनाय भूमावुत्सर्जनम् ॥ २।१०।६ ॥
तया तान्यपविद्धानि माल्यान्याभरणानि च ।
अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥ २।१०।७ ॥
व्याकीर्णत्वद्योतनाय तानि वर्णयति–तयेत्यादिना ॥ २।१०।७ ॥
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ।
एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी ॥ २।१०।८ ॥
क्रोधागार इति । गतसत्त्वा क्षीणबला, विगतासुरितिवार्थः । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः ॥ २।१०।८ ॥
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ॥ २।१०।९ ॥
आज्ञाप्येति । आज्ञाप्य सुमन्त्रादीन्नियम्य । अभिषेचनं अभिषेचनसाधनं प्रति । उपस्थानं आस्थानम्, सद इत्यर्थः । अनुज्ञाप्य अनुज्ञां कारयित्वा । यद्वा पञ्चमसर्गे ऽगुरुणा त्वभ्यनुज्ञातःऽ इत्युक्तत्वाद्वसिष्ठ एवोपस्थानशब्देनोच्यते ॥ २।१०।९ ॥
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ।
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ॥ २।१०।१० ॥
अद्येति । रामाभिषेकः अद्य वै इदानीमेव प्रसिद्ध इति जज्ञिवान् । इतःपूर्वं कैकेय्याः श्रोतुमवकाशो नास्तीति ज्ञातवानित्यर्थः । सर्वमस्य वशे वर्तत इति वशी स्वतन्त्रः । अतः स्वयमेव प्रियार्हां कैकेयी प्रति प्रियमाख्यातुमन्तःपुरं विवेश ॥ २।१०।१० ॥
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ।
पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥ २।१०।११ ॥
स इति । स्वबाधककैकेयीयुक्तत्वाद्राहुयुक्तमित्युक्तम् ॥ २।१०।११ ॥
शुकबर्हिणसंघुष्टं क्रौञ्चहंसरुतायुतम् ।
वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ॥ २।१०।१२ ॥
अथ दशरथस्य कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्तःपुरे दर्शयति–शुकेत्यादि । वादित्ररवसंघुष्टं वीणादिचतुर्विधवाद्यरवानुनादितम् “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥ " इत्यमरः। कुब्जादीनां प्रियानुकूल्यहेतुत्वाद्रतिवृद्धिहेतुत्वम् ॥ २।१०।१२ ॥
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ।
दान्तराजतसौवर्णवेदिकाभिः समायुतम् ॥ २।१०।१३ ॥
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ।
दान्तराजतसौवर्णैः संवृतं परमासनैः ॥ २।१०।१४ ॥
लतागृहैः चित्रगृहैश्चोपलक्षितम् । दान्ताः दन्तनिर्मिताः । नित्यपुष्पफलैरिति दोहदविशेषादिति ज्ञेयम् ॥ २।१०।१३१४ ॥
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ।
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ॥ २।१०।१५ ॥
तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ।
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ॥ २।१०।१६ ॥
विविधैरिति । भक्ष्यैः अपूपादिभिः भूषितैः स्त्रीजनैरिति शेषः । अत एव त्रिदिवोपमम् ॥ २।१०।१५१६ ॥
स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ।
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ॥ २।१०।१७ ॥
स इति । कामबलसंयुक्तः उद्दीपनदर्शनादुचितकालत्वाच्चेति भावः । अत एव रत्यर्थं प्रपच्छ क्व गतासीत्येवम् । प्रत्युत्तराभावाद्विषसाद च ॥ २।१०।१७ ॥
न हि तस्य पुरा देवी तां वेलामत्यवर्त्तत ।
न च राजा गृहं शून्यं प्रविवेश कदाचन ॥ २।१०।१८ ॥
विषादहेतुमाह–न हीति । तां वेलां रतिवेलाम् ॥ २।१०।१८ ॥
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ।
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥ २।१०।१९ ॥
प्रतिहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः ।
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ॥ २।१०।२० ॥
तत इति । कैकेयीं स्वार्थलिप्सुं स्वप्रयोजनपराम् । अविज्ञाय यथापुरं यथापूर्वं । पर्यपृच्छत प्रतिहारीमिति शेषः । पूर्वमदर्शनकाले यथा पृच्छति तथापृच्छदित्यर्थः ॥ २।१०।१९२० ॥
प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मनाः ।
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ॥ २।१०।२१ ॥
प्रतिहार्या इति । भूयः अतिशयेन । अदर्शनविषादादपि क्रोधागारप्रवेशश्रवणादतिशयेन विषसाद लुलितव्याकुलेन्द्रियः लुलितानि धूर्णितानि व्याकुलानि स्वस्वविषयग्रहणासमर्थानि इन्द्रियाणि यस्य स तथोक्तः ॥ २।१०।२१ ॥
तत्र तां पतितां भूमौ शयानामतथोचिताम् ।
प्रतप्त इव दुःखेन सोपश्यज्जगतीपतिः ॥ २।१०।२२ ॥
तत्रेति । अतथोचितां भूमिशयनानर्हाम् ॥ २।१०।२२ ॥
स वृद्धस्तरुणीं भार्यां प्राणेभ्यो ऽपि गरीयसीम् ।
अपापः पापसङ्कल्पं ददर्श धरणीतले ॥ २।१०।२३ ॥
रामाभिषेकसंरम्भे सपत्नीमातुः क्रोधस्तन्निमित्त इति कुतो राजा न ज्ञातवानित्यत्राह–स इति । अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भावः ॥ २।१०।२३ ॥
लतामिव विनिष्कृत्तां पतितां देवतामिव ।
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ॥ २।१०।२४ ॥
तद्दर्शनस्य दुस्सहत्वमाह–लतामिवेति । पतितां भूगतां निर्धूताम् “धूञ् कम्पने” । व्याकुलितामिति यावत् । च्युतां दिव इति शेषः ॥ २।१०।२४ ॥
मायामिव परिभ्रष्टां हरिणीमिव संयुताम् ।
करेणुमिव दिग्धेन विद्धां मृगयुना वने ॥ २।१०।२५ ॥
मायामिति । वामीमिव परिभ्रष्टामित्यपि पाठः–वामीं वडवां “वाम्यश्ववडवा” इत्यमरः । संयतां वागुरया बद्धाम् । दिग्धेन विपलिप्तबाणेन । “विषाक्ते दिग्धलिप्तकौ” इत्यमरः । मृगयुना व्याधेन । सम्यग्भूगतत्वाश्चर्यावहत्वदयनीयत्वदर्शनीयत्वविलुलितवर्णत्वनिश्चेष्टत्वसन्तापावहत्वानि क्रमाल्लताद्यौपम्येन लभ्यन्ते ॥ २।१०।२५ ॥
महागज इवारण्ये स्नेहात्परिममर्श ताम् ।
परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः ॥ २।१०।२६ ॥
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २।१०।२७ ॥
महागज इति । अभिसंत्रस्तचेतनः अभितः सम्यक् त्रस्ता चेतना बुद्धिर्यस्य । किमर्थेच्छुः उत रोगग्रस्ता उत क्रुद्धेति त्रासः । कमलपत्राक्षीमिति कामित्वद्योतनम् ॥ २।१०।२६२७ ॥
न ते ऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
देवि केनाभिशप्तासि केन वासि विमानिता ॥ २।१०।२८ ॥
नेति । आत्मनि त्वयि मयि वा अभिशप्ता परुषिता ॥ २।१०।२८ ॥
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु ।
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ॥ २।१०।२९ ॥
यदिति । पांसुषु शेष इति यत् इदं मम दुःखायेति सम्बन्धः ॥ २।१०।२९ ॥
भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ २।१०।३० ॥
भूतोपहतचित्तेव पिशाचग्रस्तचित्तेव ॥ २।१०।३० ॥
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥ २।१०।३१ ॥
रोगपक्षं परिहरति–सन्तीति । अभितुष्टाः दानमानादिभिः ॥ २।१०।३१ ॥
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।
कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥ २।१०।३२ ॥
क्रोधपक्षे परिहारमाह–कस्य वेति । कस्येति तृतीयार्थे षष्ठी । केन वा ते प्रियं कृतमित्यर्थः । प्रियाप्रियकारिणोः फलमाह कः प्रियमिति ॥ २।१०।३२ ॥
मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ।
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ॥ २।१०।३३ ॥
दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिञ्चनः ॥ २।१०।३४ ॥
मारोदीरिति । मारोदीः रोदनं माकार्षीः । सम्परिशोषणं कायक्लेशम् ॥ २।१०।३३३४ ॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ २।१०।३५ ॥
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ २।१०।३६ ॥
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ २।१०।३७ ॥
अर्थेच्छापक्षं परिहरति–अहमिति । मम जीवनेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सहे, त्वत्प्रियार्थं जीवितमपि परित्यजामीत्यर्थः । आत्मनि बलं त्वयि विद्यमानं वाल्लभ्यं बलम् ॥ २।१०।३५३७ ॥
यावदावर्त्तते चक्रं तावती मे वसुन्धरा ।
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ॥ २।१०।३८ ॥
वङ्गाङ्गमगध मत्स्याः समृद्धाः काशिकोसलाः ।
तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ॥ २।१०।३९ ॥
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ २।१०।४० ॥
चक्रं सूर्यस्य रथचक्रम्, आज्ञा वा । प्राचीना इत्यादि प्राचीनादिदेशाः ये सन्तीति शेषः । तत्र तेषु देशेषु धनधान्यम् यदस्तीति शेषः । ततः तत्र ॥ २।१०।३८४० ॥
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ।
तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥ २।१०।४१ ॥
तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ॥ २।१०।४२ ॥
किमिति । आयासेन भूशयनायासेन । तत् भयनिमित्तम् । रश्मिवान् सूर्यः ॥ २।१०।४१४२ ॥
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ।
परिपीडयितुं भूयो भर्त्तारमुपचक्रमे ॥ २।१०।४३ ॥
तथेति । परिपीडयितुं प्रतिज्ञाकरणेन निर्बन्धयितुम् ॥ २।१०।४३ ॥
इत्यार्षे० श्रीरामायणे श्रीमदयोध्याकाण्डे दशमः सर्गः ॥ १० ॥
इति श्रीगोविन्दराज० श्रीरामायणभूषणे पीताम्बराख्याने अयोण्याकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥