००२ रामभिषेकचर्चा

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।

हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ २।२।१ ॥

अथ रामाभिषेकस्य सर्वसम्मतत्वं दर्शयति द्वितीये– तत इत्यादि । ततः राजादिनिवेशानन्तरम् । परिषदं पौरजानपदसमूहम् । आमन्त्र्य अभिमुखीकृत्य । हितं श्रेयस्करम् । उद्धर्षणं उत्कूलहर्षजनकम् । प्रथितं प्रकटार्थम् । एवं वक्ष्यमाणरीत्या ॥ २।२।१ ॥

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।

स्वरेण महता राजा जीमूत इव नादयन् ॥ २।२।२ ॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च ।

उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ २।२।३ ॥

प्रथितमुवाचेत्युक्तं विशदयति—-दुन्दुभिस्वनकल्पेनेति । दुन्दुभिस्वनकल्पेन भेरीस्वनसदृशेन । ईषदसमाप्तौ कल्पप्प्रत्ययः । गम्भीरेण गम्भीरार्थेन । अनुनादिना दिशः प्रतिध्वनयता । स्वरेण महता– महता स्वरेण नादयन् जीमूत इव मेघ इव स्थितः राजा उवाच । पुनः स्वरः कीदृशः ? राजलक्षणयुक्तेन प्रभावानुरूपेण कान्तेन मृदुना रसयुक्तेन माधुर्यवता ॥ २।२।२,३ ॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।

पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ २।२।४ ॥

स्वकृतराज्यपरिपालनस्य पूर्वकृतपालनादविशेषं सूचयन्नाह– विदितमिति । अन्ते इतिकरणं द्रष्टव्यम् । उत्तमं विपुलं मे एतद्राज्यं मम पूर्वकैः पूर्वैः राजेन्द्रैः रघुप्रभृतिभिः सुतवत्परिपालितम् । अतिप्रेम्णा सुरक्षितमित्येतद्भवतां विदितं “क्तस्य च वर्त्तमाने " इति षष्ठी । भवद्भिर्विदितमित्यर्थः ॥ २।२।४ ॥

सो ऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् ।

श्रेयसा योक्तुकामो ऽस्मि सुखार्हमखिलं जगत् ॥ २।२।५ ॥

अस्तु, ततः किमित्यत्राह– सो ऽहमिति । सः तद्वंश्यो ऽहम् । इक्ष्वाकुभिः इक्ष्वाकुवंश्यैः । सर्वैः नरेन्द्रैः परिपालितम्, अत एव सुखार्हं अखिलं जगत् राज्यं श्रेयसा सुखेन अधुनापि योक्तुं कामयत इति योक्तुकामः अस्मि । “तुं काममनसोरपि " इति मकारलोपः । योक्तुमिच्छामीत्यर्थः ॥ २।२।५ ॥

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।

प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ २।२।६ ॥

ननु भवत्कृतं पालनमेवास्माकं श्रेय इत्यत्राह– मयापीति । पूर्वैः राजभिः आचरितं क्षुण्णं पन्थानं मर्यादाम् अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूकेण मयापि प्रजाः यथाशक्त्यभिरक्षिताः । यथा शक्तीति विनयोक्तिः ॥ २।२।६ ॥

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।

पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ॥ २।२।७ ॥

तर्हीदानीमपि तथैव रक्ष्यतामित्यत्राह– इदमिति । कृत्स्नस्य लोकस्य जनस्य हितं चरता कुर्वता मया इदं शरीरं भवतां प्रत्यक्षं हीति भावः । पाण्डरस्यातपत्रस्य श्वेतस्य छत्रस्य । छायायां जरितं सञ्जातजरं कृतम्, जरापर्यन्तमेकच्छत्रतया पराक्रमनिधिर्भूत्वा मया नियमेन लोकहितमाचरितमित्यर्थः ॥ २।२।७ ॥

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।

जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ २।२।८ ॥

तर्हि सम्प्रति किं कर्त्तव्यमित्यत्राह– प्राप्य वर्षसहस्राणीति । बहूनि वर्षसहस्राणि षष्टिवर्षसहस्रपरिमितान्यायूंषि प्राप्य जीवतः क्रमेण जीर्णस्यास्य शरीरस्य । विश्रान्तिं राज्यभाराद्विरतिम् । अभिरोचये इच्छामि । एतेन ययातिवद्विषयचापलेन न राज्याद्विरम्यत इति दर्शितम् ॥ २।२।८ ॥

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ।

पिरश्रान्तो ऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ २।२।९ ॥

इतःपरं राज्यवहनाशक्तौ । निमित्तमाह– राजेति । राजप्रभावैः शौर्यादिभिः जुष्टां सेवितुमर्हाम् । अजितेन्द्रियैः विषयपरैः । दुर्वहां तादशृप्रभावरहितैर्वोढुमशक्याम् । गुर्वीं बहुसाधननिर्वाह्याम् । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं वहन्नहं परिश्रान्तो ऽस्मि ॥ २।२।९ ॥

सो ऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।

सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥ २।२।१० ॥

विवक्षितमर्थं दर्शयति– स इति । सः एवं श्रान्तो ऽहं प्रजाहिते प्रजारक्षणविषये । पुत्रं कृत्वा नियम्य । सन्निकृष्टान् अन्तरङ्गभूतान् इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । अनुमान्य कृतानुमतिकान् कृत्वा । मानयतेर्ण्यन्ताल्ल्यप् । विश्रमं श्रान्तिनिवृत्तिमिच्छामि ॥ २।२।१० ॥

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।

पुरन्दरसमो वीर्ये रामः परपुऱञ्जयः ॥ २।२।११ ॥

कस्ते पुत्रो यौवराज्ये नियोज्योभिमतस्तत्राह– अनुजात इति । वीर्य्ये विषये पुरन्दरसमः इन्द्रतुल्यः । तौल्यमेवाह परेषां शत्रूणां पुराणि जयति स्वाधीनीकरोतीति परपुरञ्जयः । असंज्ञायामपि जेः खजार्षः । रामः रामनामकः पुरन्दरसमः आत्मजः । सर्वैर्गुणैः शौर्यादिभिः मामनुजातः “अनुर्लक्षणे " इत्यनुः कर्मप्रवचनीयः । तद्योगान्मामिति द्वीतीया । मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः । ननु मत्तश्च गुणवत्तरः । अपरिमेयैश्च लोके लोकोत्तरैर्गुणैःऽ इति पूर्वमुक्तम्, कथमिदानीमनुजातो हि मां सर्वैर्गुणैरित्युच्यते पुरन्दरसम इति च । उच्यते– " “अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया” इतिन्यायेन पौरमुखेन रामस्य सर्वाभ्यधिकगुणतां वक्तुमेवमुक्तमिति ध्येयम् । अत अव वक्ष्यति– " वहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते” इति ॥ २।२।११ ॥

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।

यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥ २।२।१२ ॥

तमिति । तं स्वगुणतुल्यगुणम् । धर्मभृतां धार्मिकाणां वरं पुरुषपुङ्गवम् । पुष्येण नक्षत्रेण युक्तं चन्द्रमिव स्थितं तद्वदत्युज्ज्वलम् । यद्वा पुष्यनक्षत्रे ऽभिषेककरणात् पुष्येण चन्द्रमिवेत्युक्तम् । यौवराज्ये नियोक्तास्मि । यद्वा चन्द्रमिव स्थितं तं श्वः पुष्येण यौवराज्ये नियोक्तास्मीत्यर्थः ॥ २।२।१२ ॥

अनुरूपः स वै नाथो लक्ष्मीवाल्लँक्ष्मणाग्रजः ।

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ २।२।१३ ॥

दशरथवचनं वाल्मीकिस्तत्त्वज्ञतया श्लाघते– अनुरूप इति । स रामः अनुरूपः अनुगुणः नाथः, लोकस्येति शेषः । अनुरूपत्वे हेतुः लक्ष्मीवानिति । अपरिच्छिन्नतेजस्क इत्यर्थः । तत्रापि हेतुर्लक्ष्मणाग्रज इति । “लक्ष्मणो लक्ष्मिवर्द्धनः” इत्युक्तम् । यद्वा अनुरूपत्वे हेतुर्लक्ष्मणाग्रज इति । लक्ष्मण इव सर्वत्र स्वाश्रिते प्रेमशालीत्यर्थः । अथवा अनुरूप इत्यादि नित्यानपायिन्या लक्ष्म्या विशिष्टः परिजनपर्यन्तो रामः सर्वस्य निरुपाधिकः शेषी । दशरथस्तु राज्यपालनोपाधिकशेषी । वै इति श्रुत्यादिप्रसिद्धिं द्योतयति " दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः " इत्याद्युक्तेः । तस्य निरूपाधिकशेषित्वे निमित्तमाह त्रैलोक्यमिति । त्रयो लोका एव त्रैलोक्यम् । चतुर्वर्णादित्वात्स्वार्ते षञ् । त्रैलोक्यमपि येन नाथेन नाथवत्तरम् अतिशयेन नाथवत् । रामस्य रक्षकत्वावलोकने कियन्मात्रं त्रैलोक्यमिति भातीत्यर्थः । अथवा अनेन श्लोकेन रामस्य परत्वमुच्यते– सः रामः अनुरूपो नाथः सहजशेषी जगतः, अन्ये तु कर्मानुगुणतयौपाधिकाः । अनुकूलं रूपं यस्य सो ऽनुरूपः । “समः समविभक्ताङ्गः । चन्द्रकान्ताननम् " इत्याद्युक्त निरुपमसौन्दर्य्यशालिदिव्यमङ्गलविग्रह इत्यर्थः । अनुकूलं स्वरूपं यस्यासावनुरूपः । शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कतया ऽभ्यस्यमानानन्दरूप इत्यर्थः । " आनन्दो ब्रह्म” इति ह्युक्तम् । अनुगतं रूपं यस्यासावनुरूपः, सर्वव्यापीत्यर्थः । अनुरूपः अनुप्रविष्टचराचरादिकशरीरः, सर्वशरीरीत्यर्थः । अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्तर्याम्यर्चावताररूपेण नानावतारशालीत्यर्थः । अनुरूपः ओः रुद्रस्य रूपं शरीरं तद्विलक्षणशरीरः । “वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु” इत्याद्युक्तरूपविलक्षणरूपः पुण्डरीकाक्षत्वादियुक्तः । उस्वरूपभिन्न इति त्रिमूर्तिसाम्यं च निरस्यते । वीनां पक्षिणां नाथो विनाथः हंसः तत्सम्बन्धी वैनाथः । अण्यादिवृद्धिः । हंसवाहनः चतुर्मुखः तत्सहितः सवैनाथः नाभिपद्मस्थलस्थितचतुर्मुख इत्यर्थः । वैनाथो गरुडवाहनो वा । नाथत्वे हेतुर्लक्ष्मीवानिति । नित्योगे मतुप् । “हीश्च ते लक्ष्मीश्च पत्न्यौ " अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा " “वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति " इति । पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमाह लक्ष्मणाग्रज इति । लक्ष्मणशब्दः कैङ्कर्यपरमात्रोपलक्षणार्थः । अग्रज इति तन्निरूप्यत्वोक्त्या आश्रितपारतन्त्र्यमुक्तम् । ननु कथमयमनुरूपो नाथः ? ब्रह्मरुद्रादयोपि हि सन्ति नाथा इत्यत्राह त्रैलोक्यमपीति । कृतकमकृतकं कृतकाकृतकमित्युक्तं समस्तंज गदित्यर्थः । येन नाथेन नाथवदित्यनेनेन्द्रादिव्यावृत्तिः । तरपा ब्रह्मरुद्रादिव्यावृत्तिः । तन्नाथत्वस्यैतन्मूलत्वात् “युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ॥ महादेवः सर्वमेधे महात्मा हुत्वात्मानं देवदेवो बभूव” इत्यादि स्मृतयः तत्र मानम् । त्रैलोक्यं नाथवत्तरं रक्ष्यापेक्षया रक्षकत्वराधिकेत्यर्थः ॥ २।२।१३ ॥

अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम् ।

गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ २।२।१४ ॥

अनेनेति । इमां मया चिरकालधृतां महीं तस्मिन् ज्येष्ठे सुते निवेश्य, महीपालनभारं निक्षिप्येत्यर्थः । अनेन तन्निवेशरूपेण श्रेयसा च महीमेवं सद्यः संयोज्य गतक्लेशः गतराज्यभरणक्लेशो भविष्यामि । रामाभिषेकस्य द्वे फले, मह्याः श्रेयो मम विश्रान्तिश्चेति भावः ॥ २।२।१४ ॥

यदीदं मे ऽनुरूपार्थं मया साधु सुमन्त्रितम् ।

भवन्तो मे ऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ २।२।१५ ॥

यदीति । इदं रामाभिषेकरूपं कार्यं मे राज्यभरणश्रान्तस्य वृद्धस्य मे यद्यनुरूपार्थं उचितप्रयोजनकं चेत् मया वा साधु सुमन्त्रितं यदि सम्यक् विचार्यारब्धं चेदित्यर्थः । तदा भवन्तः मे मह्यम् । अनुमन्यन्तां अनुमतिं कुर्वन्तु । इदं मे अनुकूलार्थं चेत्कथं वान्यत्करवाणि ॥ २।२।१५ ॥

यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।

अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥ २।२।१६ ॥

यत्ते प्रियं तत् क्रियतामित्यत्राह– यद्यपीति । एषा रामाभिषेकविषया प्रीतिर्यद्यप्यस्ति तथाप्यन्यद्धितमस्ति चेच्चिन्त्यताम् । ननु कस्त्वत्तोधिकदर्शीत्यत्राह अन्येति । मध्यस्थानां रागद्वेषरहितानां चिन्ताविचारः अन्या अन्यादृशी स्वमात्रचिन्तातो विलक्षणा । तदेव वैलक्षण्यमाह विमर्दाभ्यधिकोदयेति । विमर्देन पूर्वापरपक्षसङ्घर्षणेन हेतुना अभ्यधिकोदया अधिकार्थप्रादुर्भावा हि ॥ २।२।१६ ॥

इति ब्रूवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।

वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥ २।२।१७ ॥

इतीति । इति पूर्वोक्तप्रकारेण । ब्रुवन्तं नृपं दशरथम् । नृपाः परिषद्गता राजानः । वृष्टिमन्तं वर्षुकं महामेघं नर्दन्तः केकाङ्कुर्वन्तः बर्हिण इव मयूरा इव । मुदिताः सन्तः प्रत्यनन्दन् प्राशंसन् ॥ २।२।१७ ॥

स्निग्धोनुनादी सञ्जज्ञे तत्र हर्षसमीरितः ।

जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥ २।२।१८ ॥

स्निग्ध इति । तत्र सभायाम् । स्निग्धः स्नेहाभिव्यञ्जकः । अनुनादी प्रतिध्ननिकारी । जनौघोद्दुष्टः जनसमूहोत्पादितः सन्नादः समीचीनशब्दः । विमानं तदास्थानमण्डपविमानं कम्पयन्निव सञ्जज्ञे, न केवलं राजान एव सर्वे ऽपि जनाः तच्छ्रुत्वा सन्तुष्टा इत्यर्थः ॥ २।२।१८ ॥

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।

ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥ २।२।१९ ॥

समेत्य मन्त्रयित्वा तु समतांगतबुद्ध्यः ।

ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ २।२।२० ॥

तस्येत्यादि श्लोकद्वयमेकान्वयम् । ब्राह्मणाः वसिष्ठाद्याः जनमुख्याः राजानश्च पौरैर्नागरिकैः जानपदैश्च । समेत्य संयुज्य । मन्त्रयित्वा युक्तायुक्तं विचार्य । धर्मार्थविदुषः स्वस्य वार्द्धके युवराजस्थापनं धर्मः प्रजानामर्थसाधनं चेति जानतः तस्य दशरथस्य । भावं वचनमूलतात्पर्यम् । सर्वशः सर्वप्रकारेण, देशकालेङ्गितादिभिः । आज्ञाय आ समन्तात् ज्ञात्वा । समतां साम्यं बुद्धयो येषां ते तथोक्ताः । ऐकमत्यं प्राप्ताः सन्तः मनसा च ज्ञात्वा प्रत्येकं स्वस्वहृदयेन निश्चित्य वृद्धं नृपं वक्ष्यमाणवचनार्हं दशरथमूचुः ॥ २।२।१९,२० ॥

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।

स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ २।२।२१ ॥

वृद्धं नृपमिति कविना सूचितमर्थं दर्शयति– अनेकेति । हे पार्थिव त्वं अनेकवर्षसाहस्रः सहस्राण्येव साहस्राणि । स्वार्थे अण् । अनेकानि वर्षसाहस्राणि यस्य स तथा । वृद्धो ऽसीति विशेषणमहिम्ना अतिवृद्धोसीति गम्यते । सः तादृशवृद्धस्त्वं पार्थिवं पृथिवीशासनार्हं युवराजानं युवराजम् । समासान्तस्यानित्यत्वान्न “राजाहःसखि–” इत्यादिना टच् । अभिषिञ्चस्व यता रामो युवराजो भवति तथाभिषञ्चेत्यर्थः ॥ २।२।२१ ॥

इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।

गजेन महतायान्तं रामं छत्रावृताननम् ॥ २।२।२२ ॥

ननु रक्षके मयि विद्यमाने किमर्थं रामाभिषेको ऽपेक्ष्यत इत्याशङ्कायां न हि वयं रक्षणार्थं तमपेक्षामहे किन्तु सौन्दर्यविशेषानुभवार्थमित्याहुः—- इच्छाम इति । इच्छाम इति बहुवचनेन सर्वेषामिच्छावैषम्याभाव उक्तः । महाबाहुमिति “आयताश्च सुवृत्ताश्च” इत्युक्तरीत्या सहजबाहुसौन्दर्यं तत्कालाङ्कुशाकर्षणादिव्यापारविशेषश्चोच्यते । (इच्छाम इत्यादि) इच्छामः अभिषेकपट्टबन्धादियुक्ततया स्थितं द्रष्टुमिच्छामः । इच्छामात्रमस्माकम्, कार्यनिर्वहणं भवदधीनम् । इच्छामः अस्माकमिच्छा वर्त्तते श्रेयांसि बहुविघ्नानि” इत्येवंविधश्रेयो ऽस्माभिर्लभ्यते किम् । इच्छामः अभिषेकः सिद्ध्यतु वा न वा, इच्छा निष्प्रतिबन्धा । सुन्दरवस्तुदर्शने इच्छा प्रवर्त्तते खलु । इच्छामः सर्वप्रकारेण रक्षकत्वाद्वाचा प्रार्थयितुमशक्ता मनसा इच्छामः । भवदभिप्रायज्ञानेन इदानीमिच्छाम इति वदामः । केषाञ्चिदस्ति न केषांचिदिति न, किन्तु सर्वे इच्छामः । हि सर्वलोकप्रसिद्धं खलु । जनौघोद्दुष्टसन्नादो विमानं कम्पयन्निवऽ इति सर्वजनकोलाहलेन तव गृहं विश्लिष्टबन्धं खलु । अकामयत मेदिनी त्वयि निर्वाहके सत्येव भूमिः स्वयम्वरं कृतवती खलु । त्वयि करग्रहं कुर्वति रामकामना न युक्तेति ध्वन्यते । कामुकीनां न मर्यादा खलु । लोकपालोपमं विष्णुसदृशम् । अतएव वृतवती भूमिः । मेदिनी मधुकैटभवसाविस्रगन्धेनोपहता “सर्वगन्धः” इति रामसौगन्ध्येन वासयितुमकामयत कर्पूरचन्दनादिकमिव स्वशेषकोटौ कृतवती । नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैव शेषिणो भोग्यतया तद्विप्रवासनानिवर्तनेन स्वशेषरक्षकम् । महाबाहुं बाहुबलस्यालक्ष्या खल्वियम् । शक्तस्त्रैलोक्यमप्येकःऽ इति । न केवलं कोसलराज्यं लङ्काराज्यमपि रक्षितुं शक्तिरस्ति । महाबाहुं “आयताश्चेति आजानुबाहुश्च” इति न महापुरुषलक्षणदर्शनेन न ज्ञायते किम् । विभूतिद्वयनिर्वाहकबाहुः खलु । महाबाहुं बाहुच्छायामवष्टभ्यऽ इति छायास्मद्रक्षणे न पर्य्याप्ता किम् । " ररक्ष धर्मेण बलेन चैव " इति धर्मबलमप्यस्तीत्याहुः रघुवीरम् । दीनान् दानेन राघवःऽ इति प्रसिद्धः खलु । आनृशंस्यं परो धर्मःऽ इति परेषामप्युपदेशपर्य्यन्तं खलु रक्षणम् । रघुवीरं रघ्वपेक्षयास्यैव धर्मिष्ठता ज्ञायते खलु । रघुं प्रति क्षुधार्तस्य मरणे तव पापं न भवतीत्युक्ते तूष्णीं स्थितवान् । अयन्तु “अप्यहं जीवितं जह्याम् " इति खलूक्तवान् । महाबलं मनोबलयुक्तम् " नहि प्रतिज्ञां संश्रुत्य । न त्यजेयं । एतद्व्रतं मम " इति वक्ष्यति । गजेन महातायान्तं गजेन त्वयादत्तकिरीटपट्टबन्धादियुक्तः शत्रुञ्जयेनागच्छति चेत्तदा ज्ञायते । गजेन न रथादिना, मत्तमातङ्गगामिनमिति तद्गमनोपमानगतिमता । महता अत्युन्नतेन सर्वशक्तिमता । आयान्तं महावीथीमध्ये प्रतिगृहाङ्गणमागतम् । आयान्तं “एकः स्वादु न भुञ्जीत " इति पुत्रकलत्रादिभिः सहानुभवरसरमास्वादयामः । रामं सौन्दर्यगुणैः सकलमनोरञ्जकम् । छत्रावृताननं दृष्टिदोषपरिहारायान्तरेण छत्रेणावृतमुखम् । दृश्यादृश्यैकदेशतया साकल्येन मुखदर्शनाभिलाषमुत्पादयन्तम् । अन्तरङ्गसुहृद्भिर्वातातपपरिम्लानताशङ्कया भूचक्रच्छत्रेणाच्छादितमुखपङ्कजम् । छत्रावृताननं “एकच्छत्रां महीं भुङ्क्ते " इति लक्षणशास्त्रकथितसमवृत्तविशालोत्तमाङ्गत्वव्यञ्जकेन निरङ्कुशप्रशासनवशीकृतनिखिलभूपालवलयतानिरूपकेण छत्रेण पाण्डरेण परभागभावमापन्नेन नितरां प्रकाशितेन्दीवरसदृशमुखं, विशदीकृतमुक्तम् । रघुवीरमिति गजस्कन्धावस्थानसूचितो वीर्यविशेष उच्यते । महाबलं मत्तमातङ्गमपि तृणीकृत्य गमनसमर्थम् । महागजेन शत्रुञ्जयेनायान्तं गच्छन्तमित्यनुभवसाक्षिकः सुषमाविशेषः सूच्यते । रामं स्वसौन्दर्येण गजमलङ्कुर्वाणमिव स्थितम् । छत्रावृताननं वदनप्रभामण्डलेनेव छत्रावरणेन जनितसौन्दर्यम् । एतैरभिषेकानन्तरभाविभिर्विशेषणैरभिषेकः कर्त्तव्य इति व्यञ्जनावृत्त्या प्रार्थ्यते ॥ २।२।२२ ॥

इति तद्वचनं श्रुवा राजा तेषां मनः प्रियम् ।

अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २।२।२३ ॥

इतीति । इति पूर्वोक्तप्रकारेण । तद्वचनं तेषां पौरादीनां वचनं श्रुत्वा तद्वचनभङ्ग्यैव तेषां मनः प्रियं मनः सन्तोषं जानन्नप्यजानन्निव । जिज्ञासुः तन्मुखेनैव ज्ञातुमिच्छुः । इदं वक्ष्यमाणं वचनमब्रवीत् ॥ २।२।२३ ॥

श्रुत्वैव वनचं यन्मे राघवं पतिमिच्छथ ।

राजानः संशयो ऽयं मे किमिदं ब्रूत तत्त्वतः ॥ २।२।२४ ॥

श्रुत्वेति । हे राजनः मे वचनं श्रुत्वैव न तु पूर्वापरं पर्यालोच्य राघवं रामं पतिं राजानं इच्छथेति यत्, अयं मे संशयः संशयहेतुः । विधेयापेक्षया पुल्लिङ्गता । संशयप्रकारमाह किमिदमिति । इदं राघवाभिषेकप्रार्थनं किम् किंनिमित्तकमिति तत्त्वतो ब्रूत, अत्र निमित्तं याथातथ्येन कथयतेत्यर्थः ॥ २।२।२४ ॥

कथं नु मयि धर्मेण पृथिवीमनुशासति ।

भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥ २।२।२५ ॥

पुनः संशयं विशिनष्टि–कथमिति । मयि धर्मेण पृथिवीमनुशासति भवन्तः ममात्मजम् अतिमुग्धं युवराजं द्रष्टुं कथमिच्छन्ति ? मयि चिरं स्वसुखनिरभिलाषतया राज्यपरिपालनजागरूके तिष्ठति ममापत्यं पतिमभिलषथ, को वा मे ऽपराध इति भावः ॥ २।२।२५ ॥

ते तमूचुर्महात्मानं पौरजानपदैः सह ।

बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ २।२।२६ ॥

न ते कश्चिदपराधः किन्तु तव पुत्रस्य गुणानामपराध इत्याहुः त इति । ते राजानः । पौरजानपदैः सह पण्डितपामराविशेषेण सर्वे ऐकमत्यं प्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुणग्राहिणं दशरथं ऊचुः । हे नृपेतिसम्बोधनेन तारतम्यज्ञतोक्ता । ते पुत्रस्य बहवः कल्याणा गुणास्सन्ति । तव तु नृपरिपालनमेको गुण इति भावः । रामप्रशंसया तस्यासूया माभूदिति ते पुत्रस्येत्युक्तम् । तदतिशयस्सर्वोपि त्वत्सम्बन्धकृत इति भावः । गुणा इति बहुवचनेन बहुत्वे सिद्धेपि बहव इत्युक्त्या असङ्ख्येयगुणत्वमुक्तम् । पुत्रस्य गुणा इत्यनेन जन्मसिद्धत्वोक्त्या गुणानां स्वाभाविकत्वमुक्तम् । कल्याणाः अखिलहेयप्रत्यनीकाः । आश्रयसम्बन्धेन शुभीभूता वा “गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याताः " इत्यभियुक्तोक्तः । अत्र “स्वाभाविकानवधिकातिशयासङ्ख्येयकल्याणगुणगणः” इति (वाक्यमिदं भगवद्रामानुजमुनिविरचिते गद्यत्रयेपि विद्यते । स्वाभाविकानवधिकातिशयेशितृत्वम्ऽ इति च यामुनाचार्यवचनं प्रतिभाति) यामुनाचार्यवचनमनुसन्धेयम् ॥ २।२।२६ ॥

गुणान् गुणवतो देव देवकल्पस्य धीमतः ।

प्रियानानन्दनान् कृत्स्नान् प्रवक्षामो ऽद्य तान् श्रृणु ॥ २।२।२७ ॥

के ते गुणा इत्याकांक्षायां तान् वक्तुं प्रतिजानीते–गुणानिति । हे देव हे राजन् । गुणवतः प्रशस्तबहुगुणकस्य देवकल्पस्य देवतुल्यस्य । धीमतः रामस्य प्रियान् इष्टान् । आनन्दनान् प्रीतिजनकान् । तान् प्रसिद्धान् । कृत्स्नान् गुणान् । अद्य प्राप्तकाले श्रृणु प्रवक्ष्यामः । गुणवतो गुणानित्यनेन गुणानामनारोपितत्वेन स्वाभाविकत्वमुक्तम् । देवकल्पस्येत्यनेन गुणानां सम्भावितत्वम् । धीमत इत्यनेन गुणानां मध्ये ज्ञानस्य प्राधान्यमुक्तम्, ब्राह्मणा आगता वसिष्ठोप्यागत इत्यत्र वसिष्ठस्येव । प्रियानित्यनेन कल्याणत्वम्, आनन्दनानित्यनेन निरतिशयत्वम्, कृत्स्नानित्यनेनासंख्येयत्वं च विवक्षितम् । एतावत्पर्यन्तं किमर्थं नोक्तमित्यपेक्षायां भवत्प्रश्नकाल एवास्मदुक्तेरवसर इत्यद्येत्यनेन सूचयन्ति प्रवक्ष्याम इति । प्रवचनोक्त्या भगवद्गुणोपदेशे ऽधिकारितारतम्यं नास्ति । अजानता जानद्भिः श्रोतव्यमित्येवेति सूचितम् । श्रृण्वित्यनेन रामगुणश्रवणे निरतिशयानन्दमग्नो भविष्यसि । कथञ्चिन्मनः संस्तभ्य श्रोतव्यमित्युक्तम् ॥ २।२।२७ ॥

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।

इक्ष्वाकुभ्यो ऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥ २।२।२८ ॥

दिव्यैरिति । दिव्यैः अमानुषैः । गुणैः शौर्यवीर्यादिभिः । शक्रसमः इन्द्रसमः । सत्यपराक्रमः अमोघविक्रमः ।

इक्ष्वाकुभ्यः इक्ष्वाकुवंश्येभ्यः । सर्वेभ्योतिरिक्तः समधिकः " अतिरिक्तः समधिकः " इत्यमरः । शौर्यादिभिरिति शेषः । राज्ञो मनःप्रीणनाय सम्बोधयन्ति विशांपत इति । विशां प्रजानां पते ॥ २।२।२८ ॥

रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।

साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ २।२।२९ ॥

राम इति । लोके राम एव सत्पुरुषः, रिपूणामपि वत्सल इत्यर्थः । सत्यधर्मावेव परायणं परमा गतिर्यस्य सः सत्यधर्मपरायणः । सत्यधर्मैकनिरत इत्यर्थः । किञ्च धर्मः श्रिया तत्फलभूतया संपदा सह रामात्साक्षादव्यवधानेन विनिर्वृत्तः निष्पन्न, धर्मार्थयोरितरनिरुपेक्षतया निर्वाहक इत्यर्थः ॥ २।२।२९ ॥

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ।

बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ २।२।३० ॥

रामनिष्ठगुणसमुदायस्यैकत्रासम्भवादेकैकगुणयोगेन चन्द्रादीन् दृष्टान्तयन्ति– प्रजेति । प्रजासुखत्वे प्रजानां सुखकरत्वे चन्द्रस्य तुल्यः । क्षमागुणविषये वसुधायाः भूमेः तुल्यः । बुद्ध्या बुद्ध्यसाधारणधर्मैण बृहस्पतेस्तुल्यः । वीर्ये विषये शचीपतेः साक्षात्तुल्यः । “साक्षात्प्रत्यक्षतुल्ययोः " इत्यमरः ॥ २।२ ३० ॥ ऀ

धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ।

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥ २।२।३१ ॥

धर्मज्ञ इति । धर्मं सामान्यविशेषरूपमशेषं जानातीति धर्मज्ञः । सत्या अमोघा सन्धा प्रतिज्ञा यस्यासौ सत्यसन्धः । “सन्धा प्रतिज्ञा मर्यादा” इत्यमरः । शीलवान् शीलं हि नाम महतो मन्दैः सह नैरन्ध्र्येण संश्लेषः तद्वान् । अनसूयकः गुणेषु दोषाविष्करणमसूया तद्रहितः । बहुव्रीहौ कप् । क्षान्तः क्षमावान् । क्षमा अत्राश्रितापराधसहिष्णुत्वम् । क्षमेरूदित्वात् पक्षे नेट् । न केवलं सहिष्णुः अपराधिषु, सान्त्वयिता कुपितान् दुःखितांश्च प्रति सान्त्ववादी । श्लक्ष्णः प्रियंवदः । “समौ श्लक्ष्णप्रियंवदौ” इत्यमरः । कृतज्ञः स्वल्पमपि सकृत्कृतमुपकारं बहुतया जानन्नित्यर्थः । विजितेन्द्रियः विषयचापलरहितः ॥ २।२।३१ ॥

मुदुश्च स्थिरचित्तश्च सदा भव्यो ऽनसूयकः ॥ २।२।३२ ॥

मृदुरिति । मृदुत्वं समाश्रितजनविश्लेषभीरुत्वम् । चित्तस्थैर्यं नाम अतिसङ्कटेप्यङ्गीकृतविषयपरित्यागराहित्यम् । सदा भव्यः कुशलः आश्रिताधीनो वा ॥ २।२।३२ ॥

प्रियवादी च भूतानां सत्यवादी च राघवः ।

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ २।२।३३ ॥

प्रियवादी “सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्” इत्युक्तरीत्या प्रियवादित्वेपि सत्यवादीत्यर्थः । प्रियवादी च, चकारो ऽवधारणार्थः । प्रियवाद्येव न तु सत्यमप्यप्रियं वदतीत्यर्थः । ऽन ब्रूयात् सत्यमप्रियम्ऽ इति स्मरणात् । भूतानां भवनमात्रोपाधिकानां सर्वेषां जनानां सत्यवादी । सत्यं ब्रूयादिति विहितसत्यवचनः । चकारेण प्रियमप्यसत्यं न वदतीत्यवधार्यते । यद्वा सत्यमिति परलोकहितमुच्यते । “सत्येन लोकान् जयति” इति प्रयोगानुसारात् । प्रियवचनस्य निषिद्धसाधारणत्वाददृष्टविरोधिप्रियं न वदतीत्यर्थः । राघवः रघुराक्षससंवादादिषु प्रियसत्यवचनं प्रसिद्धमिति कुलागतो धर्म इत्यर्थः । एतादृशज्ञानवत्त्वं पुस्तकनिरीक्षणादिना पण्डितंमन्यतया वा न भवतीत्याह बहुश्रुतानामिति । बहुभ्य आचार्येभ्यो बहुभिः शास्त्रैः बहुधा बहुप्रकारेण श्रुतमेषामस्तीति तेषाम् । वृद्धानां शीलवयोवृद्धानाम् । ब्राह्मणानां उक्तलक्षणेषु क्षत्रियेषु सत्स्वपि ब्राह्मणानेव ज्ञानार्थमुपास्त इत्यर्थः । प्रियवादीत्यादि । प्रियवादी ग्रीष्मधर्मसन्तप्तस्थले प्रवर्षी बलाहक इव सुशीतलं वचनं वक्तीत्यर्थः । किमीदृशवचनं दिव्यान्तःपुरस्य मातापित्रादीनां वसिष्ठादीनां वा ? नेत्याहभूतानां सत्तायोगिसकलपदार्थानां च प्रियवादी । किं सर्वत्र प्रियमेव वदति ? नेत्याहसत्यवादी भूतहितादृष्टार्थवचन इत्यर्थः । प्रियहितवादीति भावः । किमिदं विरुद्धंद्वयमघटितघटनासामर्थ्यादित्यपेक्षायां न तथा किन्तु कुलप्रभावादित्याहराघव इति । एवंविधगुणः किं सगर्वो वर्तते ? नेत्याहबह्विति । सम्भावितगुणैरतृप्तस्सन् पुनरप्यति शयाय ज्ञानिनां प्राङ्गणं गत्वा तिष्ठतीत्यर्थः । यत्किंचिच्छ्रवणमात्रेण तृप्तानां ज्ञानादिवृद्धानां “सर्वतः सारमादद्यात्पुष्येभ्य इव षट्पदः” इत्युक्तरीत्या बहुभ्यः सारग्रहणं कृतवानित्यर्थः । ब्राह्मणानां “सा विद्या या विमुक्तये” इत्युक्तब्रह्मविद्यानिष्ठानां न तु “विद्या ऽन्या शिल्पनैपुणम्” इत्युक्तान्यविद्यानिष्ठानाम् । उपासिता तद्गृहं गत्वानुवर्तयिता न तु स्वगृहे तानानीय श्रोता ॥ २।२।३३ ॥

तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्द्धते ।

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ २।२।३४ ॥

वृद्धोपासनसिद्धान् गुणानाह–तेनेति । तेन समृद्धोपासनेन । कीर्तिः औदार्यादिगुणनिमित्ता प्रथा, यशः पराक्रमादिनिबन्धना प्रथा । यद्वा कीर्तिः प्रथा । यशस्तत्कारणबलादानादिकम्, तेजः पराभिभवनसामर्थ्यम् ॥ २।२।३४ ॥

सम्यग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित् ॥ २।२।३५ ॥

सम्यगिति । विद्याव्रतस्नातः । “वेदमधीत्य स्नायात्” इति स्मृतिप्रक्रियया निखिलवेदाध्ययनव्रतावरणानन्तरभाविस्नानकर्मयुक्तः । सम्यक् गुरुकुलवासाद्यङ्गसहिततया साङ्गवेदवित् । “शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति व्याहृतानि वदाङ्गानि मनीषिभिः ॥ " इत्युक्ताङ्गसहितवेदार्थज्ञः। यथावत् यथासम्प्रदायम् ॥ २। २। ३५ ॥

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।

कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥ २।२।३६ ॥

गान्धर्वे च सङ्गीतशास्त्रे ऽपि । सामगानोपयुक्तत्वादितिभावः । कल्याणाभिजनः परिशुद्धोभयवंशः । साधुः स्वयं परिशुद्धः । अदीनात्मा क्षोभहेतुष्वप्यक्षोभ्यान्तःकरणः ॥ २।२।३६ ॥

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ॥ २।२।३७ ॥

द्विजैरिति । धर्मार्थनैपुणैः धर्मार्थप्रतिपादनकुशलैः । स्वार्थे अण्प्रत्ययः । श्रेष्ठैः अभिजनविद्यावृत्तयुक्तैः । अभिविनीतः सर्वतः सुशिक्षितः ॥ २। २। ३७ ॥

यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा ।

गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ॥ २।२।३८ ॥

यदेति । ग्रामार्थ इत्यत्र ग्रामेत्यविभक्तिकनिर्देशः । ग्रामस्य नगरस्य वार्थे प्रयोजने निमित्ते नाविजित्य निवर्तते इत्यभिधानात् रामस्य सुबाहुमारीचविषये जेतृत्ववदन्यत्रापि शत्रुविषये जेतृत्वमभूदित्यवगम्यते ॥ २।२।३८ ॥

सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।

पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ २।२।३९ ॥

संग्रामादिति । स्फुटम् ॥ २।२।३९ ॥

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।

निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ २।२।४० ॥

कुशलप्रश्नप्रकारमाह–पुत्रेष्विति । प्रेष्यः भृत्यः । निखिलेन कार्त्स्न्येन । आनुपूर्व्यात् प्रधानक्रमेण पृच्छतीत्यनुषज्यते ॥ २।२।४० ॥

शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः ।

इति नः पुरुषव्याघ्रः सदा रामो ऽभिभाषते ॥ २।२।४१ ॥

शुश्रूषन्त इति । दंशिताः सन्नद्धाः “सन्नद्धो वर्मितः सज्जो दंशितः” इत्यमरः ॥ २।२।४१ ॥

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।

उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ २।२।४२ ॥

सत्पुरुषसम्भावितगुणानभिधाय रामस्य साधारणगुणानाह–व्यसनेष्विति । मनुष्याणां

दिव्यान्तःपुरस्थितमातृप्रभृतीनां न भवति किन्तु मनुष्याणाम् आढ्यदरिद्रद्विजादितारतम्यानादरेण मनुष्यजात्याक्रान्तानाम् । व्यसनेषु अल्पानल्पविचारमन्तरेण व्यसनपदार्थेषु । भृशं व्यसनवतो यादृशं न किन्तु पङ्कमग्नगज इव स्वमाहात्म्यानुगुणं यावत्सत्ताकं च दुःखितो भवति न तु दिनक्रमेण विस्मरति, इदं दुःखं मत्परिपालनवैगुण्येन खल्वागतमिति नितरां दुःखितो भवति । “ह्रीरेषा तु ममातुला” इति वक्ष्यति । उत्सवेषु पुत्रजननादिषु सर्वेषु पुत्रीजननाद्यनादरविरहेण द्वारि चूतकिसलयमालाबन्धनमुपधीकृत्य प्रवृत्तेष्वित्यर्थः । पितेव पुत्रादीनां पुत्राद्युत्सवेषु यः पितुः परितोषो जायते स द्विविधः । पामराणामर्थलाभलौकिकसहायनिमित्तः, पण्डितानां स्वोत्तारकत्वनिमित्तश्च । एवमुभयविधपरितोषो रामस्याप्यस्ति “प्रनृत्यन्ति पितामहाः । यद्येको ऽपि गयां व्रजेत्” इतिवत् । “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । बहुजन्मसहस्रान्ते दिष्ट्या यस्तु प्रपद्यते ॥ " इति प्रत्याशासम्भवात्। अत्र परिशब्दो वीप्सायां वर्तते। अत्रापि भृशमित्यनुवर्तते ॥ २।२।४२ ॥

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ २।२।४३ ॥

सत्यवादीति । अतिसङ्कटावस्थायामपि सत्यवचनशीलः । सर्वात्मना धर्मं श्रितः अतिदुर्घटदशायामपि धर्मं न त्यजतीत्यर्थः ॥ २।२।४३ ॥

सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः ।

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ २।२।४४ ॥

सम्यगिति । श्रेयसां सम्यग्योक्ता सम्पादकः । न विगृह्यकथारुचिः “न विगृह्यकथां कुर्यात्” इति निषिद्धयोर्जल्पवितण्डयोर्निवृत्तरागः । निवृत्तरागत्वं किमवक्तृत्वात् ? नेत्याह उत्तरेति ॥ २।२।४४ ॥

सुभ्रूरायतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ।

रामो लोकाभिरामो ऽयं शौर्यवीर्यपराक्रमैः ॥ २।२।४५ ॥

उक्तकल्याणगुणानुरूपाकारसौभाग्यमाह–सुभ्रूरिति । शूरस्य भावः शौर्यम्, तच्च मरणनिर्भयत्वम् । “शूरो मरणनिर्भयात्” इतिवचनात् । वीर्यं स्वयमविकृतस्सन् परान् विविधमीरयति विद्रावयतीति वीरः, तस्य भावो वीर्यम् । दुष्प्रवेशचक्रव्यूहादिविशिष्टसैन्ययुक्तान् देवासुरानपि येनोत्साहेनाक्रमति स पराक्रमः ॥ २।२।४५ ॥

प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः ।

शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ॥ २।२।४६ ॥

प्रजेति । “रामो राज्यमुपासित्वा” इत्युक्तरीत्या प्रजापालनतत्वज्ञः । न रागोपहतेन्द्रियः इन्द्रियचापलरहित इति न समासः । भोक्तुं पालयितुम् ॥ २।२।४६ ॥

नास्य क्रोधः प्रसादश्च निरर्थो ऽस्ति कदाचन ।

हन्त्येव नियमाद्वध्यान्न वध्ये न च कुप्यति ॥ २।२।४७ ॥

नेति । नियमात् नियमेन वध्यान् शास्त्रतो वध्यान् हन्त्येव । अवध्ये शास्त्रतः अवध्ये विषये ॥ २।२।४७ ॥

युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥ २।२।४८ ॥

युनक्तीति । यत्र यस्मिन् पुरुषे तुष्यति तं तुष्टो ऽसौ अर्थैरभिलषितपदार्थैः युनक्ति योजयति ॥ २।२।४८ ॥

शान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् ।

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ २।२।४९ ॥

शान्तैरिति । शान्तैः शमप्रधानैः सर्वप्रजानां कान्तैः काम्यमानैः । सर्वजनभोग्यैरित्यर्थः । अत एव प्रीतिसञ्जननैः । दान्त इति पाठे–यमनियमादिरूपतपःक्लेशसहः । “तपः क्लेशसहो दान्तः” इत्यमरः । दीप्तः ग्रीष्मादिकालिकः ॥ २।२।४९ ॥

तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।

लोकपालोपमं नाथमकामयत मेदिनी ॥ २।२।५० ॥

तमिति । मेदिनी मेदिनीस्थ जनता ॥ २।२।५० ॥

वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।

दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥ २।२।५१ ॥

वत्स इति । तव दिष्ट्या भाग्येन । श्रेयसि श्रेयोनिमित्तम् । वत्सः पुत्रो जातः । पुत्रगुणैर्युक्तः ऽपुन्नाम्नो नरकात्त्रायतेऽ इति व्युत्पत्तिसिद्धपितृतारकगुणैर्युक्तः । मारीचः मरीचेः पुत्रः । काश्यपः कश्यपगोत्रः ॥ २।२।५१ ॥

बलमारोग्यमायुश्च रामस्य विदितात्मनः ।

देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥ २।२।५२ ॥

आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।

आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ २।२।५३ ॥

बलमिति श्लोकद्वयमेकान्वयम् । देवासुरमनुष्येषु सर्वो जनः राष्ट्रे इतरराष्ट्रे पुरवरे इतरपुरवरे च वर्त्तमानो जनः । आभ्यन्तरः अन्तःपुरचारी जनः । पौरजानपदः स्वपुरस्वजनपदस्थो जनश्च । विदितात्मनः प्रसिद्धशीलस्य रामस्य बलादिकमाशंसते प्रार्थयते । मनुष्यशब्दो ऽत्र देवादिसाहचर्यादृषिवचनः ॥ २।२।५२५३ ॥

स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः ।

सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ॥ २।२।५४ ॥

स्त्रिय इति । स्त्रियः अतिगम्भीरतया स्वहृदयं व्यक्तमनाविष्कुर्वन्त्यः । वृद्धाः करणपाटवरहिताः, अत्यलसतया सर्वत्रानादरं कुर्वन्त्यः । तरुण्यः यौवनमदान्धतया विवेकशून्याः । सायंप्रातरित्युपलक्षणम्, त्रिसन्ध्यमित्यर्थः । तेन मङ्गलाशासनकालनियमोक्तिः । समाहिताः सावधानाः । अनेन रामगुणगृहीततया स्वारसिकप्रेमकत्वेन समनस्कत्वमुक्तम् । सर्वान् देवानिति प्रेमकलुषिततया न्यूनाधिकविभागमन्तरेण लौकिकवैदिकविभागमन्तरेण च नमस्यन्तीति रामरक्ष्यानेव देवान् रामरक्षकान् मन्यन्त इति प्रेमान्ध्यकाष्ठा दर्शिता । रामस्यार्थे रामस्य बलारोग्यादिप्रयोजनसिद्ध्यैव स्वप्रयोजनं नान्तरीयकमिति तस्यैव प्रयोजनमुद्दिश्य । यशस्विनः देवतान्तरनमस्कारस्य रामप्रयोजनपर्यवसितत्वात् रामप्रेमपारवश्येन कृतत्वाच्च स्वरूपविरुद्धदेवतान्तरभजनरूपमयशो नास्तीत्यर्थः ॥ २।२।५४ ॥

तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ २।२।५५ ॥

तेषामिति । आयाचितं रामाभिषेकरूपाभिमतार्थप्रार्थनम् । समृद्ध्यतां सफलं भवतु ॥ २।२।५५ ॥

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।

पश्यामो यौव राज्यस्थं तव राजोत्तमात्मजम् ॥ २।२।५६ ॥

राममिति । इन्दीवरश्याममिति समुदायशोभोक्ता । सर्वशत्रुनिबर्हणमिति स्वसौन्दर्यातिशयदर्शनमग्नचित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थः । पश्यामः द्रक्ष्यामः । “वर्तमानसामीप्ये वर्तमानवद्वा” इति भविष्यदर्थे लट् ॥ २।२।५६ ॥

तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।

हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥ २।२।५७ ॥

तमिति । देवेति सम्बुद्धिः । देवदेवः विष्णुः तत्सदृशमिति वा । निविष्टं दत्तावधानमित्यर्थः । उदारजुष्टं औदार्ययुक्तम् । भावप्रधानो निर्देशः । उदारैर्जुष्टं सेवितमिति वा ॥ २।२।५७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥ २ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥