०७६ जामदग्न्यपराजयः

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।

गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ १।७६।१ ॥

अथ जामदग्न्यगर्वनिर्वापणं षट्सप्ततितमे–श्रुत्वेत्यादि । पितुर्गौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स तथा ॥ १।७६।१ ॥

श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।

अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ १।७६।२ ॥

श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि । तदनुरुन्ध्यामहे अनुरुन्ध्मः । अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात् । कर्तरि यगार्षः ॥ १।७६।२ ॥

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।

अवजानासि मे तेजः पश्य मे ऽद्य पराक्रमम् ॥ १।७६।३ ॥

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।

शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ॥ १।७६।४ ॥

आरोप्य स धनू रामश्शरं सज्यं चकार ह ।

जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ॥ १।७६।५ ॥

वीर्येति । वीर्यहीनम् । अत एव क्षत्रधर्मेण प्राप्तधनुर्ग्रहणयुद्धादौ अशक्तमिव मन्यमानो यन्माम् अवजानासि ऽक्षत्रधर्मं पुरस्कृत्यऽ इत्यादिना अवमानं कृतवानसि तन्नानुरुन्ध्यामहे । “अस्मदो द्वयोश्च” इति चकारादेकस्मिन् बहुवचनम् । अतः तेजःपरपरिभावासहनं पराक्रमम्, स्वशक्त्या पराभिभवनं च पश्य ॥ १।७६।३५ ॥

ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।

तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ १।७६।६ ॥

विश्वामित्रकृतेन विश्वामित्रकृतस्नेहेन । विश्वामित्रभगिन्यां सत्यवत्यामृचीकाज्जातो जमदग्निः तस्य पुत्रः परशुराम इति विश्वामित्रसम्बन्धेनेत्यर्थः ॥ १।७६।६ ॥

इमां पादगतिं राम तपोबलसमार्जितान् ।

लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ १।७६।७ ॥

ते तुभ्यम् । पादयोर्गतिं गमनम् । लोकान् लोकप्राप्तिम् । यदिच्छसि अनयोर्मध्ये यदिच्छसि तद्वदेत्यर्थः । यदीच्छसीति पाठो युक्तः । उभयथा प्रतिबद्धः क्वचित्तिष्ठेन्न लोकं पीडयेदिति रामस्य हृदयम् ॥ १।७६।७ ॥

न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।

मोघः पतति वीर्येण बलदर्पविनाशनः ॥ १।७६।८ ॥

वीर्येण स्वशक्त्या मोधो न पतति लक्ष्यमभित्वा न तूष्णीं पततीत्यर्थः ॥ १।७६।८ ॥

वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।

पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ १।७६।९ ॥

गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।

यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ १।७६।१० ॥

वरायुधेत्यादि । रामं तन्महदद्भुतं कर्म च द्रष्टुं समेता इत्यन्वयः ॥ १।७६।९,१० ॥

जडीकृते तदा लोके रामे वरधनुर्द्धरे ।

निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ॥ १।७६।११ ॥

जडीकृत इति । लोके जने जडीकृते स्तब्धे । निर्वीर्यः निर्गतवैष्णवतेजाः । तथा च पुराणान्तरम्– “ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥ "

इति उदैक्षत विस्मित इति शेषः ॥ १।७६।११ ॥

तेजो ऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।

रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ १।७६।१२ ॥

उवाच प्रश्नोत्तरमिति शेषः ॥ १।७६।१२ ॥

काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।

विषये मे न वस्तव्यमिति मां काश्यपो ऽब्रवीत् ॥ १।७६।१३ ॥

सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।

कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ॥ १।७६।१४ ॥

काश्यपायेत्यादि । यदाब्रवीत्तदाप्रभृति न वस इत्यन्वयः । गुरुवचः काश्यपवचः । कुर्वन् परिपालयन् । कुत इत्यत्राह कृतेति । हिशब्दः प्रसिद्धौ । यतः सर्वप्रसिद्धतया भूः काश्यपस्य स्वत्वेन कृता त्वद्विषये न वत्स्यामीति प्रतिज्ञा च कृता, तस्मादित्यर्थः ॥ १।७६।१३,१४ ॥

तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव ।

मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १।७६।१५ ॥

तदिमामिति । गतिः गमनम् ॥ १।७६।१५ ॥

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।

जहि तान् शरमुख्येन माभूत्कालस्य पर्ययः ॥ १।७६।१६ ॥

लोकहननं नाम लोकदानप्रतिबन्धः । मूर्तस्य वा अमूर्तस्य वा कार्यस्य प्रतिहननमेव रामशरस्यापेक्षितमिति भावः ॥ १।७६।१६ ॥

अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।

धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परन्तप ॥ १।७६।१७ ॥

एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।

त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १।७६।१८ ॥

अक्षयमिति । अक्षयं निर्विकारम् । मधुहन्तारं विरोधिनिरसनशीलम् । अनेन “न ब्रह्मा नेशानः” इति महोपनिषदुपबृंहिता । परामर्शात् ग्रहणात् ॥ १।७६।१७,१८ ॥

न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।

त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १।७६।१९ ॥

इयं त्वया विमुखीकृतिः । व्रीडा लज्जा ॥ १।७६।१९ ॥

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।

शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १।७६।२० ॥

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।

रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥ १।७६।२१ ॥

शरमोक्षे सति । अहं दृष्टशरलक्ष्यस्वार्जितलोकगतिः ॥ १।७६।२०,२१ ॥

स हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान् ।

जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ १।७६।२२ ॥

ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा ।

सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ १।७६।२३ ॥

दृश्य दृष्ट्वा । लोकान् हतान् लोकप्राप्तिहेतुकर्माणि विफलीकृतानीत्यर्थः ॥ १।७६।२२,२३ ॥

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।

ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ १।७६।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥

आत्मगतिम् स्वस्थानम् ॥ १।७६।२४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥