तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १।७२।१ ॥
अथ विश्वामित्रेण भरतशत्रुघ्नार्थे कुशध्वजसुतावरणं गोदानकरणं च द्विसप्ततितमे–तमुक्तवन्तमित्यादि । नृपं जनकम् ॥ १।७२।१ ॥
अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव ।
इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश्चन ॥ १।७२।२ ॥
अचिन्त्यानीत्यादि । अचिन्त्यानि आश्चर्यभूतानि । अप्रमेयानि अपरिच्छेद्यमहिमानि । एषाम् इक्ष्वाकुविदेहानाम् । तुल्यः कश्चन नास्ति यतः अतःकारणादचिन्त्यत्वमप्रमेयत्वं चेति भावः ॥ १।७२।२ ॥
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा ।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥ १।७२।३ ॥
सदृश इति । सीता ऊर्मिलया सह रामलक्ष्मणयोर्दीयते इति यत् । अयं धर्मसम्बन्धः धर्मेण सम्बन्धः, यौनसम्बन्ध इति यावत् । सदृशः रूपसम्पदा च सदृशः । यद्वा अयं करिष्यमाणो धर्मसम्बन्धः सदृशः उभयकुलसदृशः रूपसम्पदा च सदृशः तुल्यरूपयोर्विवाह इत्यर्थः । अत्र हेतुमाह रामेति । सीता ऊर्मिलया सह रामलक्ष्मणयोः यतः सदृशीत्यनुषङ्गः । यद्वा सीता ऊर्मिलया सह रामलक्ष्मणयोः चकाराद्रामलक्ष्मणौ च सीतोर्मिलयोः रूपसम्पदा सदृशः । शकारान्ते बहुवचनम् । अतः सदृशो धर्मसम्बन्ध इत्यर्थः ॥ १।७२।३ ॥
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ॥ १।७२।४ ॥
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ।
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि ।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ १।७२।५ ॥
वक्तव्यञ्चेति । अन्यद्वक्तव्यं किञ्चिदस्ति तदपि श्रूयतामित्यर्थः ॥ १।७२।४,५ ॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
वरयामस्सुते राजंस्तयोरर्थे महात्मनोः ॥ १।७२।६ ॥
पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः ॥ १।७२।७ ॥
पत्न्यर्थमित्युक्तं कयोरित्याकाङ्क्षायां तदुपपादयन्नाह–भरतस्येति । भरतस्य शत्रुघ्नस्य च तयोरुभयोरर्थ इत्यन्वयः ॥ १।७२।६,७ ॥
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् ।
इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ १।७२।८ ॥
उभयोरिति । उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यतामित्यर्थः । भवतः कुलमित्यनुकर्षः । अव्यग्रं निर्दोषम् । अन्योन्यसम्बन्धेनान्योन्यमुत्कर्षं प्राप्नुयादित्यर्थः ॥ १।७२।८ ॥
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ १।७२।९ ॥
वसिष्ठस्य मतेवसिष्ठानुमत इत्यर्थः ॥ १।७२।९ ॥
कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ ।
सदृशं कुलसम्बन्धं यदाज्ञापयथस्स्वयम् ॥ १।७२।१० ॥
कुलमिति । यद्यस्मात् । मुनिपुङ्गवौ युवां येषां नः कुलसम्बन्धम् इक्ष्वाकुवंशेन यौनसम्बन्धम् । स्वयं शिष्यमुखं विना आज्ञापयथः, तस्मात्तेषां नः इदं कुलं धन्यं भाग्यशालीति मन्ये ॥ १।७२।१० ॥
एवं भवतु भद्रं वः कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ १।७२।११ ॥
पत्न्यौ भजेतां पत्नीत्वेन भजेताम् । सहितौ सदा सहचरौ ॥ १।७२।११ ॥
एकाह्ना राजपुत्रीणां चतसृ़णां महामुने ।
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ १।७२।१२ ॥
एकाह्नेति । एकाह्नेत्यजभाव आर्षः । सप्तम्यर्थे तृतीया । चतसृ़णामिति “छन्दस्युभयथा” इति पक्षे दीर्घः ॥ १।७२।१२ ॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः ।
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥ १।७२।१३ ॥
उत्तरे फल्गुनीभ्यामुपलक्षितयोर्दिवसयोरुत्तरस्मिन् दिवसे, उत्तरफल्गुन्यामित्यर्थः । यद्वा फल्गुनीभ्यामिति सप्तम्यर्थे चतुर्थी । फल्गुन्यामुत्तरे फल्गुन्याख्ये उत्तरनक्षत्र इत्यर्थः । प्रशस्ततायां हेतुः भग इति । भगः प्रजापतिः । प्रजोत्पत्तिस्थानयोनिलिङ्गाधिष्ठाता देवता । ननु– “एकस्मिंस्तु गृहे कुर्यादेकामेव शुभक्रियाम् । अनेकां यस्तु कुरुते स नाशमधिगच्छति ॥ " इति ज्योतिश्शास्त्रे एकगृहे अनेकोत्सवनिषेधो दृश्यत इति चेत्, मतान्तरे एकगृहे भ्रातृ़णामेकदोत्सवस्य विहितत्वात्। उक्तं हि दैवज्ञविलासे “भिन्नोदरोदयवतामुद्वाहे कल्पयेत् पृथग्वेदिम्। एकगृहे जगुरार्या मण्डपमेकं पराशरेणोक्तम् ॥ " इति । नन्वेवमपि लक्ष्मणशत्रुघ्नयोः कथमेकदा विवाहः? “एकमातृप्रसूतानामेकस्मिन्नेव वत्सरे । विवाहं मौञ्जिबन्धं च चूडाकर्म न कारयेत् ॥ " इति निषेधादिति चेत् सत्यम्। एकस्मिन् दिने तु कर्तव्य एव। उक्तं हि दैवज्ञविलासे “भ्रातृद्वये स्वसृयुगे भ्रातृस्वसृयुगे तथा। समानाश्च क्रियाः कुर्युर्मातृभेदे तथैव च। एकस्मिन् दिवसे त्वेकलग्ने भिन्नांशके तयोः। एकगर्भोदयवतोर्विवाहः शुभकृद्भवेत् ॥ " इति एकोदरयोरप्येकगृहे विवाहकरणवचनं द्रष्टव्यम् ॥ १।७२।१३ ॥
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः ।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १।७२।१४ ॥
प्रत्युत्थाय आदरातिशयेनेति भावः ॥ १।७२।१४ ॥
परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा ॥ १।७२।१५ ॥
परो धर्मः कन्याप्रदानरूपः ॥ १।७२।१५ ॥
इमान्यासनमुख्यानि आसातां मुनिपुङ्गवौ ।
यथा दशरथस्येयं तथायोध्या पुरी मम ।
प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ ॥ १।७२।१६ ॥
इमानीति सार्द्धश्लोक एकान्वयः । मद्भ्रातुर्मम दशरथस्य च यान्यासनमुख्यानि सिंहासनानि तानि युवामासाताम् । पुरुषव्यत्यय आर्षः । विनयाय प्रथमपुरुषो वा । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु दशरथसिंहासनं कथं त्वया शक्यं दातुम् ? तत्राह यथेति । इयं मिथिला यथा दशरथस्येष्टविनियोगार्हा तथा अयोध्या च मम, तथा च युवयोः प्रभुत्वे सन्देहो नास्ति । अतो यथार्हं यथोचितम्, प्रभुत्वं कर्तुमर्हथ । पूजायां बहुवचनम् । वयं सर्वे भवदधीनाः यूयमेवास्माकं त्रयाणां हितमुपदिश्य यथोचितं प्रकृतकार्यं कर्तुमर्हथेत्यर्थः ॥ १।७२।१६ ॥
तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १।७२।१७ ॥
युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः ॥ १।७२।१८ ॥
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ १।७२।१९ ॥
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ १।७२।२० ॥
हृष्ट इति । एवमेकवाक्यवादेनेति शेषः ॥ १।७२।१७२० ॥
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ १।७२।२१ ॥
काल्यं काले कर्तव्यं गोदानं समावर्तनम् ॥ १।७२।२१ ॥
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ १।७२।२२ ॥
तदङ्गदानान्याह–गवामित्यादि ॥ १।७२।२२ ॥
सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः ।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ १।७२।२३ ॥
वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दनः ।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ १।७२।२४ ॥
सम्पन्नाः । क्षीरसम्पन्नाः । कांस्यदोहनाः कांस्यमयदोहनपात्राः । सुबहु अन्यद्वित्तं च ॥
१।७२।२३,२४ ॥
ससुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ १।७२।२५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
सौम्यः सुप्रसन्नचित्तः ॥ १।७२।२५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥