एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ १।७१।१ ॥
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।
वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ १।७१।२ ॥
एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे– एवं ब्रुवाणमित्यादि ॥ १।७१।१,२ ॥
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ १।७१।३ ॥
सत्त्ववतां बलवताम् ॥ १।७१।३ ॥
तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता ।
प्रथमो जनको नाम जनकादप्युदावसुः ॥ १।७१।४ ॥
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः ।
नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ १।७१।५ ॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ १।७१।६ ॥
प्रथम इति । मिथिमारभ्यास्माकं जनकसञ्ज्ञेति भावः ॥ १।७१।४६ ॥
बृहद्रथस्य शूरो ऽभून्महावीरः प्रतापवान् ।
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ १।७१।७ ॥
सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः ।
दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ १।७१।८ ॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः ।
प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ १।७१।९ ॥
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥ १।७१।१० ॥
महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ १।७१।११ ॥
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ १।७१।१२ ॥
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
ज्येष्ठो ऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १।७१।१३ ॥
सुधृतिरित्यन्वर्थसञ्ज्ञाज्ञापनार्थं विशेषणद्वयम् ॥ १।७१।७१३ ॥
मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः ।
कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ १।७१।१४ ॥
भारं भरणीयम्, पोषणीयमिति यावत् ॥ १।७१।१४ ॥
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।
भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥ १।७१।१५ ॥
धुरं राज्यभारम् ॥ १।७१।१५ ॥
कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात् ।
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ १।७१।१६ ॥
स च मे प्रेषयामास शैवं धनुरनुत्तमम् ।
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ १।७१।१७ ॥
कस्यचित्कालस्य कस्मिंश्चित्काले गते । अवरोधकः अवरोद्धुमित्यर्थः । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल् ॥ १।७१।१६,१७ ॥
तस्या ऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।
स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १।७१।१८ ॥
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।
साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम् ॥ १।७१।१९ ॥
तस्य सुधन्वनः । अप्रदानात् सीताधनुषोरप्रदानात् ॥ १।७१।१८,१९ ॥
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।
ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥ १।७१।२० ॥
ते वध्वौ ददामि स्नुषात्वेन ददामि । वसिष्ठेन वरणात्ते ददामीत्युक्तम् ॥ १।७१।२० ॥
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥ १।७१।२१ ॥
वध्वावित्युक्तं व्यवस्थया दर्शयति–सीतामित्यर्द्धेन ॥ १।७१।२१ ॥
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।
द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥ १।७१।२२ ॥
उक्तमर्थं सनिमित्तमुपपादयतिवीर्येति । वीर्यशुल्कामित्येतदूर्मिलाया अपि विशेषणम् । यद्यपि रामेणैव धनुर्भङ्गः कृतः तथापि तादृशशक्तेर्लक्ष्मणे ऽपि दर्शनात्तद्वीर्यमेव ऊर्मिलाया अपि शुल्कमित्यर्थः । ऊर्मिला जनकस्यौरसपुत्री । त्रिः त्रिवारं त्रिभिः करणैर्वा ॥ १।७१।२२ ॥
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ १।७१।२३ ॥
गोदानं नाम, विवाहपूर्वसमयनियतं किञ्चित्कर्म । गावः केशाः दोःपादमूलरोमाणि च यत्र खण्यन्ते तदेतद्गोदानं नाम समावर्तनाख्यं कर्मेत्याहुः । वैवाहिकं पितृकार्यं नान्दीश्राद्धम् ॥ १।७१।२३ ॥
मघा ह्यद्य महाबाहो तृतीये दिवसे विभो ।
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु ।
रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम् ॥ १।७१।२४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥
तृतीये भाविनि फल्गुन्यां फल्गुन्याख्ये । उत्तरे उत्तरनक्षत्रे । वैवाहिकं विवाहप्रयोजनम् । “तदस्य प्रयोजनम्” इति ठक् । दानं गोभूतिलहिरण्यादिदानम् । सुखोदयं सुखोदर्कम्, वधूवरयोरतिशयावहमित्यर्थः । कार्यमिति सामान्योक्त्या मयापि कन्यार्थं क्रियत इति सूचितम् । कन्यादाने उत्तरफल्गुन्याः प्रशस्तत्वमुक्तं ज्यौतिषे “त्रीण्युत्तराण्यपि तथार्कमघानुराधामूलान्त्यसोमकमलोद्भवभान्युडूनि” इति ॥ १।७१।२४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ॥