०६८ दशरथागतिः

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।

त्रिरात्रमुषिता मार्गे ते ऽयोध्यां प्राविशन् पुरीम् ॥ १।६८।१ ॥

अथ जानकीविवाहाय दशरथाह्वानमष्टषष्टितमे–जनकेनेत्यादि । त्रिरात्रमिति । तिस्रो रात्रयस्त्रिरात्रम्, सङ्ख्यादित्वात् रात्र्यन्तादच्समासान्तः । अत्यन्तसंयोगे द्वितीया ॥ १।६८।१ ॥

ते राजवचनाद्दूता राजवेश्म प्रवेशिताः ।

ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥ १।६८।२ ॥

राजवचनात् जनको ऽस्मानिह प्रेषितवानिति स्वराजसङ्कीर्तनात् ॥ १।६८।२ ॥

बद्धाञ्जलिपुटाः सर्वे दूताविगतसाध्वसाः ।

राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम् ॥ १।६८।३ ॥

विगतसाध्वसाः दशरथसौजन्येन विज्ञापने निर्भयाः ॥ १।६८।३ ॥

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् ।

कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ १।६८।४ ॥

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा ।

जनकस्त्वां महाराजा पृच्छते सपुरःसरम् ॥ १।६८।५ ॥

मैथिल इत्यादि श्लोकद्वयमेकान्वयम् । मैथिलः मिथिलेश्वरः । पुरस्कृताग्निहोत्रसहितः साग्निहोत्रपुरस्कृतः । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । पुरस्सरन्तीति पुरस्सरा भृत्याः, तत्सहितम् । एवम्भूतं त्वां कुशलं क्षेमम् अव्ययं अनपायम्, योगमिति यावत् । आपृच्छते मद्वचनादिति शेषः । “आङिनुपृच्छयोरुपसङ्ख्यानम्” इति आत्मनेपदम् । अत्र द्वितीयजनकशब्दो विप्रकृष्टजनकशब्दा विस्मरणार्थः ॥ १।६८।४,५ ॥

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः ।

कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥ १।६८।६ ॥

कौशिकानुमते कौशिकानुमत्या ॥ १।६८।६ ॥

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा ।

राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥ १।६८।७ ॥

पूर्वमिति । वीर्यशुल्केति मम प्रतिज्ञा भवद्भिर्विदिता । राजानश्च निर्वीर्याः धनुरारोपणासमर्थाः, विमुखीकृता इत्यपि विदितमित्यन्वयः ॥ १।६८।७ ॥

सेयं मम सुता राजन् विश्वामित्रपुरस्सरैः ।

यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः ॥ १।६८।८ ॥

सेयमिति । सेयं उक्तरीत्या सर्वैः प्रार्थनीया । मम सुता त्वया सह सम्बन्धार्हस्य मे पुत्री । स्वपुरे तदागमनप्रसक्तिं दर्शयति विश्वामित्रपुरस्सरैरिति । यदृच्छया मद्भागधेयात् । पुत्रकैः पूजायां बहुवचनम् । जामातृत्वाध्यवसायात् महाराजकुमारत्वाद्वा पूजा । अल्पार्थेन कप्रत्ययेन बाल्यं द्योतितम् ॥ १।६८।८ ॥

तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना ।

रामेण हि महाराज महत्यां जनसंसदि ॥ १।६८।९ ॥

कथं निर्जितेत्यत्राह–तच्चेति । तच्च ऐश्वरमपि । नेदमैन्द्रजालिकमित्याह महात्मनेति । नेयं पक्षपातोक्तिरित्याह महत्यामिति ॥ १।६८।९ ॥

अस्मै देया मया सीता वीर्यशुल्का महात्मने ।

प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ १।६८।१० ॥

सोपाध्यायो महाराज पुरोहितपुरस्सरः ।

शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ १।६८।११ ॥

प्रतिज्ञां प्रतिज्ञातं सीताप्रदानम् ॥ १।६८।१०,११ ॥

प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि ।

पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥ १।६८।१२ ॥

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।

विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १।६८।१३ ॥

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।

वसिष्ठं वामदेवं च मन्त्रिणो ऽन्यांश्च सो ऽब्रवीत् ॥ १।६८।१४ ॥

प्रीतिं त्वद्दर्शनप्रीतिं सीताप्रदानप्रीतिं वा । पुत्रयोः पुत्री च पुत्रश्च तयोः । एकशेषः । प्रीतिं तद्विषयप्रीतिम्, तदुभयकल्याणदर्शनप्रीतिमितियावत् । मत्पुत्र्यां त्वत्पुत्रे चेत्यर्थः । यद्वा स्नुषा च पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोर्मिलाप्रदानं सिद्धं कृत्वोच्यते उभयोरिति ॥ १।६८।१२१४ ॥

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्द्धनः ।

लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १।६८।१५ ॥

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।

सम्प्रदानं सुतायास्तु राघवे कर्त्तुमिच्छति ॥ १।६८।१६ ॥

गुप्त इत्यादि । विदेहेषु विदेहानां निवासभूते देशे । “जनपदे लुप्” इति लुप् । असाविति बुद्धिसन्निकर्षेणोच्यते ॥ १।६८।१५,१६ ॥

यदि वो रोचते वृत्तं जनकस्य महात्मनः ।

पुरीं गच्छामहे शीघ्रं माभूत्कालस्य पर्ययः ॥ १।६८।१७ ॥

यदि वो रोचत इति । यौनसम्बन्धयोग्यमिति शेषः । पर्ययः अतिक्रमः ॥ १।६८।१७ ॥

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।

सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥ १।६८।१८ ॥

मन्त्रिण इति । श्वो यात्रेत्यब्रवीदिति तदर्थमुद्युङ्ध्वमिति भावः ॥ १।६८।१८ ॥

मन्त्रिणस्तां नरेन्द्रस्य रात्रिं परमसत्कृताः ।

ऊषुस्ते मुदिताः सर्वे गुणैः सर्वैस्समन्विताः ॥ १।६८।१९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥

मन्त्रिणः जनकमन्त्रिणः । गुणैः सत्कारातिशयैः । तां रात्रिं तस्यां रात्र्यामित्यर्थः ॥ १।६८।१९ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥