जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १।६७।१ ॥
अथ धनुर्भङ्गादिवृत्तान्तः सप्तषष्टितमे–जनकस्येत्यादि ॥ १।६७।१ ॥
ततः स राजा जनकः सामन्तान् व्यादिदेश ह ।
धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ १।६७।२ ॥
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् ।
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ १।६७।३ ॥
सामन्तान् कर्मसचिवान् ॥ १।६७।२,३ ॥
नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।
मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥ १।६७।४ ॥
नृणामिति । व्यायतानां दीर्घदेहानां नृणाम् । पञ्चाशत्शतानि पञ्चसहस्राणि । अष्टचक्रां अष्टचक्रवच्छकटारोपितामित्यर्थः । मञ्जूषां धनुष्पेटिकाम् । समूहुः आचकर्षुः । ते च पञ्चसहस्रसङ्ख्याविशिष्टा अपि कथञ्चन महता प्रयत्नेन समूहुरितियोजना । अन्ये तु अष्टचक्राम् अष्टाधश्चक्ररक्षाबन्धवतीम्, ऊहुः हस्तैरिति शेष इत्याहुः ॥ १।६७।४ ॥
तामादाय तु मञ्जूषामायसीं यत्र तद्धनुः ।
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥ १।६७।५ ॥
यत्र मञ्जूषायाम् ॥ १।६७।५ ॥
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः ।
मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥ १।६७।६ ॥
इदमिति । यद्धनुर्दर्शनीयमिच्छसि तदिदं धनुः, आनीतमिति शेषः ॥ १।६७।६ ॥
तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।
विश्वामित्रं महात्मानं तौ चोभौ राजलक्ष्मणौ ॥ १।६७।७ ॥
तौ चोभाविति । उद्दिश्येति शेषः ॥ १।६७।७ ॥
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ।
राजभिश्च महावीर्यैरशक्तैः पूरितुं पुरा ॥ १।६७।८ ॥
राजभिः पूर्वं सीतार्थिभिः । पूजितम् अहो महासारमैश्वरं धनुरिति श्लाघितमित्यर्थः ॥ १।६७।८ ॥
नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १।६७।९ ॥
नैतदित्यादि । एतद्धनुः सुरगणादयः प्रपूरणादिकं कर्तुं न शक्ता इत्यर्थसिद्धम् ॥ १।६७।९ ॥
क्व गतिर्मानुषाणां च धनुषो ऽस्य प्रपूरणे ।
आरोपणे समायोगे वेपने तोलने ऽपि वा ॥ १।६७।१० ॥
क्वेति । प्रपूरणे नम्नीकरणे । आरोपणे मौर्व्या संयोजने । समायोगे शरेण योजने । वेपने मौर्व्याकर्षणे । तोलने भारपरीक्षार्थं कम्पने च । मानुषाणां मध्ये क्व पुरुषे गतिः शक्तिः ॥ १।६७।१० ॥
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव ।
दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥ १।६७।११ ॥
विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ १।६७।१२ ॥
तथाप्यनयोर्दर्शयेत्याह–तदेतदिति ॥ १।६७।११,१२ ॥
महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १।६७।१३ ॥
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना ।
यत्नवांश्च भविष्यामि तोलने पूरणे ऽपि वा ॥ १।६७।१४ ॥
अपावृत्त्य अपगतावरणं कृत्वा ॥ १।६७।१३,१४ ॥
बाढमित्यब्रवीद्राजा मुनिश्च समभाषत ॥ १।६७।१५ ॥
बाढमित्यादि ॥ १।६७।१५ ॥
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।
पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥ १।६७।१६ ॥
लीलया अप्रयत्नेन ॥ १।६७।१६ ॥
आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।
तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥ १।६७।१७ ॥
पूरयामास आकर्णमाकृष्टवान् । ननु उक्तरीत्या महोन्नतस्य धनुषः कथं बालेनारोपणं सम्भवति ? अग्रस्पर्शाभावादिति चेत् उच्यते–आश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावनतं धनुः ॥ १।६७।१७ ॥
तस्य शब्दो महानासीन्निर्घातसमनिस्वनः ।
भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥ १।६७।१८ ॥
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।
वर्जयित्वा मुनविरं राजानं तौ च राघवौ ॥ १।६७।१९ ॥
निर्घातेति । तल्लक्षणमुक्तं ज्योतिषे– “वायुनाभिहतो वायुर्गगनात्पतति क्षितौ । यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत्” इति । पर्वतस्येव दीर्यतःपर्वते दीर्यति भिद्यति यथा भूमिकम्पः तथा भूमिकम्पश्चासीदित्यर्थः ॥ १।६७।१८,१९ ॥
प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः ।
उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥ १।६७।२० ॥
विगतसाध्वस इत्यनेन रामजामातृकताप्रापकं धनुरारोपणमपि न भवेदिति पूर्वं भीतो ऽभूदिति गम्यते ॥ १।६७।२० ॥
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः ।
अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥ १।६७।२१ ॥
अत्यद्भुतमिति । अचिन्त्यम् अन्यत्रादर्शनात्, न तर्कितं मनुष्येष्वसम्भावितत्वात् । अत्यद्भुतं बालेन कृतत्वात् । इदम् ईशधनुरारोपणम् ॥ १।६७।२१ ॥
जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।
सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ १।६७।२२ ॥
जनकानामिति । जनकानाम्– “अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥ " इति प्रोक्तनिरतिशयकीर्तिमतामपि। कुले “कुलं तारयते तात सप्त सप्त च सप्त च” इतिवत्। कीर्तिमित्येकवचनेनैकरूपत्वं व्यज्यते। आहरिष्यति सद्यः प्रापयिष्यति। सिद्धस्यादानं ह्याहरणम्। सुता सुतश्चेत्स्वार्जितामेव कीर्तिं प्रापयिष्यति। मे सुता स्वसम्बन्धप्रयुक्तातिशयः। सीता जन्मप्रयुक्तातिशयः। भर्तारमासाद्य भर्तृसम्बन्धकृतातिशयः। भर्त्तारं भरणदक्षम्। “वित्तमिच्छन्ति मातरः” इत्युक्तधनवन्तमित्यर्थः। रामं “रूपमिच्छति कन्यका” इत्युक्तरूपवन्तम्। दशरथात्मजम् “बान्धवाः कुलमिच्छन्ति” इत्युक्तरीत्या बन्धुकाङ्क्षितम्। एवं सर्वसम्मतवरप्राप्त्या कीर्तिमाहरिष्यतीति भावः ॥ १।६७।२२ ॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक ।
सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ १।६७।२३ ॥
सत्या जातेति शेषः । सीता वीर्यशुल्केति प्रतिज्ञा सत्या जाता । प्राणैः प्राणेभ्यः बहुमता सीता देयेति सीतापदमुभयत्रान्वेति ॥ १।६७।२३ ॥
भवतो ऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ १।६७।२४ ॥
भवतो ऽनुमते भवदनुमत्या, गच्छन्त्वित्यर्थः ॥ १।६७।२४ ॥
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ १।६७।२५ ॥
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।
प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ॥ १।६७।२६ ॥
प्रश्रितैः विनयान्वितैः । सर्वशः सर्वमत्रत्यवृत्तान्तमित्यर्थः ॥ १।६७।२५,२६ ॥
कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः ।
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ।
यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ १।६७।२७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
आभाष्य आहूय । कृतशासनान् दत्तकल्याणसन्देशपत्रिकानित्यर्थः । नृपं दशरथम् ॥ १।६७।२७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥