०६६ शिवधनुर्दर्शनम्

ततः प्रभाते विमले कृतकर्मा नराधिपः ।

विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १।६६।१ ॥

एवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा दुर्निरोधौ, जितकामक्रोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यञ्जितमिति प्रबन्धगतवस्तुना वस्तुध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवघायावतीर्णस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मीं तुल्यशीलवयोवृत्ताभिजनैव कन्या वरणीयेत्यमुमर्थविशेषं प्रवर्तयिष्यन् जनककुले ऽवतार्य तत्परिणयनाय प्रवृत्तस्तत्प्रीणनाय ताटकाताटकेयादिदुष्टवधं कौशिकाध्वरत्राणाहल्याशापमोक्षादिरूपं शिष्टपरिपालनं च विधाय साक्षात्सीतालाभोपायाय यतत इत्याह–ततः प्रभात इत्यादिना सर्गद्वयेन ॥ १।६६।१ ॥

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।

राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ १।६६।२ ॥

भगवन् स्वागतं ते ऽस्तु किं करोमि तवानघ ।

भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥ १।६६।३ ॥

एवमुक्तस्तु धर्मात्मा जनकेन महात्मना ।

प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ १।६६।४ ॥

तमिति । राघवौ चार्चयित्वेत्यन्वयः । कर्मणा अर्घ्यप्रदानादिना ॥ १।६६।२४ ॥

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।

द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ १।६६।५ ॥

द्रष्टुकामौ, भवत इति शेषः ॥ १।६६।५ ॥

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ ।

दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ १।६६।६ ॥

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ॥ १।६६।७ ॥

अस्य दर्शनादेव कृतकामौ भूत्वा प्रतियास्यत इत्यन्वयः ॥ १।६६।६,७ ॥

श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ १।६६।८ ॥

श्रूयतामिति । धनुः यदर्थं यत्प्रयोजनाय । इह अस्मद्गृहे, तिष्ठति । अस्य धनुषः तत्प्रयोजनं श्रूयतामित्यर्थः ॥ १।६६।८ ॥

देवरात इति ख्यातो निमेष्षष्ठो महीपतिः ।

न्यासो ऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥ १।६६।९ ॥

निमेः जनककूटस्थस्य । न्यासः निक्षेपरूपम् ॥ १।६६।९ ॥

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।

रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥ १।६६।१० ॥

उक्तमर्थं विवृणोति–दक्षेत्यादिना । आयम्य आकृष्य ॥ १।६६।१० ॥

यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः ।

वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥ १।६६।११ ॥

भागार्थिनः स्विष्टकृदादिभागार्थिनः । मे ममेत्यन्वयः । वराङ्गाणि शिरांसि । अत्र तस्मादित्युपस्कार्यम् । शातयामि छिनद्मि ॥ १।६६।११ ॥

ततो विमनसः सर्वे देवा वै मुनिपुङ्गव ।

प्रसादयन्ति देवेशं तेषां प्रीतो ऽभवद्भवः ॥ १।६६।१२ ॥

विमनसः दीनाः । भवः रुद्रः ॥ १।६६।१२ ॥

प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् ।

तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।

न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो ॥ १।६६।१३ ॥

ददौ धनुरिति शेषः । धनूरत्नं धनुःश्रेष्ठम् । पूर्वके देवराते । न्यासभूतं न्यस्तम्, देवैरिति शेषः ॥ १।६६।१३ ॥

अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मया ।

क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १।६६।१४ ॥

अथेति । अथ वृत्तान्तान्तरारम्भे । क्षेत्रं यागभूमिम् । मे कृषतः मयि कर्षतीत्यर्थः । चयनार्थमिति शेषः । ऽलाङ्गलं पवीरवमिति द्वाभ्यामृषभेण कृषतिऽ इत्यादिशास्त्रात् । लाङ्गलात् लाङ्गलपद्धतेरित्यर्थः । उत्थितेति, कन्येति शेषः । सा च क्षेत्रं शोधयता मया लब्धेति हेतोर्नाम्ना सीतेति विश्रुता आसीत् । सीता लाङ्गलपद्धतिः । सीतायां जातत्वात्सीतेत्युच्यते ॥ १।६६।१४ ॥

भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा ।

वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १।६६।१५ ॥

भूतला दुत्थितां तां तु वर्द्धमानां ममात्मजाम् ।

वरयामासुरागम्य राजानो मुनिपुङ्गव ॥ १।६६।१६ ॥

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।

वीर्यशुल्केति भगवन् न ददामि सुतामहम् ॥ १।६६।१७ ॥

व्यवर्द्धत मत्कृतपोषणादिति शेषः । अतो ममात्मजा । वीर्यं धनुरारोपणं तदेव शुल्कं मूल्यं यस्याः सा वीर्यशुल्का । इति हेतौ । वीर्यशुल्कत्वात्स्थापिता न कस्मैचिद्दत्तेति भावः ॥ १।६६।१५१७ ॥

ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव ।

मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ॥ १।६६।१८ ॥

वीर्यजिज्ञासवः धनुःसारजिज्ञासवः । अभवन्निति शेषः ॥ १।६६।१८ ॥

तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् ।

न शेकुर्ग्रहणे तस्य धनुषस्तोलने ऽपि वा ॥ १।६६।१९ ॥

तेषामिति । वीर्यं जिज्ञासमानानां तेषां कृते धनुः उपाहृतं आनीतम् । ग्रहणे धारणे । तोलने भारपरीक्षार्थं हस्तेन चालने ॥ १।६६।१९ ॥

तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ।

प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ॥ १।६६।२० ॥

तेषामिति । तन्निबोधेति तदित्यव्ययम् । तस्मात्कारणात् अनन्तरं यद्वृत्तं तन्निबोधेत्यर्थः ॥ १।६६।२० ॥

ततः परमकोपेन राजानो नृपपुङ्गव ।

न्यरुन्धन् मिथिलां सर्वे वीर्यसन्देहमागताः ॥ १।६६।२१ ॥

वीर्यसन्देहं वीर्यशैथिल्यम् ॥ १।६६।२१ ॥

आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः ।

रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् ॥ १।६६।२२ ॥

मिथिलावरोधे निमित्तान्तरमाह–आत्मानमिति । ते नृपाः । आत्मानं स्वात्मानम् । मया अवधूतं वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय, पीडयन् अपीडयन् ॥ १।६६।२२ ॥

ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।

साधनानि मुनिश्रेष्ठ ततो ऽहं भृशदुःखितः ॥ १।६६।२३ ॥

साधनानि दुर्गरक्षण साधनानि ॥ १।६६।२३ ॥

ततो देवगणान् सर्वान् तपसा ऽहं प्रसादयम् ।

ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ॥ १।६६।२४ ॥

प्रसादयं प्रासादयम् ॥ १।६६।२४ ॥

ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।

अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ १।६६।२५ ॥

तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।

रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ॥ १।६६।२६ ॥

यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।

सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ १।६६।२७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥

वीर्यसन्दिग्धाः सन्दिग्धवीर्याः । पापकर्मणः पापकर्माणः ॥ १।६६।२५२७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने

षट्षष्टितमः सर्गः ॥ ६६ ॥