सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ १।६४।१ ॥
अथ रम्भया तपोविघ्नश्चतुःषष्टितमे–सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतवैचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्यं
कर्त्तव्यमित्यन्वयः ॥ १।६४।१ ॥
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ।
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥ १।६४।२ ॥
व्रीडिता अशक्यार्थवचननिमित्तलज्जावती ॥ १।६४।२ ॥
अयं सुरपते घोरो विश्वामित्रो महामुनिः ।
क्रोधमुत्सृजते घोरं मयि देव न संशयः ॥ १।६४।३ ॥
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि ।
एवमुक्तस्तया राम रम्भया भीतया तदा ।
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥ १।६४।४ ॥
उत्सृजते उत्स्रक्ष्यति । ततः तस्मात् क्रोधोत्सर्जनात् । मे मम । भयं भीतिः । प्रसादं नियोगनिवृत्तिरूपम् ॥ १।६४।३,४ ॥
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ॥ १।६४।५ ॥
माभैषि रम्भे इत्यत्र आर्षो ह्रस्वः ॥ १।६४।५ ॥
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ॥ १।६४।६ ॥
कोकिल इति । अहं कोकिलो भूत्वा माधवे वसन्ते सति स्थास्यामि ॥ १।६४।६ ॥
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ॥ १।६४।७ ॥
रूपं सौन्दर्यम् । बहुगुणं बहवः शृङ्गारचेष्टारूपा गुणा यस्य तथोक्तम् । भेदयस्व चलचित्तं कारय ॥ १।६४।७ ॥
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥ १।६४।८ ॥
सेति । ललिता सुन्दरी ॥ १।६४।८ ॥
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।
सम्प्रहृष्टेन मनसा तत एनामुदैक्षत ॥ १।६४।९ ॥
वल्गु मनोहरम् । सम्प्रहृष्टेन कोकिलरवश्रवणजसन्तोषवता ॥ १।६४।९ ॥
अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।
दर्शनेन च रम्भाया मुनिः सन्देहमागतः ॥ १।६४।१० ॥
अथेति । तस्य कोकिलस्य । गीतेन रम्भाया इत्यनुषज्यते । सन्देहं सहस्राक्षप्रेरिता स्वयमागता
वेति ॥ १।६४।१० ॥
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गवः ।
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ १।६४।११ ॥
तत् रम्भाप्रलोभनम् । सहस्राक्षस्य कर्मेति विज्ञाय सङ्गीतादिप्रलोभनेन हेतुना निश्चित्य ॥ १।६४।११ ॥
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ १।६४।१२ ॥
शैलीशिलाप्रतिमा । दुर्भगे दुष्टप्रयत्ने “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः ॥ १।६४।१२ ॥
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः ।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥ १।६४।१३ ॥
स्वामिपरतन्त्रायाः किमस्याः शापेनेति पश्चात्तापेनानु गृह्णाति–ब्राह्मण इति । ब्राह्मणो ब्रह्मपुत्रो वसिष्ठ इत्याहुः ॥ १।६४।१३ ॥
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।
अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ॥ १।६४।१४ ॥
तस्य शापेन महता रम्भा शैली तदाभवत् ॥ १।६४।१५ ॥
सन्तापं शापनिमित्तपश्चात्तापम् ॥ १।६४।१४,१५ ॥
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥ १।६४।१६ ॥
वचः रम्भाशापरूपम् । स च इन्द्रश्च ॥ १।६४।१६ ॥
कोपेन सुमहातेजास्तपोपहरणे कृते ।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥ १।६४।१७ ॥
इन्द्रियैरजितैरिति । उक्तरीत्या कामक्रोधाहतत्वादिति भावः । इन्द्रियैः हेतुभिः आत्मनः मनसः । शान्तिं दुःखोपशमम् ॥ १।६४।१७ ॥
बभूवास्य मनश्चिन्ता तपोपहरणे कृते ॥ १।६४।१८ ॥
बभूवेति । मनश्चिन्ता सङ्कल्पः ॥ १।६४।१८ ॥
नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ॥ १।६४।१९ ॥
नैवेत्यादि । न च वक्ष्ये कथञ्चन मौनमेव करिष्यामीत्यर्थः । नोच्छ्वसिष्यामि केवलं कुम्भकं करिष्यामीत्यर्थः । उच्छ्वासेन खलु क्रोधादयो भविष्यन्तीति भावः ॥ १।६४।१९ ॥
अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।
तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् ।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ॥ १।६४।२० ॥
अहमिति । यावत्पर्यन्तं ब्राह्मण्यं प्राप्तं भविष्यति तावत्पर्यन्तम्, आत्मानं शरीरं शोषयिष्यामि ॥ १।६४।२० ॥
न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ॥ १।६४।२१ ॥
न हीति । मूर्तयः शरीरावयवाः । क्षयं न यास्यन्ति, तपःप्रभावादिति भावः ॥ १।६४।२१ ॥
एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ॥ १।६४।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥
एवमिति । वर्षसहस्रस्य वर्षसहस्रसम्बन्धिनीं वर्षसहस्रानुयायिनीम् । दीक्षाम् अनुच्छ्वासाभोजनसङ्कल्पम् उद्दिश्येति शेषः । अप्रतिमां निस्तुलाम् । प्रतिज्ञां एवमेव सर्वदा करिष्यामीत्यध्यवसायं चकार ॥ १।६४।२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥