विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।
अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः ॥ १।६१।१ ॥
अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपो ऽन्तरमाहैकषष्टितमे–विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोवनवासिनः ॥ १।६१।१ ॥
महान् विघ्नः प्रवृत्तो ऽयं दक्षिणामास्थितो दिशम् ।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥ १।६१।२ ॥
महानिति । यो ऽहं दक्षिणां दिशमास्थितः तस्य मे महान् विघ्नः प्रवृत्त इत्यर्थः ॥ १।६१।२ ॥
पश्चिमायां विशालायां पुष्करेषु महात्मनः
सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ॥ १।६१।३ ॥
पश्चिमायामिति । विशालायां विशालतपोवनवत्यां पश्चिमायां दिशि वर्तमानेषु पुष्करेषु पुष्करतीर्थेषु, तत्तीरेष्वित्यर्थः । महात्मनः हे महात्मानः ॥ १।६१।३ ॥
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ १।६१।४ ॥
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ १।६१।५ ॥
एवमित्यादि ॥ १।६१।४,५ ॥
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ १।६१।६ ॥
विप्रः पुरोहित इति यावत् ॥ १।६१।६ ॥
पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् ।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ १।६१।७ ॥
पशुरिति । दुर्नयात् अनवधानादित्यर्थः । हृतः केनापीति शेषः । प्रणष्टः अदृष्टः । “णश अदर्शने” इति धातोर्निष्ठा । दोषाः पशुनाशादयः ॥ १।६१।७ ॥
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ १।६१।८ ॥
प्रायश्चित्तमिति । प्रायश्चित्तम् एतत् पशुनाशनिमित्तकम् । नरं वा आनयस्व, गोभिः क्रीत्वा पशुप्रतिनिधित्वेनेति शेषः । यावत्प्रवर्तते प्रवर्तिष्यते । “यावत्पुरानिपातयोः” इति लट् । तावत् ततः पूर्वमेव । अश्वमेधे पशुविसर्जनानन्तरं कर्मकालस्य व्यवहितत्वादिति भावः । वाकारेण पशुं वान्विष्यानयस्वेति लभ्यते ॥ १।६१।८ ॥
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ(भः) ।
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रश्ाः ॥ १।६१।९ ॥
उपाध्यायेति । सहस्रशः सहस्रसङ्ख्याभिः । मूल्यभूताभिरिति शेषः ॥ १।६१।९ ॥
देशान् जनपदांस्तांस्तान् नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १।६१।१० ॥
देशानित्यादि । देशानितिजनपदादिसर्वविशेषणम् ॥ १।६१।१० ॥
स पुत्रसहितं तात सभार्यं रघुनन्दन ।
भृगुतुन्दे समासीनमृचीकं सन्ददर्श ह ॥ १।६१।११ ॥
स इति छेदः । भृगुतुन्दे भृगोर्गिरितटस्य तुन्दे अभ्यन्तरे, भृग्वाख्यऋषिवासस्थानप्रदेशे वा ॥ १।६१।११ ॥
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ॥ १।६१।१२ ॥
तमिति, सार्द्ध एकान्वयः । तं मुनिम् । इदं वक्ष्यमाणं वच उवाच । (ब्रवीति) ब्रुवतिर्द्विकर्मकः ॥ १।६१।१२ ॥
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ।
पशोरर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव ॥ १।६१।१३ ॥
गवामिति । पशोः अर्थे प्रयोजनाय, पशुप्रतिनिध्यर्थमित्यर्थः । यदि विक्रीणीषे विक्रीणीथाः । तदा कृतकृत्यो ऽस्मि कृतार्थः स्याम् ॥ १।६१।१३ ॥
सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् ।
दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ १।६१।१४ ॥
सर्व इति । परिसृताः सञ्चरिताः । याज्ञीयं यज्ञाय हितम् । “तस्मै हितम्” इति छः । वृद्धिरार्षी । इतः एतेषु सुतेषु । सार्वविभक्तिकस्तसिः ॥ १।६१।१४ ॥
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन ॥ १।६१।१५ ॥
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ १।६१।१६ ॥
एवमिति । कथञ्चन बहुमूल्येनापि । इतरयोरप्रतिषेधादनुमतिर्गम्यते । “अप्रतिषिद्धमनुमतं भवति” इति न्यायात् । शास्त्रेणापत्यदानविक्रययोर्निषेधेपि मूलावसादे धर्मायापत्यदानवद्यज्ञायापत्यविक्रयो न दोषायेति भावः ॥ १।६१।१५,१६ ॥
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ।
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप ।
तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ १।६१।१७ ॥
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातृ़णां च कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ १।६१।१८ ॥
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
शुनःशेषः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ १।६१।१९ ॥
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥ १।६१।२० ॥
गवां शतसहस्रेण शुनःशेपं नरेश्वरः ।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥ १।६१।२१ ॥
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
शुनःशेपं महातेजा जगामाशुमहायशाः ॥ १।६१।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
कनीयसमित्यकरान्तत्वमार्षम् ॥ १।६१।१७२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥