तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् ।
ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत ॥ १।६०।१ ॥
अथ सशरीरस्य त्रिशङ्कोः स्वर्गप्रापणं षष्टितमे–तप इत्यादि ॥ १।६०।१ ॥
अयमिक्ष्वाकु दायादस्त्रिशङ्कुरिति विश्रुतः ।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ।
तेनानेन शरीरेण देवलोकजिगीषया ॥ १।६०।२ ॥
अयमिति सार्द्धः । दायमत्तीति दायादः, पुत्रपौत्रादिः । पचाद्यच् । वंश इति यावत् । तेन पूर्वं क्षत्रियरूपेण । अनेन इदानीं चण्डालरूपेण शरीरेण । देवलोकजिगीषया स्वर्गं स्ववशीकर्तुमिच्छया । मां शरणं गतः ॥ १।६०।२ ॥
यथा ऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति ।
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ॥ १।६०।३ ॥
यथेति पञ्च ॥ १।६०।३ ॥
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ।
ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ॥ १।६०।४ ॥
ऊचुः अन्योन्यमिति शेषः ॥ १।६०।४ ॥
अयं कुशिकदायादो मुनिः परमकोपनः ।
यदाह वचनं सम्यगेतत्कार्यं न संशयः ॥ १।६०।५ ॥
अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ।
तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ॥ १।६०।६ ॥
सम्यक्कार्यमित्यन्वयः ॥ १।६०।५,६ ॥
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ।
तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ॥ १।६०।७ ॥
समधितिष्ठत स्वस्वार्त्विज्यमिति शेषः ॥ १।६०।७ ॥
एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा ।
याजकश्च महातेजा विश्वामित्रो ऽभवत् क्रतौ ॥ १।६०।८ ॥
एवमिति । तास्ताः क्रियाः स्वस्वार्त्विज्यकर्माणि । याजकः अध्वर्युः । स्रुवमुद्यम्येति वक्ष्यमाणत्वात् ॥ १।६०।८ ॥
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ।
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ॥ १।६०।९ ॥
ऋत्विज इति । मन्त्रवदिति क्रियाविशेषणम् । यथाकल्पं कल्पसूत्रमनतिक्रम्य । यथाविधि यथाशास्त्रम् ॥ १।६०।९ ॥
ततः कालेन महता विश्वामित्रो महातपाः ।
चकारावाहनं तत्र भागार्थं सर्वदेवताः ॥ १।६०।१० ॥
तत इति । महता कालेन द्विस्त्रिर्मन्त्रावृत्त्या सर्वदेवताः प्रतीति शेषः ॥ १।६०।१० ॥
नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ १।६०।११ ॥
नेत्यर्द्धम् । नाभ्यागमन् । अनधिकारिणा अन्यायेन च कृतमकृतमिति न्यायादिति भावः ॥ १।६०।११ ॥
तत्र क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ १।६०।१२ ॥
तत इति । स्रुवोद्यमनं कोपजचेष्टाविशेषः ॥ १।६०।१२ ॥
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।
एष त्वां सशरीरेण नयामि स्वर्गमोजसा ।
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप ॥ १।६०।१३ ॥
पश्येति सार्द्धः । त्वदभिमतयागस्त्वास्तामिति भावः । एष इत्यव्यवधाने । ओजसा तपोवीर्येण । दुष्प्रापम्, अन्यैरिति शेषः ॥ १।६०।१३ ॥
स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम् ।
राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ॥ १।६०।१४ ॥
स्वेति । स्वार्जितं सुष्ठ्वार्जितम् । स्वतेजसा स्वासाधारणप्रभावेन ॥ १।६०।१४ ॥
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ।
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ १।६०।१५ ॥
उक्तेति । मुनीनां पश्यतां मुनिषु पश्यत्सु सत्सु ॥ १।६०।१५ ॥
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ।
सह सर्वैः सुरगणैरिदं वचनमब्रवीत् ॥ १।६०।१६ ॥
देवेति चत्वारः ॥ १।६०।१६ ॥
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ।
गुरुशापहतो मूढ पत भूमिमवाक्छिराः ॥ १।६०।१७ ॥
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः ।
विक्रोशमानस्त्राहीति विश्वामित्रं तपोध्ानम् ॥ १।६०।१८ ॥
स्वर्गकृतालयः स्वर्गालयार्हः ॥ १।६०।१७,१८ ॥
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ।
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १।६०।१९ ॥
आहारयत् अकरोत् ॥ १।६०।१९ ॥
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ।
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ॥ १।६०।२० ॥
ऋषीति । सृजन् अभूदिति शेषः । असृजदित्यर्थः ॥ १।६०।२० ॥
नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ।
दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ॥ १।६०।२१ ॥
नक्षत्रेति । मुनिमध्ये स्थित एव दक्षिणां दिशमास्थाय तामधिकरणं कृत्वा । नक्षत्रमालां सप्तविंशतिनक्षत्रमालाम् । यथोत्तरतो ध्रुवो ऽचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु, तं परितो यथा सप्तर्षिण्डलं तद्वदत्रापि भवतु, तत्र यथा नक्षत्राणि तद्वदत्रापीत्यर्थः ॥ १।६०।२१ ॥
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ।
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ १।६०।२२ ॥
सृष्ट्वेति सार्द्धः । नक्षत्रवंशं क्षुद्रनक्षत्रगणम् । द्वितीयार्धान्ते इति सङ्कल्पेत्युपस्कार्यम् । अन्यमिन्द्रं करिष्यामि विद्यमानलोकस्यान्येन्द्रं करिष्यामि । अनिन्द्रको लोको वा स्यात् । इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अत एवाहुराचार्याः– “अन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये” इति । अस्मिन्नर्थे इन्द्रं नाशयिष्यामीत्यर्थः । स्यात् सो ऽनुचितः, सृष्ट्यन्तरोपक्रमविरोधात् । दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे इत्यनन्तरविरोधाच्च । अत एवायमर्थो भवितुमर्हति–मया सृज्यमानस्य स्वर्गस्यान्यमिन्द्रं करिष्यामि, अथवा मया सृज्यस्स्वर्गलोको ऽनिन्द्रको वास्तु । तत्र त्रिशङ्कुरेवेन्द्रो भवतु, तत्परिवारान् सृजेयमिति तादृशदेवान् स्रष्टुमुपचक्रम इत्यर्थः ॥ १।६०।२२ ॥
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः ।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ १।६०।२३ ॥
तत इति । परमसम्भ्रान्ताः स्वप्रतिसृष्टेरतिदुःसहत्वादिति भावः । सानुनयं ससान्त्वम् ॥ १।६०।२३ ॥
अयं राजा महाभाग गुरुशापपरिक्षतः ।
सशरीरो दिवं यातु नार्हत्येह तपोधन ॥ १।६०।२४ ॥
अनुनयमेवाह–अयमित्यादि । नार्हति अदुष्टत्रैर्णिकलभ्यत्वात्स्वर्गस्येति भावः ॥ १।६०।२४ ॥
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः ।
अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ १।६०।२५ ॥
तेषामिति चत्वारः ॥ १।६०।२५ ॥
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः ।
आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥ १।६०।२६ ॥
भद्रं व इति प्रतिसान्त्वम् ॥ १।६०।२६ ॥
स्वर्गो ऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ १।६०।२७ ॥
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ।
मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ १।६०।२८ ॥
स्वर्गो ऽस्तु अयं त्रिशङ्कुस्थितिदेश एवेति शेषः । मत्कृतानि मत्सृष्टानि । अत एव मामकानि लोकाः भूरादयः यावद्धरिष्यन्ति स्थास्यन्ति । सर्वशः सर्वप्रकारेण ध्रुवाणि भवन्तु । प्रार्थनायां लोट् । तत् पूर्वोक्तम् । अनुज्ञातुमङ्गीकर्तुम् ॥ १।६०।२७,२८ ॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ १।६०।२९ ॥
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ।
गगने तान्यनेकानि वैश्वानरपथाद्बहिः ॥ १।६०।३० ॥
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ।
अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ॥ १।६०।३१ ॥
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ।
कृतार्थं कीर्तिमन्तञ्च स्वर्गलोकगतं तथा ॥ १।६०।३२ ॥
एवमुक्ता इत्यादिसार्द्धाः पञ्च । सर्वशः सर्वाणि । वैश्वानरपथात् वैश्वानरः ज्योतिः तत्पथात् प्रसिद्धानादिज्योतिश्चक्रमार्गात् । तेषु त्वत्सृष्टेषु । जाज्वलन् अतिशयेन प्रकाशमानः । अवाक्छिराः गुर्वपचारफलप्रकटनायाधोमुखः । अमरसन्निभः तेजसा अमरतुल्यः । तिष्ठतु ध्रुव इवेति भावः । अनुयास्यन्ति स्वर्गनक्षत्राणि ध्रुवमिवेति भावः । स्वर्गलोकगतं यथा स्वर्गलोकगतमिव कृतार्थमित्यन्वयः ॥ १।६०।२९३२ ॥
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।
ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ १।६०।३३ ॥
बाढमित्यङ्गीकारद्योतकं वचनम् ॥ १।६०।३३ ॥
ततो देवा महात्मानो मुनयश्च तपोधनाः ।
जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ १।६०।३४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्टितमः सर्गः ॥ ६० ॥
यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमानप्रतिनिधिं कृत्वा यज्ञः समापितः । देवैर्भागश्च गृहीत इति गम्यते ॥ १।६०।३४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥