ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ १।५५।१ ॥
अथ पुनर्दिव्यास्त्रलाभपूर्वं विश्वामित्रेण वसिष्ठाश्रमसंरोधः पञ्चपञ्चाशे–ततस्तानित्यादि । हे कामधुक् योगतः योगमहिम्ना, तिरश्चो ऽपि ब्रह्मप्रसादाद्योगशक्तिरस्तीति ज्ञेयम् ॥ १।५५।१ ॥
तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः ।
ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः ॥ १।५५।२ ॥
तस्या इत्यादि चत्वारः । ऊधसः स्तनात् ॥ १।५५।२ ॥
योनिदेशाच्च यवनाःशकृद्देशाच्छकास्तथा ।
रोमकूपेषु च म्लेच्छा हारीतास्सकिरातकाः ॥ १।५५।३ ॥
तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनन्दन ॥ १।५५।४ ॥
हारीताः किरातजातिविशेषाः ॥ १।५५।३,४ ॥
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
विश्वामित्रसुतानां तु शतं नानाविधायुधम् ।
अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम् ॥ १।५५।५ ॥
हुङ्कारेणैव तान् सर्वान् ददाह भगवानृषिः ॥ १।५५।६ ॥
दृष्ट्वेत्यादिषट् । वसिष्ठमभ्यधावत् तस्य सर्वविनाशमूलत्वात् इति भावः । जपतां वरम् इति हुङ्कारेण निरासे हेतुः ॥ १।५५।५,६ ॥
ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ १।५५।७ ॥
दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः ।
सव्रीडश्चिन्तयाविष्टो विश्वामित्रो ऽभ्ावत्तदा ॥ १।५५।८ ॥
मुहूर्तेनेति मासेनानुवाको ऽधीत इतिवदुपसर्गे तृतीया ॥ १।५५।७,८ ॥
समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ १।५५।९ ॥
निर्वेगः युद्धप्रवृत्तिरहितः । उरग इव निःशक्तिरिति शेषः । उपरक्तः राहुग्रस्तः ॥ १।५५।९ ॥
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
हतदर्प्पो हतोत्साहो निर्वेदं समपद्यत ॥ १।५५।१० ॥
निर्वेदं दुःखम् ॥ १।५५।१० ॥
स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
पृथिवीं क्षत्रधर्म्मेण वनमेवान्वपद्यत ॥ १।५५।११ ॥
स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १।५५।१२ ॥
स इत्यादिचत्वारः । एकमवशिष्टमिति शेषः । राज्याय राज्यं कर्तुम् । पृथिवीं क्षत्रधर्म्येण पालयेत्यन्वयः ॥ १।५५।११,१२ ॥
केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।
दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १।५५।१३ ॥
किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् ।
वरदो ऽस्मि वरो यस्ते काङ्क्षितः सो ऽभिधीयताम् ॥ १।५५।१४ ॥
दर्शयामास आत्मानमिति शेषः ॥ १।५५।१३,१४ ॥
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १।५५।१५ ॥
एवमित्यादिचत्वारः ॥ १।५५।१५ ॥
यदि तुष्टो महादेव धनुर्वेदो ममानघ ।
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १।५५।१६ ॥
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ ।
तव प्रसादाद्भवतु देवदेव ममेप्सितम् ॥ १।५५।१७ ॥
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १।५५।१८ ॥
साङ्गोपाङ्गोपनिषद इत्यकारान्तत्वमार्षम् । अङ्गं सन्निपत्योपकारम् । उपाङ्गं आरादुपकारकम् । उपनिषत् रहस्यमन्त्रः । सरहस्यः उपदेशगम्यार्थसहितः । प्रतिभान्तु तानीति शेषः । ममेप्सितं अन्यदपीति शेषः ॥ १।५५।१६१८ ॥
प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।
दर्पेण महतायुक्तो दर्पपूर्णो ऽभवत्तदा ॥ १।५५।१९ ॥
विवर्द्धमानो वीर्येण समुद्र इव पर्वणि ।
हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ १।५५।२० ॥
प्राप्येत्यादिसप्त । दर्पपूर्ण इति क्षत्रियत्वादिदर्पयुक्तः । विशेषास्त्रलाभादिदानीं दर्पपूर्णो ऽभूदित्यर्थः ॥ १।५५।१९,२० ॥
ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः ।
यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ १।५५।२१ ॥
यैरस्त्रैः । अस्त्रतेजसा स्वतेजसा ॥ १।५५।२१ ॥
उदीर्यमाणमस्त्रं तद्विश्वामित्रस्यधीमतः ।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ १।५५।२२ ॥
उदीर्यमाणं प्रयुज्यमानम् ॥ १।५५।२२ ॥
वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥ १।५५।२३ ॥
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।
मुहूर्तमिव निःशब्दमासीदिरिणसन्निभम् ॥ १।५५।२४ ॥
भयात् भयदादस्त्रात् । नानादिग्भ्यः इति व्यत्ययेन द्वितीयार्थे चतुर्थी । नानादिग्भ्यः स्वस्वस्थानेभ्य इति वा । आश्रमपदं वनम् । शून्यं निस्तरुगुल्मम् । इरिणम् ऊषरम् ॥ १।५५।२३,२४ ॥
वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः ।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ १।५५।२५ ॥
वसिष्ठे रक्षके विद्यमाने कुतो विद्रवन्तीत्यत्राह–वदत इति । भावलक्षणे षष्ठी अनादरे वा । गाधेयं नाशयामि मा भैरिति वदतो वसिष्ठस्य वचनमनादृत्य विद्रवन्तीति पूर्वेणान्वयः ॥ १।५५।२५ ॥
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ १।५५।२६ ॥
एवमित्यादित्रयः । उक्त्वा स्वानिति शेषः ॥ १।५५।२६ ॥
आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।
दुराचारो ऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ १।५५।२७ ॥
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्यसत्वरः ।
विधूममिव कालाग्निं यमदण्डमिवापरम् ॥ १।५५।२८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
न भविष्यसि न शिष्यसीति यावत् । उद्यम्य तस्थाविति शेषः ॥ १।५५।२७,२८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥