कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः ।
तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत ॥ १।५४।१ ॥
नीयमाना तु शबला राम राज्ञा महात्मना ।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ १।५४।२ ॥
अथ बलात्कारकुपितवसिष्ठप्रहितकामधेनोर्बलसृष्टिश्चतुःपञ्चाशे–कामधेनुमित्यादिदशकम् ॥ १।५४।१,२ ॥
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
या ऽहं राजभटैर्दीना ह्रियेयं भृशदुःखिता ॥ १।५४।३ ॥
किं मया ऽपकृतं तस्य महर्षेर्भावितात्मनः ।
यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ १।५४।४ ॥
निर्द्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन ।
जगामानिलवेगेन पादमूलं महात्मनः ॥ १।५४।५ ॥
ह्रियेयम्, कर्मणि सम्प्रश्ने लिङ् । कथमपि ह्रियेयमित्यर्थः । भृशदुःखिता भृशं दुःखिता । वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥ १।५४।३५ ॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ १।५४।६ ॥
क्रोशन्ती आर्तस्वरं कुर्वन्ती ॥ १।५४।६ ॥
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत ।
यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ १।५४।७ ॥
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ १।५४।८ ॥
राजभृताः राजभटाः । त्वत्सकाशतः त्वत्समीपतः ॥ १।५४।७,८ ॥
न त्वां त्यजामि शबले नापिमे ऽपकृतं त्वया ।
एष त्वां नयते राजा बलान्मत्तो महाबलः ॥ १।५४।९ ॥
मत्तः मत्सकाशात् ॥ १।५४।९ ॥
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ १।५४।१० ॥
मह्यं मम । तर्हि तपोबलेन किमिति न दण्ड्यते ? तत्राह राजा त्वद्य विशेषत इति । राजा तपोबलेन न दण्ड्य इत्यर्थः ॥ १।५४।१० ॥
इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ १।५४।११ ॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १।५४।१२ ॥
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः ।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ १।५४।१३ ॥
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ।
विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥ १।५४।१४ ॥
नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम् ।
तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ १।५४।१५ ॥
इयमित्यादि पञ्च । सवाजिरथसङ्कुला वाजिसहितरथैस्सङ्कुला । तुभ्यं तव । त्वया त्वत्तः । त्वद्ब्रह्मबलेन सम्भृतां संवर्द्धितप्रभावाम् ॥ १।५४।१११५ ॥
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ।
सृजस्वेति तदोवाच बलं परबलारुजम् ॥ १।५४।१६ ॥
तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ॥ १।५४।१७ ॥
इत्युक्त इत्याद्यष्टौ । आरुजति हिनस्तीत्यारुजम् ॥ १।५४।१६,१७ ॥
तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप ।
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १।५४।१८ ॥
बलं सैन्यम् । हुम्भारवः पशूनां हुम्भाशब्दः । उत्सृष्टाः निर्मिताः पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः । पश्यत इत्यनादरे षष्ठी ॥ १।५४।१८ ॥
बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ।
पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि ॥ १।५४।१९ ॥
विस्फारितं विवृतम् ॥ १।५४।१९ ॥
विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा ।
भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ॥ १।५४।२० ॥
अर्दितान् हिंसितान् ॥ १।५४।२० ॥
तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः ।
प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः ॥ १।५४।२१ ॥
हेमकिञ्जल्कसन्निभैः हेमशब्दश्चम्पकपरः, तस्य कनकाह्वयत्वात् । तत्केसरतुल्यैरित्यर्थः ॥ १।५४।२१ ॥
दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ।
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ॥ १।५४।२२ ॥
ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।
तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ १।५४।२३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
पट्टिशः असिविशेषः ॥ १।५४।२२,२३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ ५४ ॥