०५३ शबला-याचना

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।

विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम् ॥ १।५३।१ ॥

कामध्ोनुप्रार्थनं त्रिपञ्चाशे–एवमुक्तेत्यादि । यस्य यस्य यथेप्सितं तथा कामान् काङ्क्षितान् विदधे ॥ १।५३।१ ॥

इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।

पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ १।५३।२ ॥

उक्तमेव प्रपञ्चयति–इक्षूनित्यादि । मधूनिति पुँल्लिङ्गत्वमार्षम् । मैरेयाः मद्यविशेषाः

मैरेयाख्यानित्यर्थः । “मैरेयमासवो धात्रीधातकीगुडवारिभिः” इति वैजयन्ती । अत्र कृतमिति शेषः । पानानि पानकादीनि, भक्ष्यान् अपूपविशेषान्, उच्चावचान् नानाप्रकारान् । “उच्चावचं नैकभेदम्” इत्यमरः । विदध इत्यनुषज्यते ॥ १।५३।२ ॥

उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।

मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ १।५३।३ ॥

उष्णेति । आसन्निति शेषः । मृष्टान्नानि इष्टान्नानि, पायसभेदा इति यावत् ॥ १।५३।३ ॥

नानास्वादुरसानां च षाडवानां तथैव च ।

भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ १।५३।४ ॥

नानेति । नानाविधाः स्वादवो रुच्या रसाः माधुर्यादयो येषां तेषाम् । षाडवाः षड्रसविकृताः भक्ष्यविशेषाः । शैषिको ऽण् । तेषां पूर्णानि तैः पूर्णानीत्यर्थः । “पूरणगुण–” इत्यादिना तृतीयार्थे षष्ठी । गौडानि गुडविकाराः । अत्राप्यासन्निति शेषः ॥ १।५३।४ ॥

सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।

विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥ १।५३।५ ॥

सर्वमिति । पूर्वमेव हृष्टपुष्टजनायुतं विश्वामित्रबलं सर्वं सुसन्तुष्टमासीदित्यन्वयः ॥ १।५३।५ ॥

विश्वामित्रो ऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत् ।

सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥ १।५३।६ ॥

विश्वामित्र इति । हृष्टः आदरेण, पुष्टः भोजनादिना ॥ १।५३।६ ॥

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।

युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ १।५३।७ ॥

सामात्य इति । अमात्याः कर्मणि सहायाः । मन्त्रिणः मन्त्रसहायाः ॥ १।५३।७ ॥

पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।

श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ १।५३।८ ॥

पूजित इति । पूजार्हेण अस्मदादिभिरिति शेषः । पूजितः बहूकृतः । सुसत्कृतः आतिथ्येन सत्कृतः ॥ १।५३।८ ॥

गवां शतसहस्रेण दीयतां शबला मम ॥ १।५३।९ ॥

गवामिति । शतसहस्रेण निष्क्रयभूतेन । अर्द्धम् ॥ १।५३।९ ॥

रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ।

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ॥ १।५३।१० ॥

रत्नं हीति । हि यस्मात् एतत् रत्नं स्वजातिश्रेष्ठम् । “रत्नं स्वजातिश्रेष्ठे ऽपि” इत्यमरः । यतः पार्थिवो रत्नहारी तस्माद्धर्मतः न्यायतः ममैषा मे देहीत्यन्वयः ॥ १।५३।१० ॥

एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ।

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥ १।५३।११ ॥

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।

राजन् दास्यामि शबलां राशिभी रजतस्य वा ॥ १।५३।१२ ॥

न परित्यागमर्हेयं मत्सकाशादरिन्दम ।

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १।५३।१३ ॥

एवमित्यादि षट् । परित्यागं विश्लेषम् प्राप्तुं नार्हा । आत्मवतः मनस्विनः । कीर्तिरिव । मह्यं मम । शबला शाश्वती नित्यसम्बन्धा ॥ १।५३।१११३ ॥

अस्यां हव्यं च कव्यं प्राणयात्रा तथैव च ।

आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ १।५३।१४ ॥

हव्यं देवार्थम् । कव्यं पित्रर्थम् । प्राणयात्रा प्राणाग्निहोत्रम् । अग्निहोत्रं सायं प्रातः कर्तव्यो होमविशेषः । बलिः भूतबलिः । होमः दर्शपूर्णमासादिः । एतत्सर्वम् अस्याम् आयत्तम् एतदधीनम् ॥ १।५३।१४ ॥

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ।

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ॥ १।५३।१५ ॥

स्वाहाकारः स्वाहेति मन्त्रः, वषट्कारो वषडिति मन्त्रः । विविधाः विद्याः वेदाद्याश्च अस्यामायत्ताः । एतत्पय आदिप्राशनेन चित्तशुद्धेः प्राणतृप्तेर्देहबलादेश्च साध्यत्वात्तदेकमूलत्वम् । अत्रार्थे न संशयः ॥ १।५३।१५ ॥

सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा ।

कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥ १।५३।१६ ॥

सत्येन वदामीत्यर्थः । कारणैरुक्तैरनुक्तैश्च ॥ १।५३।१६ ॥

वसिष्ठेनैवमुक्तस्तु विश्वामित्रो ऽब्रवीत्ततः ।

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १।५३।१७ ॥

वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ॥ १।५३।१७ ॥

हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १।५३।१८ ॥

हैरण्येति । हैरण्यानि हिरण्मयानि कक्ष्या ग्रैवेयाणियेषां ते । कक्ष्या मध्यबन्धनार्था रज्जुः । “कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने” इत्यमरः । ग्रैवेयाणि ग्रीवाबन्धनरज्जवः । “ग्रीवाभ्यो ऽण् च” इति चाड्ढञ् । सहस्राणीत्यस्य पुँल्लिङ्गविशेषणमार्षम् ॥ १।५३।१८ ॥

हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम् ।

ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १।५३।१९ ॥

हैरण्यानामिति । चतुर्युजां चतुर्भिरश्वैर्युक्तानाम् । गमकत्वात्समासः । सङ्ख्यानियमपरत्वान्नपुनरुक्तिः । किङ्किणीकैर्विभूषितान् ॥ १।५३।१९ ॥

हयानां देशजातानां कुलजानां महौजसाम् ।

सहस्रमेकं दश च ददामि तव सुव्रत ॥ १।५३।२० ॥

हयानामिति । देशाः काम्भोजबाह्लीकादयः । कुलजानां गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्” इति पुराणवचनात् ॥ १।५३।२० ॥

नानावर्णविभक्तानां वयःस्थानां तथैव च ।

ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ १।५३।२१ ॥

नानेति । नानावर्णैः विभक्तानामन्योन्यविलक्षणानाम् ॥ १।५३।२१ ॥

यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ।

तावद्ददामि तत्सर्वं शबला दीयतां मम ॥ १।५३।२२ ॥

यावदिति । यावत्प्रमाणमिच्छसि तावत्प्रमाणं सर्वं ददामि ॥ १।५३।२२ ॥

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।

न दास्यामीति शबलां प्राह राजन् कथञ्चन ॥ १।५३।२३ ॥

एवमिति । हे राजन् शबलां न दास्यामीत्यन्वयः ॥ १।५३।२३ ॥

एतदेव हि मे रत्नमेतदेव हि मे धनम् ।

एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ १।५३।२४ ॥

दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।

एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥ १।५३।२५ ॥

अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः ।

बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ १।५३।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥

एतदित्यादित्रयम् । अदोमूलाः एतन्मूलाः । प्रलापेन, भवत इति शेषः । कामान् दोग्धुं शीलमस्त्यस्या इति कामदोहिनीम् । “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः ॥ १।५३।२४२६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥