स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ १।५२।१ ॥
विश्वामित्रसम्मानं द्विपञ्चाशे–स दृष्ट्वेत्यादि । वसिष्ठं दृष्ट्वा, प्रणतः प्रणनाम ॥ १।५२।१ ॥
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ १।५२।२ ॥
स्वागतमिति । उक्तः ऊचे । व्यादिदेश दापयामासेत्यर्थः ॥ १।५२।२ ॥
उपविष्टाय च तदा विश्वामित्राय धीमते ।
यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ १।५२।३ ॥
प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः ।
तपोग्निहोत्रशिष्येषु कुशलं पर्य्यपृच्छत ॥ १।५२।४ ॥
विश्वामित्रो महातेजा वनस्पतिगणे तथा ।
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ॥ १।५२।५ ॥
सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ १।५२।६ ॥
उपविष्टायेत्यादिचत्वारः । फलमूलमिति “जातिरप्राणिनाम्” इत्येकवत्त्वम् । राजसत्तमं प्रतीति शेषः ॥ १।५२।३६ ॥
कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् ।
प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥ १।५२।७ ॥
कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने ।
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥ १।५२।८ ॥
कच्चिद्बलेषु कोशेषु मित्रेषु च परन्तप ।
कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ॥ १।५२।९ ॥
कच्चिदित्यादित्रयः । कच्चिदिति कामप्रवेदने ऽव्ययम् “कच्चित्कामप्रवेदने” इत्यमरः । तव कुशलं ममेप्सितमित्यमुमर्थं द्योतयति । राजवृत्तेन चतुर्विधेने उपलक्षितः । यथाहुः– “न्यायेनार्जनमर्थस्य वर्द्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ " इति। सम्भृताः पोषिताः, तिष्ठन्तीति शेषः। बलेषु चतुरङ्गबलेषु। कोशेषु अर्थसमूहेषु। पुत्रपौत्र इति गवाश्वप्रभृतित्वादेकवत्त्वम् ॥
१।५२।७९ ॥
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥ १।५२।१० ॥
सर्वत्रेति । सर्वत्र वसिष्ठपृष्टसर्वविषय इत्यर्थः । वसिष्ठं धनिकम् ॥ १।५२।१० ॥
कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाश्शुभाः ।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ १।५२।११ ॥
कृत्वेति । ताः कथाः अन्योन्यकुशलप्रश्नोत्तररूपाः । प्रीयेतां अप्रीणयताम् ॥ १।५२।११ ॥
ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन ।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ १।५२।१२ ॥
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।
तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे ॥ १।५२।१३ ॥
सत्क्रियां हि भवानेतां प्रतीच्छतु मयोद्यताम् ।
राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १।५२।१४ ॥
तत इत्यादित्रयः । प्रहसन्निव प्रसन्नमुख इत्यर्थः । सम्प्रतीच्छ प्रतिगृहाण । उद्यतां चिकीर्षिताम् ॥ १।५२।१२१४ ॥
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः ।
कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया ॥ १।५२।१५ ॥
फलमूलेन भगवन् विद्यते यत्तवाश्रमे ।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १।५२।१६ ॥
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः ।
गमिष्यामि नमस्ते ऽस्तु मैत्रेणेक्षस्व चक्षुषा ॥ १।५२।१७ ॥
एवमिति त्रयः । प्रियवाक्येन आतिथ्यं करिष्यामीत्यनेन वचनेन । आतिथ्यं कृतं तवाश्रमे यद्विद्यते तेन फलमूलेन सुपूजितः हत्यन्वयः । पूजार्हेण त्वयेति शेषः । मैत्रेण स्नेहयुक्तेन । मत्वर्थीयाजन्तः ॥ १।५२।१५१७ ॥
एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।
न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥ १।५२।१८ ॥
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
यथाप्रियं भगवतस्तथास्तु मुनिसत्तम ॥ १।५२।१९ ॥
एवं ब्रुवन्तमिति द्वौ । पुनः न्यमन्त्रयत भोजनार्थं प्रार्थनमकरोत् । पुनःपुनरित्यत्र न्यमन्त्रयतेत्यनुषज्यते । बहुशः प्रत्युत्तरे ऽपि पुनःपुनर्न्यमन्त्रयतेत्यर्थः । गाधेयः गाधिपुत्रः । बाढमित्यस्यैव विवरणं यथेति ॥ १।५२।१८,१९ ॥
एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥ १।५२।२० ॥
एवमिति । कल्माषीं चित्रवर्णाम्, शबलामिति यावत् । “चित्रं किर्मीरकल्माष–” इत्यमरः ॥ १।५२।२० ॥
एह्येहि शबले क्षिप्रं शृणु चापि वाचो मम ।
सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्यहम् ।
भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥ १।५२।२१ ॥
एहीति सार्द्धश्लोकः । सबलस्यास्य राजर्षेः सत्कारं कर्त्तुं व्यवसितो ऽस्मि । संविधत्स्व तदुपयोगिवस्तुजातं सम्पादय ॥ १।५२।२१ ॥
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् ।
तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम ॥ १।५२।२२ ॥
यस्येति । षड्रसेषु यद्यस्य यस्य अभिपूजितम् अभिमतम् । तसर्त्वं यथाकामं मम कृते अभिवर्षेत्यन्वयः । “अर्थे कृते च तादर्थ्ये निपातद्वयमव्ययम्” इति निघण्टुः ॥ १।५२।२२ ॥
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ १।५२।२३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
रसेनेति । रसेन रसायनभेदेन, अन्नेन भक्ष्येन शष्कुलीलाजादिना, पानेन पेयेन पानकरसादिना, लेह्यचोष्येण लेह्येन जिह्वास्वाद्येन क्षौद्रादिना, चोष्येण अधरपुटग्राह्येण दध्यादिना च समन्वितम् । “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भावः । अन्नानां शाल्यन्नादीनाम् । निचयं राशिम् । अनेन भक्ष्यभोज्यलेह्यचोष्यपेयखाद्यरूपषड्विधाभ्यवहारा दर्शिताः ॥ १।५२।२३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥