०४६ दितिकथा

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।

मारीचं काश्यपं राम भर्त्तारमिदमब्रवीत् ॥ १।४६।१ ॥

विष्णुपक्षविरोधे महानपि यत्नो विफलः स्यादित्याह षट्चत्वारिंशे–हतेष्वित्यादि । मारीचं मरीचिपुत्रम् ॥ १।४६।१ ॥

हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः ।

शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥ १।४६।२ ॥

हतेति । तपोर्जितं तपसा ऊर्जितं दृढम् । आर्षः सन्धिः ॥ १।४६।२ ॥

साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।

ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ १।४६।३ ॥

साहमिति । गर्भं पुत्रम् । ईश्वरं त्रैलोक्यनियन्तारम् । ईदृशमितिपाठे ऽप्ययमर्थो विवक्षितः । अनुज्ञातुम्, तप इति शेषः । भर्त्रनुज्ञां विना तपसि स्त्रिया अस्वातन्त्र्यादिति भावः ॥ १।४६।३ ॥

तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।

प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ १।४६।४ ॥

तस्या इति ॥ १।४६।४ ॥

एवं भवतु भद्रं ते शुचिर्भव तपोधने ।

जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ १।४६।५ ॥

एवमिति । शुचिर्भव, यावत् पुत्रोत्पत्तीति शेषः ॥ १।४६।५ ॥

पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।

पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ १।४६।६ ॥

पूर्ण इति । मत्तः मदनुग्रहादित्यर्थः ॥ १।४६।६ ॥

एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।

समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ १।४६।७ ॥

एवमिति । ममार्जेत्याश्वासनप्रकारः । ततः मार्जनानन्तरम् । उदरं समालभ्य स्वस्ति पुत्रोत्पत्तिरूपं शुभं भवत्वित्युक्त्वानुगृह्य स काश्यपस्तपसे ययौ ॥ १।४६।७ ॥

गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ।

कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ १।४६।८ ॥

गत इति । कुशप्लवनं विशालायाः पूर्वस्थानम् ॥ १।४६।८ ॥

तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।

सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ १।४६।९ ॥

तप इति । गुणसम्पदा विनयादिसमृद्ध्या ॥ १।४६।९ ॥

अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।

न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ १।४६।१० ॥

अग्निमिति । परिचर्याप्रकारः ॥ १।४६।१० ॥

गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।

शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ १।४६।११ ॥

गात्रेति । मातृत्वात् गात्रसंवहनानि, श्रमापनयनैः व्यजनवीजनादिभिरिति शेषः ॥ १।४६।११ ॥

अथ वर्षसहस्रे तु दशोने रघुनन्दन ।

दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १।४६।१२ ॥

अथेति । दशोने दशवर्षोने ॥ १।४६।१२ ॥

याचितेन सुरश्रेष्ठ पित्रा तव महात्मना ।

वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १।४६।१३ ॥

याचितेनेति । शुश्रूषाकृतप्रीत्यतिशयाद्वैरं विस्मृतवतीति भावः ॥ १।४६।१३ ॥

तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ।

अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ १।४६।१४ ॥

तप इति । ततः दशवर्षान्ते ॥ १।४६।१४ ॥

तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।

त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १।४६।१५ ॥

तमिति । समाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्यामीत्यर्थः । त्रैलोक्यविजयं त्वद्भ्रातृकृतमिति शेषः । अमोघभर्त्रनुग्रहेणाप्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती ॥ १।४६।१५ ॥

एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे ।

निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ १।४६।१६ ॥

एवमिति । मध्यं गगनमध्यम् । शीर्षतः शिरसि पादौ कृत्वा, स्थितेति शेषः । मध्याह्नशयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन नम्रं शिरः पादयोः संसक्तमभवदित्यर्थः ॥ १।४६।१६ ॥

दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्द्धजाम् ।

शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ १।४६।१७ ॥

दृष्ट्वेति । पादतः कृतमूर्द्धजां पादौ कृत्वाथ शीर्षत इत्यस्य विवरणम्, अत एव अशुचिं तां

दृष्ट्वा शिरःस्थाने कृतौ पादौ शिरःस्पृष्टौ पादाविति मुमोद, तेन जहास च । यद्वा प्राप्ते मध्यं दिवाकर इत्यनेन दिवास्वापरूपाशौचं दर्शितम् । शीर्षतः शिरःस्थाने, शिरःस्थान इत्यनुवादात् । पादतः पादस्थाने । शयनपरिग्रहाभावे ऽपि कृष्णाजिनाद्यास्तरणे पादस्थाने शिरः शिरःस्थाने च पादौ कृत्वा सुप्तवतीत्यर्थः । पादोपधाने शीर्षं शीर्षोपधाने पादौ च कृत्वेत्यर्थः । रन्ध्रान्वेषणफलं जातमिति मोदः, वृथागर्वितेयमिति हासः ॥ १।४६।१७ ॥

तस्याः शरीरविवरं विवेश च पुरन्दरः ।

गर्भं च सप्तधा राम बिभेद परमात्मवान् ॥ १।४६।१८ ॥

तस्या इति । शरीरविवरं योनिविवरम् । आत्मवान् धैर्यवान् ॥ १।४६।१८ ॥

भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।

रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥ १।४६।१९ ॥

भिद्यमान इति । शतपर्वणा शतकोटिना ॥ १।४६।१९ ॥

मा रुदो मा रुदश्चेति गर्भं शक्रो ऽभ्यभाषत ।

बिभेद च महातेजा रुदन्तमपि वासवः ॥ १।४६।२० ॥

मा रुद इति । “रुदिर् अश्रुविमोचने” इत्यस्माल्लुङ् । माङ्योगादडभावः ॥ १।४६।२० ॥

न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।

निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥ १।४६।२१ ॥

न हन्तव्य इति । न हन्तव्यः । भेदने कृते ऽपि प्राणवियोजनं मा कुर्वित्यर्थः ॥ १।४६।२१ ॥

प्राञ्जलिर्वज्रसहितो दितिं शक्रो ऽभ्यभाषत ।

अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा ॥ १।४६।२२ ॥

प्राञ्जलिरिति ॥ १।४६।२२ ॥

तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।

अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ १।४६।२३ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

तदिति । अन्तरमवकाशम् । क्षन्तुमर्हसि ऽस्वहिंसापरां गामपि हिंस्यात्ऽ इतिन्यायेन युक्तत्वादिति भावः ॥ १।४६।२३ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥