देवदेवे गते तस्मिन् सो ऽङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ १।४३।१ ॥
अथ गङ्गाप्लवनेन सागराणां स्वर्गगतिस्त्रिचत्वारिंशे–देवदेव इत्यादि । उपासत उपास्त । शिवमिति शेषः ॥ १।४३।१ ॥
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ १।४३।२ ॥
अथेति । उमापतिरित्यनेनोमया सहागत इत्युच्यते ॥ १।४३।२ ॥
प्रीतस्ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ १।४३।३ ॥
प्रीत इति । प्रियं करिष्यामीत्येतद्विवृणोति–शिरसेति ॥ १।४३।३ ॥
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा सा ऽतिमहद्रूपं कृत्वा वेगं च दुस्सहम् ।
आकाशादपतद्राम शिवे शिवशिरस्युत ॥ १।४३।४ ॥
तत इति, अर्द्धत्रयमेकान्वयम् । हैमवती हिमवत्कन्या । शिवे शुद्धे । उतेति प्रसिद्धौ ॥ १।४३।४ ॥
अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा ।
विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥ १।४३।५ ॥
महारूपदुःसहवेगकरणे निमित्तमाह–अचिन्तयदिति । दुर्द्धरा धर्त्तुमशक्या । गृह्य गृहीत्वा ॥
१।४३।५ ॥
तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ।
तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ॥ १।४३।६ ॥
तस्या इति । वलेपनं गर्वम् । वष्टि भागुरिः–“इत्यल्लोपः । तिरोभावयितुं तिरोहितां कर्त्तुम् ॥ १।४३।६ ॥
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि ।
हिमवत्प्रतिमे राम जटामण्डलगह्वरे ॥ १।४३।७ ॥
सेति । जटामण्डलमेव गह्वरं गुहा यस्मिंस्तत्तथा ॥ १।४३।७ ॥
सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ।
नैव निर्गमनं लेभे जटामण्डलमोहिता ॥ १।४३।८ ॥
सेति । निर्गमनं जटामण्डलान्निस्सरणमात्रमपि जटामण्डले मोहिता सञ्जातमोहा ॥ १।४३।८ ॥
तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून् ।
तामपश्यन् पुनस्तत्र तपः परममास्थितः ॥ १।४३।९ ॥
तत्रेति । अबम्भ्रमत् पुनःपुनरभ्रमत् । यङ्लुगन्ताल्लङ् । आस्थितः राजेति शेषः ॥ १।४३।९ ॥
अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन ।
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ १।४३।१० ॥
अनेनेति । अनेन तपसा तोषितश्चासीत् विससर्ज च । बिन्दुसरो नाम हिमवति ब्रह्मनिर्मितस्सरोविशेषः ॥ १।४३।१० ॥
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥ १।४३।११ ॥
तस्यामित्यर्द्धम् । स्रोतांसि प्रवाहाः ॥ १।४३।११ ॥
ह्लादिनी पावनी चैव नलिनी च तथा ऽपरा ।
तिस्रः प्राचीं दिशं जग्मुर्गङ्गाश्शिवजलाश्शुभाः ॥ १।४३।१२ ॥
स्रोतसां नामनिर्देशपूर्वकं गतिभेदमाह–ह्लादिनीति । शुभाः शोभमानाः ॥ १।४३।१२ ॥
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ।
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥ १।४३।१३ ॥
सुचक्षुरिति ॥ महानदीति सर्वविशेषणम् ॥ १।४३।१३ ॥
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १।४३।१४ ॥
सप्तमीत्यर्द्धम् । तासां मध्ये ॥ १।४३।१४ ॥
भगीरथो ऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १।४३।१५ ॥
भगीरथो ऽपीति । स्यन्दनं रथम् । अनुव्रजत् अन्वव्रजत् । अत्र स्वर्गाकाशभूमिगमनात् त्रिपथगात्वमित्येके, दिक्त्रयगमनादित्यपरे ॥ १।४३।१५ ॥
गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता ।
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ १।४३।१६ ॥
एवं ऽत्रीन् पथः केन हेतुनाऽ इत्यस्योत्तरमभिधाय ऽकर्मभिः कैः समन्विताऽ इत्यस्य चरितभेदप्रश्नस्योत्तरमाह–गगनादिति । तीव्रशब्दे हेतुरयम् ॥ १।४३।१६ ॥
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा ।
पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ॥ १।४३।१७ ॥
मत्स्येति । शिंशुमारः अम्बुकरी । “शिंशुमारस्त्वम्बुकरी” इति वैजयन्ती । अन्यैः जलजन्तविशेषैः ॥ १।४३।१७ ॥
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा ।
व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ॥ १।४३।१८ ॥
तत इति । गगनात् रुद्रजटागगनात् । गां भूमिम् ॥ १।४३।१८ ॥
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ।
पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ॥ १।४३।१९ ॥
विमानैरिति । नगराकारैः नगरवद्विपुलैः । पारिप्लवगतैः पारिप्लवं सम्भ्रमं गतैरिति विमानादिविशेषणम् । तत्र गङ्गापतनप्रदेशे । विष्ठिताः विशेषेण स्थिताः ॥ १।४३।१९ ॥
तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।
दिदृक्षवो देवगणाः समीयुरमितौजसः ॥ १।४३।२० ॥
तदिति । लोके भूलोके । अमितौजस इत्यनेन प्रधानदेवा उच्यन्ते ॥ १।४३।२० ॥
सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ।
शतादित्यमिवाभाति गगनं गततोयदम् ॥ १।४३।२१ ॥
सम्पतद्भिरिति । सुरगणैः अमिततेजोभिरिति सिद्धम् । आभाति अभात् ॥ १।४३।२१ ॥
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ।
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ १।४३।२२ ॥
शिंशुमारेति । आकाशं चञ्चलैः शिंशुमारादिभिः विद्युद्भिरिव विक्षिप्तं व्याप्तम् अभवत् ॥ १।४३।२२ ॥
पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ॥ १।४३।२३ ॥
पाण्डरैरिति । वेगवशेन सहस्रधा कीर्यमाणैः सलिलोत्पीडैः फेनैः हंससम्प्लवैः हंससङ्कुलैः शारदाभ्रैरिव गगनमाकीर्णमित्यन्वयः ॥ १।४३।२३ ॥
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ।
विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ॥ १।४३।२४ ॥
क्वचिदिति । अत्र गङ्गेत्यनुषज्यते । द्रुततरमित्यादि क्रियाविशेषणम् । आयतम् ऋजु, विनतं निम्नेन सङ्कुचितम् । उद्भूतं पाषाणस्खलनादिना ऊर्ध्वमुखम् । सर्वत्र व्यत्ययेन भूते लट् ॥ १।४३।२४ ॥
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।
मुहुरूर्द्ध्वमुखं गत्वा पपात वसुधातलम् ॥ १।४३।२५ ॥
सलिलेनेति । अभ्याहतं वातव्यावर्तितम्, तरङ्गसलिलेनाभिमुखमाहतमित्यर्थः ॥ १।४३।२५ ॥
तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ १।४३।२६ ॥
तदिति । शङ्करशिरसि भ्रष्टं पतितमपि ततः भूमितले पतितमपि निर्मलम्, गतं कल्मषं येन तद्गतकल्मषम्, पापापहमित्यर्थः ॥ १।४३।२६ ॥
तत्र देवर्षिगन्धर्वा वसुधातलवासिनः ।
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ १।४३।२७ ॥
तत्रेति । पवित्रं पावनम्, तत्र ज्ञापकहेतुमाह भवाङ्गपतितमिति । भवेन रुद्रेण शिरसा धृतत्वात् पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः । पवित्रमिति सामान्योक्त्या भवस्यान्येषां च पवित्रमित्युक्तम्, अत एव “हरस्य गात्रसंस्पर्शात् पवित्रत्वमुपागता” इत्यत्रापि हरस्य शुद्धिप्रदत्वमुपागतेत्यर्थः । अन्ये ऽप्यृषय ऊचुः श्रीमद्भागवते– “यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः शिवो ऽभूत्” इति । भारते– “तदम्बु पतितं दृष्ट्वा दधार शिरसा हरः । पावनार्थं जटामध्ये योग्यो ऽस्मीत्यवधारणात् ॥ " इति। अत्राप्ययोध्याकाण्डे वक्ष्यति– “विष्णुपादोद्भवां दिव्याम्” इति। गङ्गाया विष्णुपादोद्भवत्वेन पवित्रत्वरूपं दिव्यत्वं भवाङ्गात्पतितमिति वार्थः। “द्वितीयाश्रितातीतपतित–” इति द्वितीयासमासविधानात् पञ्चमीसमासानुपपत्तेश्च भवेन धृतत्वात्। अस्माभिरपि धार्यमिति पस्पृशुरित्येवार्थः। यद्वा भवाङ्गपतितत्वात् पवित्रम्, न तु पूर्ववदतिपवित्रम्, अत एव पस्पृशुः, न तु सस्नुः। यद्वा यद्यपि भवाङ्गात् पतितं तथापि विष्णुपादोद्भूतत्वात्पवित्रमिति वा “नदी वेगेन शुद्ध्यति” इति न्यायात्। भवसम्पर्कविगमे पवित्रमिति वा पस्पृशुः ॥ १।४३।२७ ॥
शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ १।४३।२८ ॥
शापादिति । शापाद्धेतोः । ॥ १।४३।२८ ॥
धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता ।
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे ॥ १।४३।२९ ॥
धूतेति । आकाशमाविश्य, आकाशमार्गेणेत्यर्थः ॥ १।४३।२९ ॥
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।
कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ १।४३।३० ॥
मुमुद इति । मुदितः मुमुदे, पुनःपुनर्जहर्षेत्यर्थः ॥ १।४३।३० ॥
भगीरथो ऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
प्रायादग्रे महातेजास्तं गङ्गा पृष्टतो ऽन्वगात् ॥ १।४३।३१ ॥
भगीरथ इति । स्पष्टम् ॥ १।४३।३१ ॥
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १।४३।३२ ॥
सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् ।
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ॥ १।४३।३३ ॥
देवा इति श्लोकद्वयम् । भगीरथरथानुगां गङ्गामन्वगमन् ॥ १।४३।३२,३३ ॥
यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ १।४३।३४ ॥
यत इति । यतः यत्र । ततः तत्र ॥ १।४३।३४ ॥
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।
गङ्गा सम्प्लावयामास यज्ञवाटं महात्मनः ॥ १।४३।३५ ॥
ततो हीति । अद्भुतकर्मण इति वक्ष्यमाणगङ्गापानाभिप्रायम् । यज्ञवाटं यज्ञक्षेत्रम् ॥ १।४३।३५ ॥
तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ।
अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ॥ १।४३।३६ ॥
तस्या इति । वलेपनं गर्वम् । परमाद्भुतमिति क्रियाविशेषणम् ॥ १।४३।३६ ॥
ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः ।
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ।
गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥ १।४३।३७ ॥
तत इति सार्द्धश्लोकः । दुहितृत्वे नयन्ति स्म, दुहितरमकुर्वन्नित्यर्थः ॥ १।४३।३७ ॥
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः ।
तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥ १।४३।३८ ॥
तत इति । ततः दुहितृत्वप्रापणात् । श्रोत्राभ्याम्, नरावयवेषु श्रोत्रस्यातिपावनत्वादिति भावः ॥ १।४३।३८ ॥
जगाम च पुनर्गङ्गा भगीरथरथानुगा ।
सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ १।४३।३९ ॥
जगामेत्यर्द्धत्रयम् । तस्य कर्मणः भगीरथयत्नस्य ॥ १।४३।३९ ॥
भगीरथो ऽपि राजर्षिर्गङ्गामादाय यत्नतः ।
पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥ १।४३।४० ॥
भगीरथ इति । भस्मकृतान् भस्मत्वेन कृतान् ॥ १।४३।४० ॥
अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥ १।४३।४१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
अथेति । तत्सलिलं प्लावयत् अप्लावयत् । प्राप्ताः सगरपुत्रा इति शेषः ॥ १।४३।४१ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥