०४२ भगीरथ-यत्नः

कालधर्मं गते राम सगरे प्रकृतीजनाः ।

राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १।४२।१ ॥

अथ गङ्गायास्त्रिपथगमनहेतुप्रश्नस्य पूर्वप्रकृतस्य साक्षादुत्तरमाह–कालधर्ममित्यादि ।जातमात्रस्य कालेनावश्यं प्राप्तव्यो धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजना इत्यत्र दीर्घश्छान्दसः । अमात्यवर्गाः । “प्रकृतिः सहजे योनावमात्ये परमात्मनि” इति वैजयन्ती । रोचयामासुः न्यायप्राप्तत्वादैच्छन् ॥ १।४२।१ ॥

स राजा सुमहानसीदंशुमान् रघुनन्दन ।

तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ १।४२।२ ॥

स इति । सः सुमहान् राजासीदित्यन्वयः ॥ १।४२।२ ॥

तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन ।

हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ १।४२।३ ॥

तस्मिन्निति । तेपे गङ्गावतारणायेति शेषः ॥ १।४२।३ ॥

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।

तपोवनं गतो राम स्वर्गं लेभे तपोधनः ॥ १।४२।४ ॥

द्वात्रिंशदिति । स्वर्गं लेभे न तु गङ्गाम् ॥ १।४२।४ ॥

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।

दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ १।४२।५ ॥

दिलीप इति । वधम् अपमृत्युम् । दुःखोपहतया पित्रा दुश्चरे तपसि कृते ऽपि तेषां गतिर्नाभूदित्येवंरूपया । नाध्यगच्छत नाध्यगच्छत् ॥ १।४२।५ ॥

कथं गङ्गावतरणं कथं तेषां जलक्रिया ।

तारयेयं कथं चैनानिति चिन्तापरो ऽभवत् ॥ १।४२।६ ॥

निश्चयानधिगममेवाह–कथमित्यादिना ॥ १।४२।६ ॥

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।

पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ १।४२।७ ॥

तस्येति । धर्मेण प्रयोजकेन चिन्तयतः ॥ १।४२।७ ॥

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।

त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ १।४२।८ ॥

दिलीप इति । अकारयत् अकरोत् ॥ १।४२।८ ॥

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।

व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ १।४२।९ ॥

अगत्वेति । अपेयिवान् ययौ ॥ १।४२।९ ॥

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।

राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १।४२।१० ॥

इन्द्रेति । अभिषिच्य इन्द्रलोकं गतः ॥ १।४२।१० ॥

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।

अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ १।४२।११ ॥

मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ॥ १।४२।१२ ॥

भगीरथ इति । अनपत्यः अत एव प्रजाकामो ऽभूत् । स चाप्रज इत्युत्तरशेषः ॥ १।४२।११,१२ ॥

स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ।

ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ॥ १।४२।१३ ॥

स इति । गोकर्णे हिमवत्पादविशेषे । पञ्चाग्नयः चतुर्षु पाश्वेष्वग्नय उपरि सूर्यश्च, तेषां मध्ये तपो यस्य सः पञ्चतपाः । मासस्य सकृदाहारो यस्य सः मासाहारः । उभयत्र मध्यमपदलोपी समासः । पृषोदरादित्वात्साधुत्वम् ॥ १।४२।१३ ॥

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ।

अतीतानि महाबाहो तस्य राज्ञो महात्मनः ॥ १।४२।१४ ॥

तस्येति । तस्य राज्ञो महात्मन इत्युत्तरशेषः ॥ १।४२।१४ ॥

सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ १।४२।१५ ॥

सुप्रीत इत्यर्द्धम् ॥ १।४२।१५ ॥

ततः सुरगुणैः सार्द्धमुपागम्य पितामहः ।

भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १।४२।१६ ॥

तत इति । अथ उपगमनानन्तरम् ॥ १।४२।१६ ॥

भगीरथ महाभाग प्रीतस्ते ऽहं जनेश्वर ।

तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १।४२।१७ ॥

भगीरथेति । ते तपसा प्रीतः ॥ १।४२।१७ ॥

तमुवाच महातेजाः सर्वलोकपितामहम् ।

भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १।४२।१८ ॥

तमिति । महातेजाः तपःकृतनिरवधिकतेजाः ॥ १।४२।१८ ॥

यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् ।

सगरस्यात्मजाः सर्वे मत्तस्सलिलमाप्नुयुः ॥ १।४२।१९ ॥

यदीति । मे तपस इत्यन्वयः ॥ १।४२।१९ ॥

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।

स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १।४२।२० ॥

न केवलं सलिलाप्तिरन्यच्चेत्याह–गङ्गाया इति । अत्यन्तम् अक्षय्यम् ॥ १।४२।२० ॥

देया च सन्ततिर्देव नावसीदेत्कुलं च नः ।

इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः ॥ १।४२।२१ ॥

दया चेति । इक्ष्वाकूणां कुले जातस्य मे सन्ततिर्देया, यया नः कुलं नावसीदेत् । एष वरः परः द्वितीयो वरो ऽस्त्वित्यन्वयः । तपसे निर्गमदशायामपि हि प्रजाकाम इत्युक्तम् ॥ १।४२।२१ ॥

उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।

प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ १।४२।२२ ॥

उक्तेति । शुभां शुभहेतुम् । मधुराम् अर्थतो मनोज्ञाम् ॥ १।४२।२२ ॥

मनोरथो महानेष भगीरथ महारथ ।

एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन ॥ १।४२।२३ ॥

मनोरथ इति । मनोरथः, तावकः इति शेषः ॥ १।४२।२३ ॥

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता ।

तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ १।४२।२४ ॥

इयमिति । इयं सन्निहिता । हैमवती हिमवत्सन्निहिता । धारयितुं शक्तः हरः तत्र धारणे नियुज्यतां प्रार्थ्यताम् ॥ १।४२।२४ ॥

गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति ।

तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ १।४२।२५ ॥

गङ्गाया इति । धारयितुम्, शक्तमिति शेषः ॥ १।४२।२५ ॥

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।

जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥ १।४२।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥

तमिति । आभाष्य ऽवत्से राजानं यथाकालमनुगृहाणऽ इत्युक्त्वेति यावत् । मरुद्गणैः वायुगणैः ॥ १।४२।२६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिञ्जीराख्याने बालकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥