०४१ सगर-यज्ञ-समाप्तिः

पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन ।

नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १।४१।१ ॥

पुत्रानिति । नप्तारं पौत्रम् ॥ १।४१।१ ॥

शूरश्च कृतविद्यश्च पूर्वैस्तुल्यो ऽसि तेजसा ।

पितृ़णां गतिमन्विच्छ येन चाश्वो ऽपवाहितः ॥ १।४१।२ ॥

शूर इति । पूर्वैः पितृभिः । पितृ़णां कनिष्ठपितृ़णाम् । गतिं मार्गम् । अन्विच्छ अन्वेषय । अश्वो येनापवाहितस्तस्य च गतिमन्विच्छ ॥ १।४१।२ ॥

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।

तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ १।४१।३ ॥

अन्तरिति । अन्तर्भौमानि भूमेरन्तर्जातानि । भूबिलमाश्रितानीत्यर्थः । यानीति शेषः ॥ १।४१।३ ॥

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।

सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ १।४१।४ ॥

अभिवाद्येति । पारगः समाप्तिकरः ॥ १।४१।४ ॥

एवमुक्तों ऽशुमान् सम्यक् सगरेण महात्मना ।

धनुरादाय खङ्गं च जगाम लघुविक्रमः ॥ १।४१।५ ॥

एवमिति । लघुविक्रमः शीघ्रगमनः ॥ १।४१।५ ॥

स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।

प्रापद्यत नरश्रेष्ठस्तेन राज्ञा ऽभिचोदितः ॥ १।४१।६ ॥

स इति । खातं क्लृप्तमित्यर्थः ॥ १।४१।६ ॥

दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।

पूज्यमानं महातेजा दिशागजमपश्यत ॥ १।४१।७ ॥

दैत्येति । अपश्यत अपश्यत् ॥ १।४१।७ ॥

स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।

पितृ़न् स परिपप्रच्छ वाजिहर्तारमेव च ॥ १।४१।८ ॥

स इति । परिपप्रच्छ, क्वास्त इति शेषः ॥ १।४१।८ ॥

दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।

आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ १।४१।९ ॥

दिशेति । आसमञ्ज असमञ्जपुत्र इञभाव आर्षः ॥ १।४१।९ ॥

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।

यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १।४१।१० ॥

तस्येति । समुपचक्रम इति सविनयत्वप्रकटनम् ॥ १।४१।१० ॥

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।

पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ १।४१।११ ॥

तैश्चेति । वक्तुमर्हं वाक्यं “ऋहलोर्ण्यत्” “चजोः कु घिण्ण्यतोः” इति कुत्वम् । वाक्यकोविदैः कालदेशोचितवक्तव्यार्थज्ञैः । यद्वा परवाक्याशयज्ञैः, स्वयं वाक्यप्रयोगकुशलैश्चेत्यर्थः । सहयः पितामहसमीपं गन्तासीत्यभिचोदितो ऽभूत् ॥ १।४१।११ ॥

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।

भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १।४१।१२ ॥

तेषामिति । तस्य अंशुमतः । पितरो यत्र भस्मराशीकृतास्तं देशं जगाम ॥ १।४१।१२ ॥

स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।

चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १।४१।१३ ॥

स इति । पूर्वमदर्शनाद्दुःखवशमापन्नः, तेषां वधात् वधदर्शनात् । सुदुःखितः परमार्तः भृशं तप्तः । चुक्रोश रुरोद ॥ १।४१।१३ ॥

यज्ञीयं च हयं तत्र चरन्तमविदूरतः ।

ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १।४१।१४ ॥

यज्ञीयमिति । शोकः विलापः ॥ १।४१।१४ ॥

स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।

सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १।४१।१५ ॥

स इति । जलक्रिया तर्पणम् ॥ १।४१।१५ ॥

विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम् ।

पितृ़णां मातुलं राम सुपर्णमनिलोपमम् ॥ १।४१।१६ ॥

विसार्येति । विसार्य समन्तात्प्रसार्य । निपुणां दूरवीक्षणक्षमाम् । अनिलोपमम्, वेगेनेति शेषः ॥ १।४१।१६ ॥

स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः ।

मा शुचः पुरुषव्याघ्र वधो ऽयं लोकसम्मतः ॥ १।४१।१७ ॥

स चेति । लोकसम्मतः लोकहितः ॥ १।४१।१७ ॥

कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।

सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १।४१।१८ ॥

कपिलेनेति । हि यस्मात् कपिलेन हताः लौकिकं लोकतः प्राप्तम्, सलिलं दातुं नार्हसि । “चण्डालादुदकात्सर्पात् वैद्युताद्ब्राह्मादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च एतेभ्योयद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ " इति स्मृतेः। कपिलो ब्राह्मणः ॥ १।४१।१८ ॥

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।

तस्यां कुरु महाबोहो पितृ़णां तु जलक्रियाम् ॥ १।४१।१९ ॥

गङ्गेति । गङ्गा अस्तीति शेषः ॥ १।४१।१९ ॥

भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।

तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।

षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥ १।४१।२० ॥

न केवलं तत्र जलक्रिया, तया सेचनीयं चेत्याह–भस्मेति सार्द्धश्लोकः । यदि प्लावयेत्सेचयेत्

तदा तया क्लिन्नं सिक्तं भस्म नयिष्यति नेष्यति ॥ १।४१।२० ॥

गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ ।

यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ॥ १।४१।२१ ॥

गच्छेति । संवर्तयितुं समापयितुम् ॥ १।४१।२१ ॥

सुपर्णवचनं श्रुत्वा सों ऽशुमानति वीर्यवान् ।

त्वरितं हयमादाय पुनरायान्महायशाः ॥ १।४१।२२ ॥

सुपर्णेति । आयात् आगच्छत् ॥ १।४१।२२ ॥

ततो राजानमासाद्य दीक्षितं रघुनन्दन ।

न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥ १।४१।२३ ॥

तत इति । वृत्तं पितृवृत्तान्तं सुपर्णवचनं च यथा तथा न्यवेदयदित्यन्वयः ॥ १।४१।२३ ॥

तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ।

यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥ १।४१।२४ ॥

तच्छ्रुत्वेति । यथाकल्पं यथाक्रमम् ॥ १।४१।२४ ॥

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ।

गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ १।४१।२५ ॥

स्वेति । निश्चयम् उपायम् ॥ १।४१।२५ ॥

अकृत्वा निश्चयं राजा कालेन महता महान् ।

त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ १।४१।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

अकृत्वेति । महता कालेन दिवं गत इत्यन्वयः ॥ १।४१।२६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥