०४० सगर-सुत-विनाशः

देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।

प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् ॥ १।४०।१ ॥

देवतानामित्यादि । कृतः अन्तो जननाशो यैस्ते कृतान्ताः सगरपुत्राः ॥ १।४०।१ ॥

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।

कापिलं रूपमास्थाय धारयत्यनिशं धराम् ।

तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥ १।४०।२ ॥

यस्येति, सार्द्धश्लोकः । आस्थाय, य इति शेषः ॥ १।४०।२ ॥

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ।

सगरस्य च पुत्राणां विनाशो ऽदीर्घजीविनाम् ॥ १।४०।३ ॥

पृथिव्या इति । सनातनः प्रतिकल्पमवश्यम्भावी । दृष्टः निश्चितः । अतो न तत्रापि शोकः कार्य इति भावः । अदीर्घजीविनामिति छेदः । विनाशः दृष्ट इत्यनुषङ्गः ॥ १।४०।३ ॥

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम ।

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ १।४०।४ ॥

पितामहेति । त्रयस्त्रिंशद्देवाः अष्टौ वसव एकादश रुद्रा द्वादशादित्या अश्विनौ च । इदमुपलक्षणं गन्धर्वादेर्गमनस्यापि ॥ १।४०।४ ॥

सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ।

पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ॥ १।४०।५ ॥

सगरस्येति । निर्घातः उत्पातविशेषः ॥ १।४०।५ ॥

ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् ।

सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥ १।४०।६ ॥

तत इति । सर्वे महीं प्रदक्षिणं कृत्वा पितरं गत्वा सर्वे पितरमब्रुवन् ॥ १।४०।६ ॥

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ।

देवदानवरक्षांसि पिशाचोरगकिन्नराः ॥ १।४०।७ ॥

न च पश्यामहे ऽश्वं तमश्वहर्तारमेव च ।

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥ १।४०।८ ॥

परिक्रान्तेति, श्लोकद्वयम् । सत्त्ववन्तो बलवन्तः । करिष्यामेति विसर्गलोपश्छान्दसः ॥ १।४०।७,८ ॥

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।

समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥ १।४०।९ ॥

तेषामिति । समन्युः अश्वालाभकृतक्रोधवान् ॥ १।४०।९ ॥

भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् ।

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ॥ १।४०।१० ॥

भूय इति । भूयो निर्भिद्य खनतेत्यन्वयः । निवर्तथ निवर्तध्वम् ॥ १।४०।१० ॥

पितुर्वचनमासाद्य सगरस्य महात्मनः ।

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥ १।४०।११ ॥

पितुरिति । अभिद्रवन् अभ्यद्रवन् ॥ १।४०।११ ॥

खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ।

दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ १।४०।१२ ॥

खन्यमान इति । दिशागजं “वष्टि भागुरिः–” इत्याप् । विरूपाक्षं विरूपाक्षाख्यम् ॥ १।४०।१२ ॥

सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ।

शिरसा धारयामास विरूपाक्षो महागजः ॥ १।४०।१३ ॥

उक्तं विवृणेति–सेति ॥ १।४०।१३ ॥

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ।

खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥ १।४०।१४ ॥

यदेति । पर्वणि काले । खेदाद्धेतोः । विश्रमार्थं श्रमशान्त्यर्थम् । चालयते चालयति ॥ १।४०।१४ ॥

तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ।

मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥ १।४०।१५ ॥

तमिति । मानयन्तः पूजयन्तः ॥ १।४०।१५ ॥

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ।

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥ १।४०।१६ ॥

तत इति । तत इत्यस्य विवरणं पूर्वां दिशं भित्त्वेति ॥ १।४०।१६ ॥

महापद्मं महात्मानं सुमहत्पर्वतोपमम् ।

शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ॥ १।४०।१७ ॥

महागजं विशेषयति–महेति । सुमहदित्यार्षम् ॥ १।४०।१७ ॥

ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ।

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥ १।४०।१८ ॥

तत इति । दिक्शब्देन देश उच्यते ॥ १।४०।१८ ॥

पश्चिमायामपि दिशि महान्तमचलोपमम् ।

दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥ १।४०।१९ ॥

पश्चिमायामिति । सौमनसं सौमनसाख्यम् ॥ १।४०।१९ ॥

तं ते प्रदक्षिणं कृत्वा पृष्ट्वाचापि निरामयम् ।

खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ॥ १।४०।२० ॥

तमिति । निरामयं कुशलम् । समुपक्रान्ताः गताः । हैमवतीं हिमवत्सम्बन्धिनीम् ॥ १।४०।२० ॥

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम् ।

भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥ १।४०।२१ ॥

उत्तरस्यामिति । भद्रं भद्राख्यम् । भद्रेण शोभनेन ॥ १।४०।२१ ॥

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ।

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥ १।४०।२२ ॥

समालभ्येति । समालभ्य स्पृष्ट्वा । “आलम्भः स्पर्शहिंसयोः” इत्यमरः ॥ १।४०।२२ ॥

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ।

रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥ १।४०।२३ ॥

तत इति । प्रागुत्तराम् ऐशानीं दिशम् । प्रथिताम् अश्वगमनयोग्यतावतीम् । गमनखननक्रियाभेदात्सागरसगरात्मजपदप्रयोगः ॥ १।४०।२३ ॥

ते तु सर्वे महात्मानो भीमवेगा महाबलाः ।

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥ १।४०।२४ ॥

ते त्विति । महात्मानः महाकायाः । कपिलं कपिलावतारम् ॥ १।४०।२४ ॥

हयं च तस्य देवस्य चरन्तमविदूरतः ।

प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥ १।४०।२५ ॥

हयं चेति । चरन्तं तृणानि भक्षयन्तम् ॥ १।४०।२५ ॥

ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ।

खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।

अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ १।४०।२६ ॥

ते तमिति सार्द्धश्लोकः । तं कपिलम् ॥ १।४०।२६ ॥

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।

दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नः सगरात्मजान् ॥ १।४०।२७ ॥

अस्माकमिति । दुर्मेध इति सम्बोधनम् ॥ १।४०।२७ ॥

श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ।

रोषेण महता ऽ ऽविष्टो हुङ्कारमकरोत्तदा ॥ १।४०।२८ ॥

श्रुत्वेति । स्पष्टम् ॥ १।४०।२८ ॥

ततस्तेनाप्रमेयेन कपिलेन महात्मना ।

भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ १।४०।२९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥

तत इति । अप्रमेयेन अप्रमेयवैभवेन ॥ १।४०।२९ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥