तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १।३८।१ ॥
एवं दिव्यसम्भवं विस्तरं प्रतिपाद्यमानुषलोकसम्भवविस्तरं वक्तुमुपक्रमते ऽष्टात्रिंशे–तामित्यादि । रामे रामाय । कौशिकशब्दार्थमाह कुशिकात्मज इति ॥ १।३८।१ ॥
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ १।३८।२ ॥
अयोध्येति । अप्रजः अत एव प्रजाकामः ॥ १।३८।२ ॥
वैदर्भदुहिता राम केशिनी(?) नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ १।३८।३ ॥
वैदर्भेति । या वैदर्भदुहिता सा ज्येष्ठपत्न्यासीत् ॥ १।३८।३ ॥
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
द्वितीया सगरस्यासीत् पत्नी सुमतिसञ्ज्ञिता ॥ १।३८।४ ॥
अरिष्टेति । अरिष्टनेमिः कश्यपः ॥ १।३८।४ ॥
ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवांस्तपः ।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ १।३८।५ ॥
ताभ्यामिति । भृग्वधिष्ठितं प्रस्रवणं वारिप्रवाहो यस्मिंस्तथा । गिरौ पर्यन्तपर्वते ॥ १।३८।५ ॥
अथ वर्षशते पूर्णे तपसाराधितो मुनिः ।
सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥ १।३८।६ ॥
अथेति । वर्षशते पूर्णे, तपस्यत इति शेषः ॥ १।३८।६ ॥
अपत्यलाभः सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ १।३८।७ ॥
अपत्येति । सुबह्वपत्यविषयत्वात्सुमहत्त्वम् । कीर्तिमिति तेनेति शेषः ॥ १।३८।७ ॥
एका जनयिता तात पुत्रं वंशकरं तव ।
षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ १।३८।८ ॥
एकेति । जनयितेति लुट् । तातेत्युपलालने ॥ १।३८।८ ॥
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ १।३८।९ ॥
भाषमाण्ामिति । राजपुत्र्याविति छत्रिन्यायादुक्तम् । सुमतेः कश्यपपुत्रीत्वात् ॥ १।३८।९ ॥
एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ १।३८।१० ॥
एक इति । तव वचः सत्यमस्तु, यस्या एकमिच्छसि तस्या एकः । यस्या बहूनिच्छसि तस्या बहवः सन्त्वित्यर्थः ॥ १।३८।१० ॥
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम् ॥ १।३८।११ ॥
तयोरिति । अत्र पुत्रविषये । स्वच्छन्दः स्वेच्छा । विधीयतां ज्ञाप्यताम् ॥ १।३८।११ ॥
एको वंशकरो वा ऽस्तु बहवो वा महाबलाः ।
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ १।३८।१२ ॥
तदेव विवृणोति–एक इति ॥ १।३८।१२ ॥
मुनेस्तु वचनं श्रुत्वा कैशिनी(?) रघुनन्दन ।
पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ १।३८।१३ ॥
मुनेरिति । जग्राह वरयामास ॥ १।३८।१३ ॥
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १।३८।१४ ॥
षष्टिमिति । सुपर्णभगिनी गरुडभगिनी ॥ १।३८।१४ ॥
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ १।३८।१५ ॥
प्रदक्षिणमिति । ऋषिं भृगुम् ॥ १।३८।१५ ॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १।३८।१६ ॥
अथेति । व्यजायत प्रसूतवती ॥ १।३८।१६ ॥
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिःसृताः ॥ १।३८।१७ ॥
सुमतिरिति । गर्भतुम्बम्, वृत्ताकारं गर्भपिण्डम् । कथं ततः पुत्रोदय इत्यत आह षष्टिरिति । तुम्बभेदात्, न तु गान्धार्या इव पश्चाद्विभजनीय इत्यर्थः ॥ १।३८।१७ ॥
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्द्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १।३८।१८ ॥
घृतेति । धात्र्यः उपमातरः । तान् विभक्ततुम्बान् ॥ १।३८।१८ ॥
अथ दीर्घेण कालेन रूपयौवनशालिनः ।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १।३८।१९ ॥
अथेति । दीर्घेण कालेनेति यौवनशालित्वे हेतुत्वात्तृतीया । यौवनशालिन इति पुँल्लिङ्गत्वमार्षम् ॥ १।३८।१९ ॥
स च ज्येष्ठो नरश्रेष्ठस्सगरस्यात्मसम्भवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ।
प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ॥ १।३८।२० ॥
स चेति अर्द्धत्रयम् । ज्येष्ठः असमञ्जः । प्रहसन्, स्थित इति शेषः ॥ १।३८।२० ॥
एवं पापसमाचारः सज्जनप्रतिबाधकः ।
पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ॥ १।३८।२१ ॥
एवमिति । निर्वासितः विवास्यते स्म ॥ १।३८।२१ ॥
तस्य पुत्रों ऽशुमान्नाम असमञ्जस्य वीर्यवान् ।
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥ १।३८।२२ ॥
तस्येति । अंशुमान्नाम, आसीदिति शेषः ॥ १।३८।२२ ॥
ततः कालेन महता मतिः समभिजायत ।
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥ १।३८।२३ ॥
तत इति । यजेयमिति निश्चिता मतिः । समभिजायत समभ्यजायत ॥ १।३८।२३ ॥
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ।
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥ १।३८।२४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥ ३८ ॥
स इति । यज्ञकर्मणि निश्चयं कृत्वा यष्टुं समुपचक्रमे ॥ १।३८।२४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टात्रिंशः सर्गः ॥ ३८ ॥