उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥ १।३६।१ ॥
“भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्” इति गङ्गायास्त्रिपथगात्वप्रकारे पृष्टे अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्र तृतीयपथगमनं कथमित्याशयेन पुनः पृच्छन्तं श्रीरामं प्रत्याह षट्त्रिंशे–उक्तवाक्य इत्यादि । मुनौ उक्तवाक्ये उक्तोत्तरे सति । अत्रोभावित्युक्तेः पूर्वसर्गे रामपदं लक्ष्मणस्याप्युपलक्षणं वेदितव्यम् । कथां पूर्वोक्ताम् ॥ १।३६।१ ॥
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञो ऽसि दिव्यमानुषसम्भवम् ॥ १।३६।२ ॥
धर्मेति अर्द्धत्रयम् । धर्मयुक्तम्, धर्मफलकश्रवणमित्यर्थः । इदं वृत्तं ज्येष्ठाया दुहितुः वृत्तं त्वया कथितम् । तस्या दिव्यमानुषसम्भवं दिव्यलोके मानुषलोके च सम्भवं विस्तरं वक्तुमर्हसि ॥ १।३६।२ ॥
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ॥ १।३६।३ ॥
त्रीनिति । त्रीन् पथः भूर्भुवःस्वर्मार्गान् । केन हेतुना प्लावयेत् प्लुता । भावयेदित्यपि पाठः । लकारव्यत्ययः । इतरयोः पूर्वसर्ग एवोक्तत्वात्केन हेतुना तृतीयपथं गतेति द्वितीयप्रश्नार्थः ॥ १।३६।३ ॥
कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ।
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ॥ १।३६।४ ॥
तृतीयप्रश्नमाह–कथमिति । त्रिपथगा गङ्गा कथं विश्रुता कैः कर्मभिः व्यापारैः सरिदुत्तमा आसीत् ॥ १।३६।४ ॥
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ॥ १।३६।५ ॥
प्रथमप्रश्नोत्तरमाहेत्याह–तथेति । काकुत्स्थ इति लक्ष्मणस्याप्युपलक्षणम् । निखिलेन विस्तरेण । सर्वां दिव्यसम्भवां मानुषसम्भवां च ॥ १।३६।५ ॥
पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः ।
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ १।३६।६ ॥
निखिलेनेत्युक्तं गाङ्गेयसम्भवमाह–पुरेति । कृतोद्वाह इति परपरिग्रहव्यावृत्तिः । दृष्ट्वा स्पृहया महातपोनिष्ठत्वे ऽपि कामबाणवशात् तस्यामभिलाषेण । मैथुनाय मिथुनकर्म कर्तुं उपचक्रमे ॥ १।३६।६ ॥
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।
[तस्य सङ्क्रीडमानस्य महादेवस्य धीमतः ।
एवं मन्मथयुद्धे तु तयोर्नासीत्पराजयः ॥ ]
न चापि तनयो राम तस्यामासीत्परन्तप ॥ १।३६।७ ॥
शितीति । दिव्यं वर्षशतं गतम्, मैथुनेनैवेति शेषः । तनयः तनयप्रापकरेतोविसर्गः ॥ १।३६।७ ॥
ततो देवाः समुद्विग्नाः पितामहपुरोगमाः ।
यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते ॥ १।३६।८ ॥
तत इति । पितामहपुरोगमाः देवाः समुद्विग्ना भीताः । पाठान्तरेसमुद्युक्ताः उद्योगं चक्रुः । किमर्थम् ? इह पार्वत्यां यद्भूतं पुत्रः उत्पद्यते उत्पत्स्यते । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः । तत् कः प्रतिसहिष्यत इति विचार्य तन्निवर्त्तनाय समुद्युक्ता इत्यर्थः ॥ १।३६।८ ॥
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ १।३६।९ ॥
तमेवोद्योगमाह–अभिगम्येति । महादेवमिति शेषः ॥ १।३६।९ ॥
देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ १।३६।१० ॥
देवदेवेति । देवदेवेत्यनेन महादेवशब्दार्थः उक्तः । प्रणिपातेन पादमूलपतनेन ॥ १।३६।१० ॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ १।३६।११ ॥
नेति । तेजः तेजस्समुद्भूतं पुत्रं न धारयिष्यन्ति न सहिष्यन्ते, अतो ब्राह्मेण वेदावगतेन तपसा योगेन युक्तः सन्, तदङ्गतया देव्या सह तपश्चर । न तेजः पार्वत्यां मोक्तुमर्हसीति भावः ॥ १।३६।११ ॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ॥ १।३६।१२ ॥
[रक्ष सर्वानिमाँल्लोकान्नालोकं कर्तुमर्हसि ।]
त्रैलोक्येति । त्रैलोक्यहितमेव कामः काम्यमानः पुरुषार्थः तदर्थम् । तेजः रेतः, तेजसि तेजोमयनिजशरीरे धारय, न मुञ्चेत्यर्थः ॥ १।३६।१२ ॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥ १।३६।१३ ॥
देवतानामिति । सर्वलोकमहेश्वरः सर्वलोकानां परमनियन्ता । सर्वलोकपितामह इति पाठान्तरम् ॥ १।३६।१३ ॥
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ १।३६।१४ ॥
बाढमित्यङ्गीकृतांशमाहधारयिष्यामीति । तेजः अक्षुभितांशम् । उमया उमाप्यक्षुभितं शोणितरूपं तेजो धारयत्वित्यर्थः । पृथिवीशब्देन लोका उच्यन्ते । निर्वाणं सुखम् ॥ १।३६।१४ ॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥ १।३६।१५ ॥
ऽपुनश्चेदमुवाचऽ इत्युक्तमंशं दर्शयतियदिदमिति । स्थानात् रेतःस्थानहृदयसम्पुटात् । अनुत्तमं दुर्भरम् । मे मह्यं ब्रुवन्तु ॥ १।३६।१५ ॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ॥ १।३६।१६ ॥
एवमिति । धरा सर्वधारणशक्तिमती, अनेन धरा तद्धारणार्थं देवैः प्रार्थितेति सिद्धम् ॥ १।३६।१६ ॥
एवमुक्तः सुरपतिः प्रमुमोच महीतले ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १।३६।१७ ॥
एवमिति । सुरपतिः रुद्रः । प्रमुमोच तेज इति सिद्धम् । येन तेजसा पृथिवी व्याप्ता तत्प्रमुमोच ॥ १।३६।१७ ॥
ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् ।
प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १।३६।१८ ॥
ततः पृथिव्यां व्याप्तत्वादेव हेतोः । पृथिवी भग्ना भविष्यतीति हुताशनमूचुः । पुनरूचुरित्यनेनाग्नेः प्रवेशभीतत्वं गम्यते, अग्निचारणहेतुतया वायुसमन्वित इत्युक्तम् ॥ १।३६।१८ ॥
तदग्निना पुनर्व्याप्तं सञ्जातः श्वेतपर्वतः ।
दिव्यं शरवणं चैव पावकादित्यसन्निभम् ।
यत्र जातो महातेजाः कार्तिकेयो ऽग्निसम्भवः ॥ १।३६।१९ ॥
तदिति अर्द्धत्रयम् । तत्तेजः अग्निना व्याप्तं सत् श्वेतपर्वतः सञ्जातः । ततः कालपरिपाकेन शरवणं च सञ्जातं । शराणां वनं शरवणम् । “प्रनिरन्तश्शर–” इति णत्वम् । शरवणं विशेषयति–यत्रेति । कृत्तिकानामपत्यं पुमान् कार्तिकेयः । “स्त्रीभ्यो ढक्” । स्तन्यदानात्कृत्तिका पुत्रत्वम् । अग्निना धृत्वा मुक्तत्वादग्निसम्भवः ॥ १।३६।१९ ॥
अथोमां च शिवं चैव देवाः सर्पिगणास्तदा ।
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः ॥ १।३६।२० ॥
अथेति । पूजयामासुः, मैथुनविघ्नकृतकोपशान्त्यर्थमित्यर्थः ॥ १।३६।२० ॥
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ।
समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ १।३६।२१ ॥
अथेति । अब्रवीदित्येतद्विशिष्योच्यते अशपदिति ॥ १।३६।२१ ॥
यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया ।
अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ॥ १।३६।२२ ॥
यस्मादिति । पुत्रकाम्यया मया । सङ्गतिः भर्तृसंयोगो मैथुनरूपः सा यस्मान्निवारिता, तस्मात् यूयमपि स्वेषु दारेषु अपत्यं पुत्रं नोत्पादयिष्यथ ॥ १।३६।२२ ॥
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ।
एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ॥ १।३६।२३ ॥
अद्येति । पूर्वार्द्धेन पूर्वश्लोकपठितमुच्यते । पत्नय इत्यार्षं ह्रस्वत्वम् ॥ १।३६।२३ ॥
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ।
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ १।३६।२४ ॥
अवन इति सार्द्धश्लोकः । नैकरूपा ऊषरत्वादिरूपेण नानाविधा । बहुभार्या बहूनां राज्ञां भार्या । मम पुत्रम् अनिच्छती अनिच्छन्ती त्वं मत्क्रोधेन शापरूपेण कलुषीकृता विपर्यस्तप्रकृतिः सती, पुत्रकृतां प्रीतिं न प्राप्स्यसीति भावः ॥ १।३६।२४ ॥
तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥ १।३६।२५ ॥
तानिति । सुरपतिः रुद्रः । तान्सुरान् स्वकीयशापेन व्रीडितान् लज्जितान् । दृष्ट्वा प्रियाशापस्य दुष्परिहरत्वात् स्वीयशापदुःखस्य द्रष्टुमशक्यत्वाच्च वरुणपालितां दिशं हिमवतः प्रतीचीं प्रति । गमनायोपचक्राम । परस्मैपदमार्षम् ॥ १।३६।२५ ॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ १।३६।२६ ॥
स इति । हिमवत्प्रभवे तस्य हिमवतो गिरेरुत्तरपार्श्वभूते शृङ्गे देव्या सह तप आतिष्ठत्, सदा तपोव्रतमसङ्कल्पयदित्यर्थः ॥ १।३६।२६ ॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः ।
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ १।३६।२७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥
ननु ऽदुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसिऽ इति पार्वती वृत्तान्तमुपेक्ष्य गङ्गावैभव एव मया पृष्टे तद्विहायोपेक्षितमेव पार्वतीवृत्तान्तं किमर्थं कथितवानसीति रामस्य शङ्कां परिहरति–एष इति । शैलपुत्र्याः पार्वत्याः सम्बन्धी कथाविस्तरो निवेदितः । वक्ष्यमाणगङ्गावैभवकथनोपयोगित्वेनोक्तः । गङ्गायाः प्रभवं प्रभावं त्वं शृणु । चः प्राधान्ये ॥ १।३६।२७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥