उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत ॥ १।३५।१ ॥
अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुं पृच्छति पञ्चत्रिंशे उपास्येत्यादि । उपास्य स्थित्वा, शयित्वेति यावत् । रात्रिशेषमिति अत्यन्तसंयोगे द्वितीया । सुप्रभातायाम्, निवृत्तायामिति यावत् । अत्र रात्रिशेषमित्यनुवादात् पूर्वसर्गे गतो ऽर्द्धरात्र इत्यत्र निशीथ परत्वं स्वरसमिति गम्यते । यद्वा रात्रिशेषं ब्राह्मे मुहूर्त्ते । उपास्य परमात्मानमिति शेषः । “ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्” इतिस्मृतेः ॥ १।३५।१ ॥
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ १।३५।२ ॥
सुप्रभातेति । गमनाय गन्तुम् “क्रियार्थोपपदस्य " इति चतुर्थी ॥ १।३५।२ ॥
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ १।३५।३ ॥
तदिति । पूर्वाह्णे भवा पौर्वाह्णिकी ताम् ॥ १।३५।३ ॥
अयं शोणः शुभजलो गाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥ १।३५।४ ॥
अयमिति । गाधः स्वल्पजलः, अत एव पुलिनमण्डितः सैकतालंकृतः । तथा च नावं विना गन्तुं शक्यते । कतरेण पथा सन्तरिष्यामहे ॥ १।३५।४ ॥
एवमुक्तस्तु रामेण विश्वामित्रो ऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ १।३५।५ ॥
एवमिति । उद्दिष्टः गन्तव्यत्वेन निश्चितः ॥ १।३५।५ ॥
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ १।३५।६ ॥
एवमिति स्पष्टम् ॥ १।३५।६ ॥
ते गत्वा दूरमध्वानं गते ऽर्द्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ १।३५।७ ॥
त इति । जाह्नवीं गङ्गाम् ॥ १।३५।७ ॥
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥ १।३५।८ ॥
तामिति । सारसो हंसविशेषः ॥ १।३५।८ ॥
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ॥ १।३५।९ ॥
तस्या इति अर्द्धम् । आवासाय परिगृह्यत इत्यावासपरिग्रहः तं, सम्मार्जनादिना वासस्थानं चक्रुरित्यर्थः ॥ १।३५।९ ॥
ततः स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः ।
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ॥ १।३५।१० ॥
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ।
विश्वामित्रं महात्मानं परिवार्य समन्ततः ॥ १।३५।११ ॥
तत इत्यादि श्लोकद्वयम् । यथान्यायं यथाशास्त्रम्, अघमर्षणसूक्तादिजपपूर्वकमित्यर्थः । पितृदेवता इति ऋषीणामप्युपलक्षणम् । अग्निहोत्राणि अग्नौ होतव्यानि पञ्चमहायज्ञादीनि । अमृतवत् अमृततुल्यम् । हविः यज्ञशिष्टमन्नम् “यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्” इति स्मृतेः । शुचौ दृष्टदोषरहिते भोजनस्थानादन्यत्र ॥ १।३५।१०,११ ॥
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ।
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ॥ १।३५।१२ ॥
अथेति । अथ उपवेशानन्तरम् । तत्र देशे । तदा तस्मिन्नेव काले । द्वितीयो ऽथशब्दः प्रश्ने । “मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ” इत्यमरः । गङ्गां गङ्गावृत्तान्तम् ॥ १।३५।१२ ॥
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ १।३५।१३ ॥
त्रैलोक्यमित्यर्द्धम् ॥ १।३५।१३ ॥
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १।३५।१४ ॥
चोदित इति । वृद्धिं त्रैलोक्यमित्यनेनोक्ताम्, जन्म गङ्गां श्रोतुमित्युक्तम् ॥ १।३५।१४ ॥
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ १।३५।१५ ॥
शैलेन्द्र इति । धातूनाम् अयस्ताम्रादीनाम् अस्तीति शेषः । कन्याद्वयम् आसीदिति शेषः ॥ १।३५।१५ ॥
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ १।३५।१६ ॥
येति । या मेरुदुहिता हिमवतः प्रिया पत्नी मनोरमा नाम प्रसिद्धा सा तयोर्मातेत्यन्वयः ॥ १।३५।१६ ॥
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥ १।३५।१७ ॥
कन्याद्वयस्य नामनी दर्शयति तस्यामिति ॥ १।३५।१७ ॥
अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ १।३५।१८ ॥
अथेति । देवतार्थचिकीर्षया देवतार्थसम्पादनेच्छया, प्रयोजनं च स्नानपानादि वक्ष्यमाणसेनापति जननं वा परदेवतार्चनार्थं वा, अत एव स्वपदेनानुक्तिः ॥ १।३५।१८ ॥
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १।३५।१९ ॥
ददाविति । धर्मेण याचका न प्रत्याख्येया इति धर्मेण । जलप्रवाहरूपाया नद्याः कथमाकाशे गमनम् ? तत्राह स्वच्छन्दपथगामिति । स्वच्छन्दः स्वेच्छा तदायत्तः पन्थाः स्वच्छन्दपथः “ऋक्पूरब्धूः " इत्यादिना अप्रत्ययः समासान्तः । तं गच्छतीति तथा मेघजलवद्द्वार(?)गतिविशेषेणाकाशे ऽपि गतिः सम्भवतीति भावः ॥ १।३५।१९ ॥
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः ।
गङ्गामादाय ते ऽगच्छन् कृतार्थेनान्तरात्मना ॥ १।३५।२० ॥
प्रतिगृह्येति । त्रिलोकहितकारिणः, देवा इति शेषः । प्रतिगृह्य स्वीकृत्य । आदाय स्वेष्वन्तर्भाव्य ॥ १।३५।२० ॥
या चान्या शैलदुहिता कन्या ऽ ऽसीद्रघुनन्दन ।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ १।३५।२१ ॥
गङ्गावृत्तान्तप्रसङ्गेन तदनुजावृत्तान्तमप्याह या चेति । कन्या अलब्धभर्तृका ॥ १।३५।२१ ॥
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ १।३५।२२ ॥
उग्रेणेति । अप्रतिरूपाय अनुकूलाय, रुद्रार्थं तपस्यन्तीमुमां प्रसन्नाय तस्मै ददावित्यर्थः ॥ १।३५।२२ ॥
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ॥ १।३५।२३ ॥
उपसंहरति एते इति ॥ १।३५।२३ ॥
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ १।३५।२४ ॥
एवं गङ्गोत्पत्तिप्रकारं प्रथमप्रश्नोत्तरमुक्त्वा द्वितीयप्रश्नोत्तरं त्रिपथगामित्वमुच्यत इत्याह एतदिति । प्रथमं तावत् खं खात्मिकां गतिं गता । गतिमतां सुन्दरगतिमताम् ॥ १।३५।२४ ॥
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ १।३५।२५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंश सर्गः ॥ ३५ ॥
अथ सुरलोकं च समारूढेत्याह सैषेति ॥ १।३५।२५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥