तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोमिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १।३३।१ ॥
अथ कुशनाभस्य कन्यावचनं शृण्वतः क्षमाविशेष उच्यते त्रयस्त्रिंशे तस्येत्यादि । शिरोभिश्चरणौ स्पृष्ट्वा, पादयोः प्रणम्येत्यर्थः ॥ १।३३।१ ॥
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ १।३३।२ ॥
वायुरिति । प्रधर्षयितुम् अभिभवितुम् इच्छति । वर्तमानसामीप्याल्लट् । अशुभं बलात्काररूपम् ॥ १।३३।२ ॥
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ १।३३।३ ॥
पितृमत्य इति । पितृमत्यः स्म, अतः स्वच्छन्दे स्वातन्त्र्ये किञ्चित्पतिस्वीकारविषये । वयं न स्थिताः अतो नः पितरमेव वृणीष्व । स यदि नः अस्मान्, तुभ्यं दास्यति तदा तव भविष्यामः । ते भद्रमस्तु ॥ १।३३।३ ॥
तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥ १।३३।४ ॥
तेनेति । एवं ब्रुवन्त्यो वयम् । अस्माकं वचनं न प्रतीच्छता अनङ्गीकुर्वता । पापानुबन्धेन पापानुसारिणा तेन वायुना निहताः ॥ १।३३।४ ॥
तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ १।३३।५ ॥
तासामिति । अनुत्तमं क्षमावत्त्वात् ॥ १।३३।५ ॥
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ १।३३।६ ॥
क्षान्तमिति । हे पुत्र्यः । क्षमावतां कर्त्तव्यं कर्तुमर्हं “कृत्यानां कर्तरि वा” इति षष्ठी । क्षान्तं क्षमा । भावे निष्ठा । कृतम् इदं सुमहत्कर्म, देवे प्रार्थयमानेप्यविकृतचित्तत्वं शरीरं भञ्जयति सति
निष्क्रोधत्वं च दुष्करमिति भावः । कुलं चावेक्षितम्, कुलानुरूपं कृत्यं कृतमित्यर्थः ॥ १।३३।६ ॥
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ॥ १।३३।७ ॥
उक्तमर्थं विवृणोति अलङ्कार इति अर्द्धम् । क्षमा अपराधसहिष्णुत्वम् ॥ १।३३।७ ॥
दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः ।
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ॥ १।३३।८ ॥
दुष्करमिति । वः तत् क्षान्तं क्षमा । दुष्करं त्रिदशेषु रूपैश्वर्यसम्पन्नेषु विशेषतो दुष्करम् । यादृशीति सर्वासामविशेषतः या क्षमा सापि दुष्करेत्यन्वयः । क्षमैव दुष्करा, ततस्त्रिदशेषु दुष्करा, ततोपि सर्वासामविशेषेण क्षमा दुष्करैवेत्यर्थः ॥ १।३३।८ ॥
क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ।
क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ॥ १।३३।९ ॥
क्षमां प्रशंसति क्षमेति । क्षमा दानम्, दानेन यत्फलं प्राप्नोति तत् क्षमया प्राप्नोतीत्यर्थः । एवमुत्तरत्रापि योज्यम् । धर्मः तटाकारामनिर्माणादिः । क्षमया भूमिसम्बन्धिन्या । जगच्चराचरं विष्ठितं स्थितं भवति ॥ १।३३।९ ॥
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ।
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ १।३३।१० ॥
विसृज्येति अर्द्धत्रयम् । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह देश इति । प्रदानस्य कन्याप्रदानस्य । उचितौ देशकालौ । सदृशे स्वकुलस्य सदृशे पात्रे प्रतिपादनं च मन्त्रयामासेत्यर्थः ॥ १।३३।१० ॥
एतस्मिन्नेव काले तु चूली नाम महामुनिः ।
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ १।३३।११ ॥
एतस्मिन्निति । एतस्मिन्नेव काले कुशनाभीयकाले, उत्तरत्रान्वयः । ऊर्ध्वरेताः अस्खलितरेताः । ब्राह्मं तपः वैदिकं तपः ब्रह्मोद्देश्यकं वा ॥ १।३३।११ ॥
तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ १।३३।१२ ॥
तप्यन्तमिति । तत्र तस्मिन्देशे । तदा तत्काले । तप्यन्तं दाहार्थे ऽपि व्यत्ययाच्छ्यन् । गन्धर्वी जातिवाचित्वात् । पर्युपासते अशुश्रूषत । मध्ये मध्ये भद्रमस्त्विति प्रयोगः शुभोत्तरत्वाय ॥ १।३३।१२ ॥
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टो ऽभवद्गुरुः ॥ १।३३।१३ ॥
सा चेति । काले कियति काले । तुष्टो ऽभवत् । ब्रह्मर्षित्वाद्गुरुरित्युक्तिः ॥ १।३३।१३ ॥
स च तां काल योगेन प्रोवाच रघुनन्दन ।
परितुष्टो ऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ १।३३।१४ ॥
स चेति । कालयोगेन शुश्रूषापरिपाककालसम्बन्धेन । करोमि कुर्याम् ॥ १।३३।१४ ॥
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १।३३।१५ ॥
परितुष्टमिति । वाक्यकोविदं वाक्ये वचने कोविदं समर्थम् ॥ १।३३।१५ ॥
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ॥ १।३३।१६ ॥
लक्ष्म्येति । ब्राह्म्या लक्ष्म्या ब्रह्मवर्चसेन । समुदितः श्रेष्ठः अत एव ब्रह्मभूतः ब्रह्मतुल्यः महातपा असि । अस्मात्त्वत्तः पुत्रमिच्छामि । ऽदीप्यसे परया लक्ष्म्याऽ इति कोशान्तरे ॥ १।३३।१६ ॥
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १।३३।१७ ॥
अपतिरिति । विधवाप्यपतिर्भवति, तत्राह भार्येति । उपगतायाः शरणं गतायाः मे । ब्राह्मेण तपोमहिम्ना ॥ १।३३।१७ ॥
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १।३३।१८ ॥
तस्या इति । ब्रह्मणा तपोयोगेन । दत्तो ब्रह्मदत्तः । चूलिनः स्वस्य मानसं मनस्सङ्कल्पजं सुतं ददौ ॥ १।३३।१८ ॥
स राजा सौमदेयस्तु पुरीमध्यावसत्तदा ।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १।३३।१९ ॥
स इति । राजा क्षत्रियः क्षत्रजत्वात् । लक्ष्म्या सम्पदायुक्तः । एतस्मिन्नन्तरे पुरीमध्यावसदिति सम्बन्धः ॥ १।३३।१९ ॥
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ १।३३।२० ॥
स बुद्धिमिति । तदा ब्रह्मदत्तस्य काम्पिल्याख्यायां पुर्यामावासकाले ॥ १।३३।२० ॥
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ १।३३।२१ ॥
तमिति । राजा रञ्जकः ॥ १।३३।२१ ॥
यथाक्रमं ततः पाणीञ्जग्राह रघुनन्दन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ १।३३।२२ ॥
यथेति । तासां पाणीन् जग्राह । देवपतिर्यथा देवपतिसदृशः, तत्तुल्यविभव इत्यर्थः ॥ १।३३।२२ ॥
स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।
युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा ॥ १।३३।२३ ॥
स्पृष्टेति । ततश्चूलिसूनुना । पाणाविति जात्येकवचनम् । विकुब्जाः विगतकुब्जभावाः शतं कन्या बभुः । विसर्गलोप आर्षः । बभुः कन्याशतमितिपाठः ॥ १।३३।२३ ॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनःपुनः ॥ १।३३।२४ ॥
स इति । वायुना मुक्ताः, कन्या इति शेषः । परमप्रीतः अनुकूलवरलाभेन परमप्रीतः । हर्षं विकुब्जत्वकृतम् ॥ १।३३।२४ ॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥ १।३३।२५ ॥
कृतेति । प्रेषयामास, काम्पिल्यामिति शेषः ॥ १।३३।२५ ॥
सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ १।३३।२६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
सोमदेति सार्द्धश्लोकः । सोमदा चूलिपुत्रमाता । पुत्रसदृशीं क्रियां दारक्रियाम्, दृष्ट्वेति शेषः । यथान्यायं यथाक्रमम् । स्नुषाः कन्याः कुशनाभपुत्रीः ॥ १।३३।२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रयस्त्रिंशःसर्गः ॥ ३३ ॥