०३२ कैशिकवंशकथा

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।

अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ १।३२।१ ॥

एवं शोणकूलदेशवैभवे पृष्टे अयं मद्वंश्यानां देश इति विवक्षन् स्वान्वयं प्रदर्शयति द्वात्रिंशे ब्रह्मयोनिरित्यादि । ब्रह्मा योनिः कारणं यस्य सः ब्रह्मयोनिः अयोनिजो ब्रह्मपुत्रः । महान्

ज्ञानशौर्यादिभिरितरब्रह्मपुत्रविलक्षणः । कौ भूमौ शेत इति कुशः । नारदादिवत् ब्रह्मलोके ऽनवस्थाय प्रजापालने दत्तादरतया भूमाववस्थानात् कुश इत्यस्य नाम, अत एव क्षत्रियव्यापारात् क्षत्रियो ऽयम् । अक्लिष्टं निर्बाधं व्रतं यस्य सो ऽक्लिष्टव्रतः अक्लिष्टव्रतश्चासौ धर्मज्ञश्चेति कर्मधारयः ॥ १।३२।१ ॥

स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।

वैदर्भ्यां जनयामास सदृशांश्चतुरः सुतान् ।

कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ॥ १।३२।२ ॥

स इति सार्द्धश्लोकः । युक्तायाम् अनुरूपायाम् ॥ १।३२।२ ॥

दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ।

तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ॥ १।३२।३ ॥

दीप्तीति सार्द्धश्लोकः । क्षत्रधर्मः प्रजापालनम् । पुष्कलं समग्रम् ॥ १।३२।३ ॥

क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ।

ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।

निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ १।३२।४ ॥

ऋषेः कुशस्य निवेशं सन्निवेशम् ॥ १।३२।४ ॥

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् ।

कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ १।३२।५ ॥

आधूर्तरजसो राम धर्मारण्यं महीपतिः ।

चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ १।३२।६ ॥

कुशाम्ब इत्यादिश्लोकद्वयम् ॥ १।३२।५,६ ॥

एषा वसुमती राम वसोस्तस्य महात्मनः ।

एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ १।३२।७ ॥

एषेति । एषा शोणकूलस्था । शैलवराः गिरिव्रजसञ्ज्ञामूलाः ॥ १।३२।७ ॥

सुमागधी नदी रम्या मगधान् विश्रुता ययौ ।

पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ १।३२।८ ॥

सुमागधीति । मगधदेशादागता मागधीति शोण एवोच्यते । आययावितिच्छेदः ॥ १।३२।८ ॥

सैषा हि मागधी राम वसोस्तस्य महात्मनः ।

पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ १।३२।९ ॥

सैषेति । पूर्वाभिचरिता पूर्वदेशात् प्रत्यङ्मुखवाहिनी । सुक्षेत्रा उभयपार्श्वत इति शेषः ॥ १।३२।९ ॥

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।

जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ १।३२।१० ॥

कुशनाभ इत्यादि । घृतवत्पुरुषं दृष्ट्वा द्रवती सत्यञ्चतीति घृताची । कुशनाभभार्या घृतवत्पुरुषं कृत्वाञ्चतीति वा । अप्सरसः ॥ १।३२।१० ॥

तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।

उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १।३२।११ ॥

गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।

आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १।३२।१२ ॥

तास्त्विति श्लोकद्वयम् । उद्यानभूमिमागम्य शतह्रदा इव स्थिताः । शतह्रदाः विद्युतः । नृत्यमानाः नृत्यन्त्यः वादयन्त्यः, वीणा इति शेषः । आमोदं सन्तोषम् । स्वलङ्कृताः, कुसुमचन्दनतिलकादिभिः ॥ १।३२।११,१२ ॥

अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।

उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १।३२।१३ ॥

अथेति । तारा इव बभुरिति शेषः ॥ १।३२।१३ ॥

ताः सर्वगुणसम्पन्ना रूपयौवनसंयुताः ।

दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १।३२।१४ ॥

ता इति । सर्वगुणसम्पन्नाः सर्वालङ्कारसम्पन्नाः । सर्वत्र आत्मा स्वरूपं यस्य सः सर्वात्मकः, सर्वत्र सञ्चारीत्यर्थः ॥ १।३२।१४ ॥

अहं वः कामये सर्वा भार्या मम भविष्यथ ।

मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १।३२।१५ ॥

अहमिति । वः भवतीः । मानुषे भवो मानुषः । भावः अनुरागः । त्यज्यतां तथा सति दीर्घमायुरवाप्स्यथ ॥ १।३२।१५ ॥

चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।

अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १।३२।१६ ॥

चलमिति । नित्यं सर्वदा अक्षयमिति मद्भार्यात्व इति शेषः ॥ १।३२।१६ ॥

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।

अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १।३२।१७ ॥

तस्येति । अक्लिष्टकर्मणः अप्रतिहतकर्मणः । ततः तद्वाक्यश्रवणेन । अपहास्य अथाब्रवीत् ॥ १।३२।१७ ॥

अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।

प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ १।३२।१८ ॥

अन्तरिति । अन्तश्चरसि प्राणरूपेण । भूतानां प्राणिनां प्रभावज्ञाः एवंविधप्रभावज्ञाः । अस्मान् ज्ञातभवत्प्रभावान् ॥ १।३२।१८ ॥

कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम ।

स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ १।३२।१९ ॥

कुशेति । स्थानात् अधिकारात् । देवं भवन्तम् ॥ १।३२।१९ ॥

माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।

नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ १।३२।२० ॥

माभूदिति । सः नः पिता ते कालः मृत्युः माभूत् । हे दुर्मेधः दुर्बुद्धे पितरं नावमन्यस्व । धर्मेण पितृप्रदानरूपेण । वरं स्वयमुपास्महे प्रतीक्षामहे, पिता स्वयं यस्मै दास्यति तं प्रतीक्षामह इत्यर्थः ॥ १।३२।२० ॥

पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।

यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ १।३२।२१ ॥

उक्तं विवृणोति पितेति ॥ १।३२।२१ ॥

तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।

प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ १।३२।२२ ॥

तासामिति । बभञ्ज कुब्जीचकार ॥ १।३२।२२ ॥

ताः कन्याः वायुना भग्ना विविशुर्नृपतेर्गृहम् ।

प्रापतन् भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः ॥ १।३२।२३ ॥

ता इति । सलज्जाः शरीरवैरूप्यादिति भावः ॥ १।३२।२३ ॥

स च ता दयिता दीनाः कन्याः परमशोभनाः ।

दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ १।३२।२४ ॥

स चेति । सम्भ्रान्तः पर्याकुलचित्तः ॥ १।३२।२४ ॥

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।

कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ १।३२।२५ ॥

किमिति । को धर्ममवमन्यते, बलात्कारं करोतीत्यर्थः । कुब्जाः वक्रशरीराः ॥ १।३२।२५ ॥

एवं राजा विनिश्वस्य समाधिं सन्दधे ततः ॥ १।३२।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥

एवमिति । पृष्ट्वेति शेषः । विनिश्वस्य व्यथित्वा । समाधिं किंवक्ष्यन्तीति तद्वचनश्रवणावधानम् ॥

१।३२।२६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥