अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥ १।३१।१ ॥
एवं कृतार्थो विश्वामित्रो जनकसुतात्वेनावतीर्णया श्रिया रामं योजयितुं व्याजेन मिथिलाप्रस्थानं प्रस्तौत्येकत्रिंशे अथेत्यादि । कृतार्थौ कृतविश्वामित्रप्रयोजनौ । प्रहृष्टेन सन्तुष्टेन अन्तरात्मना अन्तःकरणेन उपलक्षितौ ॥ १।३१।१ ॥
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ॥ १।३१।२ ॥
प्रभातायामिति । सहितौ अविनाभूतौ ॥ १।३१।२ ॥
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ १।३१।३ ॥
अभिवाद्येति । मधुरोदारोक्तौ हेतुः मधुरभाषिणाविति ॥ १।३१।३ ॥
इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ ।
आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥ १।३१।४ ॥
इमाविति । स्मेति भूतार्थसूचकमव्ययम् । इमौ स्म आज्ञापितं सर्वमनुष्ठितवन्तावित्यर्थः । मुनिशार्दूल ब्रह्मध्यायिषु श्रेष्ठ अनेन निरवधिकभक्तिमत्त्वं सूचितम् । किङ्करौ “भक्तिक्रीतो जनार्दनः”
इत्युक्तरीत्या त्वया क्रीतौ । समुपस्थितौ भक्तं त्वां विना क्षणमपि स्थातुमक्षमौ, “शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः । मां ध्याति पुरुषव्याघ्रस्ततो मे तदग्तं मनः ॥ " इतिवत्। आज्ञापय यथेष्टं क्षामकाले अल्पद्रव्याय क्रीतो राजपुत्रः पुनर्निवर्तयितुं नार्हः किल। शासनं करवाव किम्, कर्तव्ये न सङ्कोचः कार्य इत्यर्थः। अनेन स्वभक्ताय स्वान्यं न ददाति आहूय न ददाति स्वयं गत्वैव ददाति स्वात्मानमिष्टविनियोगार्हं करोतीत्युक्तम् ॥ १।३१।४ ॥
एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ १।३१।५ ॥
एवमिति । अत्र विश्वामित्रेण प्रतिवक्तव्ये ऋषिभिर्नियोजनं रामभक्त्यतिरेकेण । पुरस्कृत्य तदनुज्ञां लब्ध्वेत्यर्थः । यद्वा विश्वामित्रप्रमुखा मुनय इत्यर्थः ॥ १।३१।५ ॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥ १।३१।६ ॥
मैथिलस्येति । मिथिलाया ईश्वरो मैथिलः “तस्येदम्” इत्यण् । परमधर्मिष्ठः अतिशयेन धर्मवान्, भगवत्कैङ्कर्यरूपत्वेन काम्यनित्याभ्यामुत्कृष्ट इत्यर्थः । तस्य तस्यकृते ॥ १।३१।६ ॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं धनुरत्नं च तत्र तद्द्रष्टुमर्हसि ॥ १।३१।७ ॥
त्वमिति । गमिष्यसि, यदीति शेषः । धनुरत्नं धनुःश्रेष्ठम् । दीर्घाभाव आर्षः । चकाराद्यज्ञं चेत्यर्थः । तत् प्रसिद्धम् ॥ १।३१।७ ॥
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ १।३१।८ ॥
तस्य धनूरत्नं कुतः समायातम् ? तत्राह तद्धीति । मखे सदसि दैवतैर्दत्तमित्यन्वयः ॥ १।३१।८ ॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ १।३१।९ ॥
नास्येति । आरोपणं ज्यारोपणम् ॥ १।३१।९ ॥
धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १।३१।१० ॥
धनुष इति । जिज्ञासन्तः जिज्ञासमानाः ॥ १।३१।१० ॥
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥ १।३१।११ ॥
तदिति । यज्ञं द्रक्ष्यसि तत्र तद्धनुश्च द्रक्ष्यसीत्यन्वयः ॥ १।३१।११ ॥
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥ १।३१।१२ ॥
मखे किमर्थं दत्तम् ? तत्राह तद्धीति । सुनाभं शोभनमुष्टिबन्धनस्थानम् । दैवतैः दैवतेभ्यः । याचितं दत्तं चेत्यर्थः ॥ १।३१।१२ ॥
आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १।३१।१३ ॥
आयागेति । आयागभूतं धनुरुत्सवे प्राधान्येनार्चितं धनुरायाग उच्यते । अत्र विश्वामित्रेणैवानुक्तिः सर्वसम्मतत्वद्योतनाय ॥ १।३१।१३ ॥
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥ १।३१।१४ ॥
एवमिति । पूर्वं विश्वामित्रं पुरस्कृत्येत्युक्त्या प्राधान्यात् विश्वामित्र उक्तवानित्यनूद्यते ॥ १।३१।१४ ॥
स्वस्ति वो ऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥ १।३१।१५ ॥
स्वस्तीति । जाह्नवीतीरे स्थितं हिमवन्तं गमिष्यामीत्यन्वयः । शिलोच्चयं पर्वतं सिद्धाश्रमाद्धिमवद्गमनं मिथिलामार्गेणेतिज्ञेयम् ॥ १।३१।१५ ॥
प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् ॥
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १।३१।१६ ॥
प्रदक्षिणमिति । ततः वनदेवतामन्त्रणानन्तरम् ॥ १।३१।१६ ॥
तं प्रयान्तं मुनिवरमन्वयादनुसारिणम् ।
शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ १।३१।१७ ॥
तमिति । अनुसारिणम् उत्तरदिगनुसारिणं तम् । प्रायेण बाहुल्येन । ब्रह्मवादिनां शकटीशतमात्रं शकट्यः शकटानि तेषां शतमात्रं शतप्रमाणम् । अन्वयात् अन्वगात् । यद्वा शतमात्रमन्वयात्, इतरत्सर्वं सिद्धाश्रम एव स्थितमित्यर्थः । अत्र शकटीशब्देन शकट्यारोपिताग्निहोत्रसम्भारादिकमुच्यते ॥ १।३१।१७ ॥
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ १।३१।१८ ॥
मृगेति । तद्भक्त्येति भावः ॥ १।३१।१८ ॥
निवर्तयामास ततः पक्षिसङ्घान् मृगानपि ॥ १।३१।१९ ॥
निवर्तयामासेत्यर्द्धम् । अत्र पक्ष्यादिनिवर्तनेन मुनीनां गमनं द्योतितम् ॥ १।३१।१९ ॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
वासं चक्रुर्मुनिवराः शोणाकूले समागताः ॥ १।३१।२० ॥
त इति । शोणः पुन्नदः, स एव शोणेत्यपि व्यपदिश्यते ॥ १।३१।२० ॥
ते ऽस्तङ्गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ १।३१।२१ ॥
त इति । शोणे स्नात्वा दिनकरे ऽस्तङ्गते सति हुतहुताशना इत्यन्वयः ॥ १।३१।२१ ॥
रामो ऽपि सह सौमित्रिर्मुनींस्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ १।३१।२२ ॥
राम इति । अभिपूज्य अभिवाद्य ॥ १।३१।२२ ॥
अथ रामो महातेजा विश्वामित्रं महामुनिम् ।
पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ १।३१।२३ ॥
अथेति । स्पष्टम् ॥ १।३१।२३ ॥
भगवन् कस्य देशो ऽयं समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ १।३१।२४ ॥
भगवन्निति । अयं शोणकूलस्थः ॥ १।३१।२४ ॥
चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ १।३१।२५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
चोदित इति । निखिलं वृत्तान्तमित्यर्थः ॥ १।३१।२५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणे मणिमञ्जीराख्याने बालकाण्डव्याख्यान एकत्रिंशः सर्गः ॥ ३१ ॥