०३० यज्ञरक्षणम्

अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ ।

देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ १।३०।१ ॥

सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचिते काले चाब्रूताम् ॥ १।३०।१ ॥

भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।

संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥ १।३०।२ ॥

भगवन्निति । संरक्षणीयौ निवारणीयौ । धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च रक्षणम् । अत्र अनिष्टनिवृत्तिः तत्क्षणं स कालः । नातिवर्तेत अज्ञातो नातिक्रामेत् ॥ १।३०।२ ॥

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।

सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ १।३०।३ ॥

एवमिति । युयुत्सया योद्धुमिच्छया । प्रशशंसुः प्रोचुः ॥ १।३०।३ ॥

अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।

दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥ १।३०।४ ॥

अद्येति । रक्षतमिति लोण्मध्यमपुरुषद्विवचनम् । एतद्दिनमारभ्य षड्रात्रपर्यन्तं मुनिर्मौनित्वं गमिष्यति, अतो वयं वदाम इत्यर्थः ॥ १।३०।४ ॥

तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।

अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ १।३०।५ ॥

ताविति । षडहोरात्रं षण्णामहोरात्राणां समाहारः षडहोरात्रम् तत् ॥ १।३०।५ ॥

उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ ।

ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ १।३०।६ ॥

उपासाञ्चक्रतुरिति । उपासाञ्चक्रतुः ऊषतुः । यत्तौ सन्नद्धौ । परमं धनुर्ययोस्तौ परमधन्विनौ । व्रीह्यादित्वादिनिः ॥ १।३०।६ ॥

अथ काले गते तस्मिन् षष्ठे ऽहनि समागते ।

सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥ १।३०।७ ॥

अथेति । काले पञ्चदिनात्मके गते । तस्मिन् प्रधाने अहनि सुत्यादिने । समाहितः एकाग्रचित्तः । अत्राद्यप्रभृति षड्रात्रमित्युक्त्या पूर्वसर्गे तत्पूर्वदिने दीक्षाप्रवेशोक्त्या च सप्तरात्रनिर्वर्त्यः सत्रविशेषो ऽयमिति गम्यते ॥ १।३०।७ ॥

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।

प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ॥ १।३०।८ ॥

रामस्येति । वेदिप्रज्वलनमुत्पातो राक्षसागमसूचकः । उपाध्यायः विश्वामित्रः । पुरोहिता ऋत्विजः ॥ १।३०।८ ॥

सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।

विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥ १।३०।९ ॥

एतद्विवृणोति सदर्भेति । चमसं नाम पानपात्रम् । स्रुक् होमपात्रम् । उच्चयः समूहः । कुसुमोच्चयो ऽलङ्कारार्थः ॥ १।३०।९ ॥

मन्त्रवच्च यथान्यायं यज्ञो ऽसौ सम्प्रवर्तते ।

आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ॥ १।३०।१० ॥

मन्त्रवदिति । ननु रक्षोघ्नमन्त्रजपे क्रियमाणे कथं राक्षसागमनप्रसक्तिः ? न कथञ्चित्, किन्तु दूरत एवाकाशे मेघवद्रुधिरं ववर्षुः । तदिदमाह आकाश इति । भयानकः भयङ्करः ॥ १।३०।१० ॥

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।

तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ १।३०।११ ॥

आवार्येति । प्रावृषि वर्षाकाले निर्गतो मेघो यथातथाभ्यधावताम् ॥ १।३०।११ ॥

मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।

आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ॥ १।३०।१२ ॥

मारीच इति । भीमसङ्काशाः भयङ्कराः ॥ १।३०।१२ ॥

सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता ।

सहसा ऽभिद्रुतो रामस्तानपश्यत्ततो दिवि ॥ १।३०।१३ ॥

सेति । अभिद्रुतः अभिमुखं धावन् ॥ १।३०।१३ ॥

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।

लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥ १।३०।१४ ॥

ताविति स्वष्टम् ॥ १।३०।१४ ॥

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।

मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १।३०।१५ ॥

पश्येति । पिशिताशनान् मांसभक्षकान् । एतद्विधूननार्थं मानवास्रं प्रयोक्ष्य इति भावः ॥ १।३०।१५ ॥

मानवं परमोदारमस्त्रं परमभास्वरम् ।

चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ १।३०।१६ ॥

मानवमिति । अत्रादावित्युक्त्वेत्युपस्कार्यम् । ननु सर्वराक्षसेष्वस्त्रप्रयोगं प्रतिज्ञाय मारीचोरसि तत्प्रयोगः कथमिति चेन्न पूर्वश्लोके राक्षसशब्दस्य मारीचमात्रपरत्वात् ॥ १।३०।१६ ॥

स तेन परमास्त्रेण मानवेन समाहतः ।

सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १।३०।१७ ॥

स इति । सागरसम्प्लवे समुद्रपूरे । अत्र गायत्रीद्वितीयाक्षरं सः ॥ १।३०।१७ ॥

विचेतनं विघूर्णन्तं शीतेषु बलताडितम् ।

निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १।३०।१८ ॥

विचेतनमिति । शीतेषु शब्दो ऽवयववृत्त्या मानवास्त्रे वर्तते । दृश्य दृष्ट्वा । मारीचस्य प्राणरक्षणं भाविकार्यान्तरसाधनाय ॥ १।३०।१८ ॥

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।

राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥ १।३०।१९ ॥

इमानिति । वधप्रयोजकानि निर्घृणत्वादीनि ॥ १।३०।१९ ॥

सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् ।

सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ॥ १।३०।२० ॥

सङ्गृह्येति । अद्भुतं यथातथा चिक्षेप ॥ १।३०।२० ॥

शेषान् वायव्यमादाय निजघान महायशाः ।

राघवः परमोदारो मुनीनां मुदमावहन् ॥ १।३०।२१ ॥

शेषानिति । निजघान हिंसितवान् ॥ १।३०।२१ ॥

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।

ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ १।३०।२२ ॥

स इति । पुरा विजये असुरविजये ॥ १।३०।२२ ॥

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।

निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ १।३०।२३ ॥

अथेति । निरीतिकाः निर्बाधाः ॥ १।३०।२३ ॥

कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।

सिद्धाश्रममिदं सत्यं कृतं राम महायशः ॥ १।३०।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥ ३० ॥

कृतार्थ इति । गुरुवचः पितृवचः ॥ १।३०।२४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥