०२८ अस्त्रसंहारोपदेशः

प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः शुचिः ।

गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ १।२८।१ ॥

अस्त्रसंहारकप्रतिग्रहो ऽष्टाविंशे प्रतिगृह्येत्यादि । गच्छन् गमिष्यन् । “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ॥ १।२८।१ ॥

गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरासुरैः ।

अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ॥ १।२८।२ ॥

गृहीतेति । संहारम् अवगतप्रयोगानामस्त्राणां पुनरुपसंहारम्,

तत्तदस्त्रमूलमन्त्रवर्तितत्तदस्त्रोपसंहारमन्त्रजातमित्यर्थः । जात्येकवचनम् ॥ १।२८।२ ॥

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः ।

संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥ १।२८।३ ॥

एवमिति । धृतिमान् प्रीतिमान् ॥ १।२८।३ ॥

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।

प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ १।२८।४ ॥

लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ ।

दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥ १।२८।५ ॥

पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।

ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ ॥ १।२८।६ ॥

सत्यवन्तमित्यादिसप्तश्लोक्येकान्वया । सत्यवदादीनि उपसंहाराणां नामानि ॥ १।२८।४ ६ ॥

योगन्धरहरिद्रौ च दैत्यप्रशमनौ तथा ।

सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ १।२८।७ ॥

पितृसौमनसं चैव विधूतमकरावुभौ ।

करवीरकरं चैव धनधान्यौ च राघव ॥ १।२८।८ ॥

कामरूपं कामरुचिं मोहमावरणं तथा ।

जृम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥ १।२८।९ ॥

सार्चिर्मालीत्यादिषु प्रथमा द्वितीयार्थे ॥ १।२८।७ ९ ॥

कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।

प्रतीच्छ मम भद्रं ते पात्रभूतो ऽसि राघव ॥ १।२८।१० ॥

मम मत्तः ॥ १।२८।१० ॥

बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ॥ १।२८।११ ॥

[जग्राह मन्त्रग्रामं ते ऽप्युपतस्थुश्च राघवम् ।]

बाढमिति अर्द्धम् । बाढमित्यङ्गीकारे । प्रहृष्टेनान्तरात्मना प्रतिजग्राहेति शेषः ॥ १।२८।११ ॥

दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ।

केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा ॥ १।२८।१२ ॥

चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ।

रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ॥ १।२८।१३ ॥

मन्त्रस्वीकारानन्तरं मन्त्रदेवतासाक्षात्कारं दर्शयति दिव्येत्यादिश्लोकद्वयेन । दिव्याः श्लाघ्याः भास्वराश्च देहा येषां ते तथा । मूर्तिमन्तः शरीरकाठिन्यवन्तः “मूर्तिः काठिन्यकाययोः” इत्यमरः । सुखप्रदाः आह्लादकाः । प्रह्वाः नम्राः । अञ्जलिपुटाः अञ्जलिपुटयुक्ताः । अर्श आदित्वादच् ।

प्राञ्जलयः कृताञ्जलयः । मधुरभाषिणः मधुरभाषणशीलाः, केचित्पुरुषाः राममब्रुवन् ॥ १।२८।१२,१३ ॥

इमे स्म नरशार्दूल शाधि किं करवाम ते ॥ १।२८।१४ ॥

इम इति अर्द्धम् । स्मेत्यार्षः सलोपः । शाधि आज्ञापय । “शाहौ” इति शास्तेः शादेशः ॥ १।२८।१४ ॥

मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।

गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥ १।२८।१५ ॥

मानसा इति । यथेष्टं गम्यतामित्यन्वयः ॥ १।२८।१५ ॥

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।

एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥ १।२८।१६ ॥

अथेति । ते पुरुषाः ॥ १।२८।१६ ॥

स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।

गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ १।२८।१७ ॥

स चेति । तान् उपसंहारमन्त्रान् । श्लक्ष्णं व्यक्तम् ॥ १।२८।१७ ॥

किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः ।

वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १।२८।१८ ॥

दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।

नाना प्रकारैः शकुनैर्वल्गुनादैरलङ्कृतम् ॥ १।२८।१९ ॥

किं न्विति श्लोकद्वयम् । इतः अस्मिन् प्रदेशे । कौतूहलं श्रोतुमिति शेषः ॥ १।२८।१८,१९ ॥

निस्सृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ॥ १।२८।२० ॥

निस्सृता इति । कान्तारात् ताटकावनात् । रोमहर्षणात् रोमाञ्चकरात्, भयङ्करादिति यावत् । अर्द्धमेकम् ॥ १।२८।२० ॥

अनया त्ववगच्छामि देशस्य सुखवत्तया ।

सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ॥ १।२८।२१ ॥

अनयेति । अनया देशस्य सुखवत्तया इदमाश्रमपदमित्यवगच्छामि, कस्येति न जानामि, तत्सर्वं शंस, आदितःप्रभृति वदेत्यर्थः ॥ १।२८।२१ ॥

सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ।

तव यज्ञस्य विघ्नाय दुरात्मानो महामते ॥ १।२८।२२ ॥

भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ।

रक्षितव्या क्रिया ब्रह्मन् मम वध्याश्च राक्षसाः ॥ १।२८।२३ ॥

सम्प्राप्ता इत्यादिश्लोकद्वयम् । ते पूर्वोक्ताः । तव यज्ञस्य विघ्नाय यत्राश्रमपदे सम्प्राप्ताः सा च तव याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश्च वध्याः तस्याश्रमस्य को देशः ॥ १।२८।२२,२३ ॥

एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥ १।२८।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥

एतदित्यर्धम् ॥ १।२८।२४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥