अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ १।२७।१ ॥
अस्त्रगणलाभः सप्तविंशे अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्दहासं कृत्वा ॥ १।२७।१ ॥
परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया शुक्तो ददाम्यस्त्राणि सर्वशः ॥ १।२७।२ ॥
परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या परमया युक्त इति परितुष्टो ऽस्मीत्यस्यानुवादः । सर्वशः सर्वाणि ॥ १।२७।२ ॥
देवासुरगणान् वापि सगन्धर्वोरगानपि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ १।२७।३ ॥
देवेति । आजौ युद्धे । जयिष्यसि, स्वार्थे णिच् ॥ १।२७।३ ॥
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ १।२७।४ ॥
तानीति । दण्डचक्रादयश्चक्रभेदाः ॥ १।२७।४ ॥
धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ॥ १।२७।५ ॥
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ॥ १।२७।६ ॥
धर्मेति । सार्द्धश्लोकद्वयमेकान्वयम् । शूलवरं शूलश्रेष्ठम् । ब्रह्मशिरः ब्रह्मास्त्रादन्यत् ॥ १।२७।५,६ ॥
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ।
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ १।२७।७ ॥
गदे इति । मोदकीशिखरीसञ्ज्ञे ये द्वे गदे स्तः ते उभे दास्यामीति सम्बन्धः ॥ १।२७।७ ॥
धर्मपाशमहं राम कालपाशं तथैव च ।
पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ १।२७।८ ॥
धर्मेति । वारुणमित्यस्य काकाक्षिन्यायेनोभयत्रान्वयः ॥ १।२७।८ ॥
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ।
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ १।२९।९ ॥
अशनी इति । शुष्काशनिराद्राशनिरित्यन्वयः । पिनाकिन इदं पैनाकम् ॥ १।२७।९ ॥
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
वायव्यं प्रथनं नाम ददामि च तवानघ ॥ १।२७।१० ॥
आग्नेयमिति । आग्नेयम् अग्निदेवताकम् । दयितम्, अग्नेरिति शेषः ॥ १।२७।१० ॥
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ १।२७।११ ॥
अस्त्रमिति । शक्तिद्वयं विष्णुशक्तिः रुद्रशक्तिश्चेति ॥ १।२७।११ ॥
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ।
धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ १।२७।१२ ॥
कङ्कालमिति । स्पष्टम् ॥ १।२७।१२ ॥
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।
असिरत्नं महाबाहो ददामि नृवरात्मज ॥ १।२७।१३ ॥
वैद्याधरमिति । वैद्याधरं नन्दनं नामासिरत्नम्, महास्त्रमित्यर्थः । असिर्हि विद्याधरास्त्रम् ॥ १।२७।१३ ॥
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ॥ १।२७।१४ ॥
गान्धर्वमिति । प्रस्वापनप्रशमने च गान्धर्वे ॥ १।२७।१४ ॥
दर्पणं शोषणं चैव सन्तापनविलापने ।
मदनं चैव दुर्द्धर्षं कन्दर्पदयितं तथा ॥ १।२७।१५ ॥
दर्पणमिति । विलापयति परिदेवयतीति विलापनम् । मदयतीति मदनम् ॥ १।२७।१५ ॥
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ १।२७।१६ ॥
पैशाचमिति । प्रतीच्छ गृहाण ॥ १।२७।१६ ॥
तामसं नरशार्दूल सौमनं च महाबल ।
संवर्तं चैव दुर्द्धर्षं मौसलं नाम नामतः ॥ १।२७।१७ ॥
तामसमिति । मुसलान्मौसलमन्यत् ॥ १।२७।१७ ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
घोरं तेजःप्रभं नाम परतेजो ऽपकर्षणम् ॥ १।२७।१८ ॥
सत्यमिति । स्पष्टम् ॥ १।२७।१८ ॥
सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १।२७।१९ ॥
सौम्येति । शीतेषुं शीतेषुनामकम् ॥ १।२७।१९ ॥
एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ १।२७।२० ॥
एतानिति । कामरूपान् ऐच्छिकशरीरान् ॥ १।२७।२० ॥
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ १।२७।२१ ॥
स्थित इति । मन्त्रग्राममित्यनेन पूर्वोक्तास्त्रप्रदानं नाम तत्तन्मन्त्रप्रदानमित्युक्तं भवति । तेषां कृशाश्वजन्यत्वमधिष्ठातृदेवताद्वारा ॥ १।२७।२१ ॥
सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ १।२७।२२ ॥
सर्वेति । सर्वसङ्ग्रहणं कार्त्स्न्येन सङ्ग्रहणम् ॥ १।२७।२२ ॥
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ १।२७।२३ ॥
जपत इति । अस्त्रमन्त्रान् दत्त्वा मन्त्रदेवता अपि रामाज्ञानुवर्तिनीः कारयितुं ताः स्मृत्वा जपतो विश्वामित्रस्याज्ञया राघवम् उपतस्थुः सिषेविरे ॥ १।२७।२३ ॥
ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
इमे स्म परमोदाराः किङ्करास्तव राघव ॥ १।२७।२४ ॥
ऊचुरिति । राघवेत्यनन्तरमितिकरणं बोध्यम् ॥ १।२७।२४ ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ १।२७।२५ ॥
प्रतिगृह्य अस्त्रसेवामङ्गीकृत्य । समालभ्य संस्पृश्य “आलम्भः स्पर्शहिंसयोः” इत्यमरः । मानसाः मनो ऽनुसारिणः, चिन्तामात्रे उपस्थिता इति यावत् । भविष्यध्वं भवत, मानसास्सन्तो मां प्राप्नुतेति वार्थः । “भू प्राप्तौ” इतिधातुः ॥ १।२७।२५ ॥
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ १।२७।२६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥ २७ ॥
तत इति । गमनाय गन्तुम् “तुमर्थाच्च भाववचनात्” इति चतुर्थी ॥ १।२७।२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥