मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १।२६।१ ॥
अथ ताटकावधः षड्विंशे मुनेरित्यादि । अक्लीबं धृष्टम् ॥ १।२६।१ ॥
पितुर्वचननिर्देशात्पितुर्वचनगौरवात् ।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ १।२६।२ ॥
पितुरिति । पितुर्वचननिर्देशात् नियोगात्, कौशिकवचनं त्वया कर्तव्यमित्येवंरूपात् पितृवचनगौरवात् । बहुमानाच्च । इति उक्तप्रकारं कौशिकस्य वचनं कर्तव्यमिति मानसव्यापारः ॥ १।२६।२ ॥
अनुशिष्टो ऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ १।२६।३ ॥
मुनिं प्रत्याह अनुशिष्ट इति ॥ १।२६।३ ॥
सो ऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः ।
करिष्यामि न सन्देहस्ताटकावधमुत्तमम् ॥ १।२६।४ ॥
सो ऽहमिति । श्रुत्वा स्थितः सो ऽहमित्यन्वयः ॥ १।२६।४ ॥
गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च ।
तव चैवाप्रमेयस्य वचनं कर्त्तुमुद्यतः ॥ १।२६।५ ॥
गोब्राह्मणेति । उद्यतः, अहमिति शेषः ॥ १।२६।५ ॥
एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः ।
ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ॥ १।२६।६ ॥
एवमिति । स्पष्टम् ॥ १।२६।६ ॥
तेन शब्देन वित्रस्तास्ताटकावनवासिनः ।
ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ॥ १।२६।७ ॥
तेनेति । सुसङ्क्रुद्धा प्रकृत्या अतिकोपना । मोहिता किङ्कर्तव्यमिति सम्भ्रान्ता आसीत् ॥ १।२६।७ ॥
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।
श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिस्सृतः ॥ १।२६।८ ॥
तमिति । अभिनिध्याय आकर्ण्य क्रोधमूर्च्छिता आसीत् श्रुत्वा क्रुद्धा सा ऽभ्यद्रवच्च ॥ १।२६।८ ॥
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
प्रमाणेनातिवृद्धां च लक्ष्मणं सो ऽभ्यभाषत ॥ १।२६।९ ॥
तामिति । प्रमाणेन औन्नत्येन ॥ १।२६।९ ॥
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः ।
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥ १।२६।१० ॥
पश्येति । भैरवं भयङ्करम् । दारुणं विकृतम् ॥ १।२६।१० ॥
एनां पश्य दुराधर्षां मायाबलसमन्विताम् ।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ १।२६।११ ॥
एनामिति । मायाबलम् अन्तर्द्धानबलम् । विनिवृत्तां पराङ्मुखीम् । एतावतैव गुरुवचनानुष्ठानसिद्धेरिति भावः ॥ १।२६।११ ॥
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ॥ १।२६।१२ ॥
न हीति । वीर्यगतिहननं हस्तपादभञ्जनेन ॥ १।२६।१२ ॥
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता ।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १।२६।१३ ॥
एवमिति । स्पष्टम् ॥ १।२६।१३ ॥
विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य ताम् ।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ १।२६।१४ ॥
विश्वामित्र इति । अस्त्वित्यत्र इतिशब्दो ऽध्याहार्यः । अतिमानुषशक्तिं जानन्नपि ताटकायाः क्रौर्यातिशयं दृष्ट्वातिशङ्कया महर्षिर्मङ्गलमाशास्ते ॥ १।२६।१४ ॥
उद्धून्वाना रजो घोरं ताटका राघवावुभौ ।
रजोमोहेन महता मुहूर्तं सा व्यमोहयत् ॥ १।२६।१५ ॥
उद्धून्वानेति । उद्धून्वाना उत्किरन्ती ॥ १।२६।१५ ॥
ततो मायां समास्थाय शिलावर्षेण राघवौ ।
अवाकिरत्सुमहता ततश्चुक्रोध राघवः ॥ १।२६।१६ ॥
तत इति । मायाम् अन्तर्द्धानशक्तिम् ॥ १।२६।१६ ॥
शिलावर्षं महत्तस्याः शरवर्षेण राघवः ।
प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥ १।२६।१७ ॥
शिलेति । प्रतिहत्य भङ्क्त्वा करौ चिच्छेद शिलावर्षहेतुत्वात् । पत्रिभिः शरैः ॥ १।२६।१७ ॥
ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् ।
सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥ १।२६।१८ ॥
तत इति । अभ्याशे समीपे । गर्जतीं गर्जन्तीम् । नुमभाव आर्षः ॥ १।२६।१८ ॥
कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः ।
अन्तर्द्धानं गता यक्षी मोहयन्तीव मायया ।
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह ॥ १।२६।१९ ॥
कामेति । कामरूपधरा कामरूपधरणशक्ता, अत एवानेकशो रूपाणि कृत्वा मायया अन्तर्द्धानं गता सती भैरवमश्मवर्षं विमुञ्चन्ती मोहयन्तीव विचचार । अर्द्धत्रयम् ॥ १।२६।१९ ॥
ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ।
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ॥ १।२६।२० ॥
तत इति । श्रीमान् स्वत एव ताटकावधहेतुप्राप्तिकृतहर्षेण कान्तिमान् ॥ १।२६।२० ॥
अलं ते घृणया वीर पापैषा दुष्टचारिणी ।
यज्ञविघ्नकरी यक्षी पुरा वर्द्धति मायया ॥ १।२६।२१ ॥
अलमिति । दुष्टचारिणी दुष्टं यथा तथा आचरणशीला, अन्तर्द्धानशक्त्या अश्मवर्षशीलेत्यर्थः । एतेन ऐहिकनाशकत्वमुक्तम् । पारलौकिकनाशकत्वमप्याह यज्ञविघ्नकरीति । पुरा वर्द्धति वर्द्धिष्यते “यावत्पुरानिपातयोर्लट्” ॥ १।२६।२१ ॥
वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते ।
रक्षांसि सन्ध्याकालेषु दुर्द्धर्षाणि भवन्ति वै ॥ १।२६।२२ ॥
वध्यतामिति । सन्ध्या पुरा प्रवर्तते प्रवर्तिष्यते तावत् पूर्वमेव वध्यताम् । सन्ध्याप्रवृत्तौ का हानिस्तत्राह रक्षांसीति ॥ १।२६।२२ ॥
इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याभिवर्षतीम् ।
दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः ॥ १।२६।२३ ॥
इतीति । अभिवर्षतीम् । अभिवर्षन्तीं शब्दवेधित्वं श्रुतः शब्दो यस्मादुत्पन्नः तद्वेधित्वम् ॥ १।२६।२३ ॥
सा रुद्धा शरजालेन मायाबलसमन्विता ।
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ॥ १।२६।२४ ॥
सेति । अभिदुद्राव अप्रयोजकमन्तर्द्धानं विहायेत्यर्थः । विनेदुषी नादं कुर्वन्ती ॥ १।२६।२४ ॥
तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।
शरेणोरसि विव्याध सा पपात ममार च ॥ १।२६।२५ ॥
तामिति । अशनीम् । “सर्वतो ऽक्तिन्नर्थादित्येके” इति ङीष् ॥ १।२६।२५ ॥
तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा ।
साधु साध्विति काकुत्स्थं सुराश्च समपूजयन् ॥ १।२६।२६ ॥
तामिति । भीमसङ्काशां भीमरूपाम् । सुरपतिः सुराश्च समपूजयन् ॥ १।२६।२६ ॥
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ।
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ॥ १।२६।२७ ॥
उवाचेति । स्पष्टम् ॥ १।२६।२७ ॥
मुने कौशिक भ्ाद्रं ते सेन्द्राः सर्वे मरुद्गणाः ।
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ॥ १।२६।२८ ॥
मुने इति । सर्वे वयमिति शेषः । स्नेहं दर्शय स्नेहकार्यं प्रवर्तय ॥ १।२६।२८ ॥
प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ।
तपोबलभृतो ब्रह्मन् राघवाय निवेदय ॥ १।२६।२९ ॥
एतदेवाह प्रजापतेरिति ॥ १।२६।२९ ॥
पात्रभूतश्च ते ब्रह्मन् तवानुगमने धृतः ।
कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ॥ १।२६।३० ॥
पात्रेति । अयमिति शेषः । अनुगमने शुश्रूषणे । धृतः स्थिरधीः ॥ १।२६।३० ॥
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथागतम् ।
विश्वामित्रं पुरस्कृत्य ततः सन्ध्या प्रवर्तते ॥ १।२६।३१ ॥
एवमिति । पुरस्कृत्य पूजयित्वा जग्मुः । सन्ध्या सायंसन्ध्या प्रवर्तते स्म ॥ १।२६।३१ ॥
ततो मुनिवरः प्रीतस्ताटकावधतोषितः ।
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ॥ १।२६।३२ ॥
तत इति । स्पष्टम् ॥ १।२६।३२ ॥
इहाद्य रजनीं राम वसाम शुभदर्शन ।
श्वःप्रभाते गमिष्यामस्तदाश्रमपदं मम ॥ १।२६।३३ ॥
इहेति । तत् पूर्वोक्तम् ॥ १।२६।३३ ॥
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।
उवास रजनीं तत्र ताटकाया वने सुखम् ॥ १।२६।३४ ॥
विश्वामित्रेति । स्पष्टम् ॥ १।२६।३४ ॥
मुक्तशापं वनं तच्च तस्मिन्नेव तदा ऽहनि ।
रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ १।२६।३५ ॥
मुक्तेति । मुक्तशापं मुक्तोपद्रवम् । तस्मिन्नहनि । तदैव तत्क्षण एव । चैत्ररथं कुबेरोद्यानम् ॥ १।२६।३५ ॥
निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः ।
उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ॥ १।२६।३६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥ २६ ॥
निहत्येति । प्रतिबोध्यमानः, मुनिनेति शेषः । कौसल्या सुप्रजा रामेत्येवं प्रबोधितो ऽभूदित्यर्थः । उपजातिवृत्तम् ॥ १।२६।३६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षड्विंशः सर्गः ॥ २६ ॥