०२४ कामाश्रमदर्शनम्

ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ ।

विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १।२४।१ ॥

एवं कामाश्रमपदं रामचरणनलिनविन्यासेन कृतार्थीकृत्य ताटकावनमपि निष्कल्मषीकर्तुं रामं प्रापयति मुनिश्चतुर्विंशे तत इत्यादि । विमले सूर्योदय इत्यर्थः । नद्याः गङ्गायाः ॥ १।२४।१ ॥

ते च सर्वे महात्मानो मुनयः संशितव्रताः ।

उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ १।२४।२ ॥

ते चेति । उपस्थाप्य आनाय्य ॥ १।२४।२ ॥

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।

अरिष्टं गच्छ पन्थानं माभूत्कालविपर्ययः ॥ १।२४।३ ॥

आरोहत्विति । राजपुत्राभ्यां पुरस्कृतः पूजितः । ताटकावधाभिप्रायेणाहुः अरिष्टमिति । अरिष्टं शुभं यथा भवति तथा । “अरिष्टं पापशुभयोः” इति हलायुधः । कालविपर्ययः कालविलम्ब इति यावत् ॥ १।२४।३ ॥

विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।

ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ १।२४।४ ॥

विश्वामित्र इति । ततार तरितुं प्रवृत्तः । सरितं गङ्गां, सागरं गच्छतीति सागरङ्गमाम् । खश्प्रकरणे “गमेस्सुप्युपसङ्ख्यानम्” इति खश् ॥ १।२४।४ ॥

ततः शुश्राव वै शब्दमतिसंरम्भवर्द्धितम् ।

मध्यमागम्य तोयस्य सह रामः कनीयसा ॥ १।२४।५ ॥

तत इति । अतिसंरम्भेण तरङ्गपरस्परसङ्घट्टजक्षोभेण । वर्द्धितम् अतिप्रवृद्धम् ॥ १।२४।५ ॥

अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ १।२४।६ ॥

अथेति । भिद्यमानस्य परस्परं मिलितस्य वारिणः । तुमलः निबिडो ऽयं ध्वनिः । किं वारिसम्भेदकृतः उतान्यकृत इतिप्रश्नः ॥ १।२४।६ ॥

राघवस्य वचः श्रुत्वा कौतूहलसमन्वितः ।

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ १।२४।७ ॥

राघवस्येति । निश्चयं कारणनिश्चयम् ॥ १।२४।७ ॥

कैलासपर्वते राम मनसा निर्मितं सरः ।

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ १।२४।८ ॥

अस्य ध्वनेः कारणं वारिसम्भेद एवेति वक्ष्यन् कस्या वारिण इति प्रक्ष्यतीति मत्वा सरय्वा इति वक्तुं सरयूवैभवमाह कैलासेति । कैलासपर्वते कुबेरभवने । ब्रह्मणा मनसा निर्मितं सरो ऽस्ति । तेन

मनसा निर्मितत्वेन इदं सरः मानसमित्युच्यते ॥ १।२४।८ ॥

तस्मात्सुस्राव सरसः सा ऽयोध्यामुपगूहते ।

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ १।२४।९ ॥

तस्मादिति । उपगूहते आवृत्य प्रवहते । अयोध्यायाः पश्चिमभागमारभ्य उत्तरदिग्भागेन पूर्वभागमागत्य अङ्गदेशे गङ्गया सह युज्यते सरयूः, तयोः नद्योः सम्भेदे स्थाण्वाश्रमः, तस्मात् सरयूयुक्तगङ्गातरणदशायां सरयूजलमुन्नतात् भागीरथ्यां पततीति तस्य ध्वनिरिति ज्ञयेम् । सरयूशब्दं निर्वक्ति सर इति । सरसो यौतीति सरयूः । पाठान्तरं सरसो यातीति सरयूः । सकारस्य शकन्ध्वादित्वात्पररूपम्, “ऊङुतः” इति स्त्रीप्रत्यय ऊकारः । कस्मात्सरसः प्रवृत्तेत्यत आह ब्रह्मसरश्च्युतेति ॥ १।२४।९ ॥

तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ।

वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु ॥ १।२४।१० ॥

तस्येति । या गङ्गामभिवर्त्तते गङ्गया संयुज्यते । अयमतुलः शब्दः तस्याः वारिसङ्क्षोभजः । सन्धिरार्षः । नियतः नियतमनस्कः सन् ताभ्यां नदीभ्यां प्रणामं कुरु । को ऽयं ध्वनिरिति रामेण पृष्टे सरयूवारिसङ्घट्टज इति वक्तव्ये तदुत्पत्तिकथनं नन्तव्यत्वाय ॥ १।२४।१० ॥

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ १।२४।११ ॥

ताभ्यामिति । तीरं दक्षिणमिति नदीसम्भेदे रात्रिमुषित्वाप्रातर्दक्षिणाभिमुखा गङ्गां तेरुः । ततो गङ्गादक्षिणतीरे ताटकावनमिति ज्ञेयम् ॥ १।२४।११ ॥

स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १।२४।१२ ॥

स इति । सङ्काशत इति सङ्काशः, घोरसङ्काशं घोररूपमिति यावत् । अविप्रहतम् अक्षुण्णम्, जनसञ्चाररहितमित्यर्थः ॥ १।२४।१२ ॥

अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।

भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारुतैः ॥ १।२४।१३ ॥

नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवैः स्वनैः ।

सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ १।२४।१४ ॥

धवाश्वकर्णककुभैर्मरुतिन्दुकपाटलैः ।

सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १।२४।१५ ॥

अहो इत्यादिश्लोकत्रयम् । झिल्लिका भूतलाद्यन्तरितकीटविशेषः । भैरवैः भयङ्करैः । श्वापदैः क्रूरमृगैः । शकुन्तै भासैः । “शकुन्तौ भासपक्षिणौ” इत्यमरः । शकुनैः पक्षिभिः । वाश्यद्भिः कुत्सितं शब्दायमानैः । धवः अश्वकर्णः ककुभः मरुतिन्दुकः पाटलः इदं वनमेतादृशम् । अहो इदं वनं दारुणम् । किन्नु किन्नामकमित्यन्वयः ॥ १।२४।१३ १५ ॥

तमुवाच महातेजा विश्वामित्रो महामुनिः ।

श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ १।२४।१६ ॥

तमिति । एतद्दारुणं वनं यस्य प्राणिनः स श्रूयतामिति योजना ॥ १।२४।१६ ॥

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।

मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ १।२४।१७ ॥

एताविति । स्फीतौ प्रवृद्धधनधान्यौ । मलदाश्च करूशाश्च मलदकरूशनामधेयौ । अवयवबहुत्वाद्बहुवचनम् । मत्स्याः पाञ्चाला इतिवत् । देवनिर्माणेन देवनिर्माणतुल्यनिर्माणेन निर्मितौ, देवलोकसमसंस्थानावित्यर्थः ॥ १।२४।१७ ॥

पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १।२४।१८ ॥

मलदकरूशसञ्ज्ञानिमित्तमाह पुरेत्यादि । वृत्रवधे कृते सति, मलेन अशुचित्वेन क्षुधा बुभुक्षया च समभिप्लुतं व्याप्तम् इन्द्रं ब्रह्महत्या समाविशत् । ब्रह्महत्यावशेन मलक्षुधाविन्द्रस्याभूतामित्यर्थः ॥ १।२४।१८ ॥

तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।

कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ १।२४।१९ ॥

तमिति । स्नापयन् गङ्गादितीर्थेषु स्नापयन्, पुनर्मन्त्रपूतैः कलशैः कलशोदकैः स्नापयामासुः । तेन स्नापनेनास्येन्द्रस्य मलं चकारात् कारूशं प्रमोचयन् प्रामोचयन् ॥ १।२४।१९ ॥

इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च ।

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ १।२४।२० ॥

इहेति । करूशमेव कारूशम् । स्थानप्रमाणात् क्षुधमित्यर्थः ॥ १।२४।२० ॥

निर्मलो निष्करूशश्च शुचिरिन्द्रो यदा ऽभवत् ।

ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ १।२४।२१ ॥

निर्मल इति । शुचिः ब्रह्महत्यातः पूतः ॥ १।२४।२१ ॥

इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।

मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ १।२४।२२ ॥

वरमेवाह इमाविति । मलं द्यति खण्डयतीति मलदः । “अन्येभ्योपि दृश्यते” इति खच् । करूशमस्यास्तीति करूशः । अङ्गमलधारिणौ करूशस्याप्युपलक्षणमिदम् । एतौ ममाङ्गमलकरूशधारणान्मलदाः करूशाश्चेति ख्यातिं गमिष्यत इत्यर्थः ॥ १।२४।२२ ॥

साधु साध्विति त देवाः पाकशासनमब्रुवन् ।

देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ १।२४।२३ ॥

साध्विति । स्पष्टम् ॥ १।२४।२३ ॥

एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम ।

मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ १।२४।२४ ॥

एताविति । अत इत्यादावध्याहार्यम् ॥ १।२४।२४ ॥

कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ।

ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥ १।२४।२५ ॥

एवं पालनीयत्वाय देशस्य पुण्यत्वमुक्त्वा तस्य दारुणत्वहेतुमाह कस्यचिदिति अर्द्धत्रयम् । कस्मिंश्चित्काले गते सति । तदा जन्मकाल एव । नागसहस्रस्य गजसहस्रस्य । बलं धारयन्ती ताटकानाम यक्षी अभूत् । ते तुभ्यं भद्रमस्तु, ताटकातो भयं माभूदित्यर्थः ॥ १।२४।२५ ॥

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ १।२४।२६ ॥

मारीच इत्यर्द्धम् ॥ १।२४।२६ ॥

वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान् ।

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ १।२४।२७ ॥

वृत्तेति । अत्र य इति शेषः । यः प्रजाः नित्यं त्रासयते स मारीचो यस्याः पुत्रः सा यक्षी अभूदिति पूर्वेणान्वयः ॥ १।२४।२७ ॥

इमौ जनपदौ नित्यं विनाशयति राघव ।

मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥ १।२४।२८ ॥

अस्तु ताटका, किं ततः तत्राह इमाविति ॥ १।२४।२८ ॥

सेयं पन्थानमावार्य वसत्यध्यर्द्धयोजने ।

अत एव च गन्तव्यं ताटकाया वनं यतः ॥ १।२४।२९ ॥

सेयमिति । आवार्य्य आवृत्य । यतः यस्मिन्मार्गे ताटकायाः वनम् । अत एव मार्गेण

गन्तव्यम् ॥ १।२४।२९ ॥

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ १।२४।३० ॥

स्वेति । निष्कण्टकं निरुपद्रवम् ॥ १।२४।३० ॥

न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।

यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ १।२४।३१ ॥

न हीति । ईदृशम् अतीव पुण्यम्, असह्यया इतरैरजेयया ॥ १।२४।३१ ॥

एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।

यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ १।२४।३२ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥

एतदिति । यथा येन प्रकारेण । दारुणं यथा च उत्सादितं निर्जनीकृतं यथा चोत्सादनान्न निवर्त्तते तदेतत्सर्वमाख्यातमिति योजना ॥ १।२४।३२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥