प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥ १।२३।१ ॥
अथैषामङ्गदेशप्राप्तिं पूर्ववृत्तकथनव्याजेन व्यञ्जयति त्रयोविंशे प्रभातायामित्यादि । पर्णसंस्तरे पर्णमयास्तरणे । पूर्वसर्गान्ते तृणशयनस्योक्तत्वादत्र तृणमिश्रपर्णशयने इति बोध्यम् ॥ १।२३।१ ॥
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥ १।२३।२ ॥
उभयप्रबोधनार्थमागतो विश्वामित्रो रामस्य “स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः” इत्युक्तरीत्या निद्राकालिकीं श्रियमवलोक्य तदासक्तः सन् स्वागमनकार्यं विस्मृत्य इमं प्रसूतवती कौसल्या किं वा तपस्तप्तवतीति विस्मयते । कौसल्या सुप्रजाः बोधनकाले विस्मितमुखो मुनिरासीत् । शोभना प्रजा पुत्रो यस्याः सा सुप्रजाः । “नित्यमसिच् प्रजामेधयोः” इत्यसिच् । त्वज्जननी कौसल्या सुपुत्रा । यद्वा स्वगतवचनम् । एतज्जननी कौसल्या सुप्रजाः । “कौसल्या शुशुभे तेन पुत्रेणामिततेजसा” इतिवत् । यद्वा कौसल्यायाः सुप्रज इति सम्बोधनम् । कर्मधारये ऽप्यार्षो ऽसिच् “ढ्रलोपे पूर्वस्य दीर्घो ऽणः” इति दीर्घः । “सुपां सुलुक्” इत्यादिना पूर्वसवर्णदीर्घो वा । परशुरामव्यावृत्त्यर्थं विशेषणम् । कौसल्यादशरथयोरुभयोरपि तपःफलत्वेनावतीर्णत्वे ऽपि कथं कौसल्या सुप्रजा इत्युक्तिः ? उच्यते “माता पुत्रस्य भूयांसि कर्माण्यारभते” इत्युक्तरीत्या “मातृदेवो भव पितृदेवो भव” इतिवत् मातृप्राधान्योक्तेः । “पितुः शतगुणं माता” इति स्मृतेश्च । यद्वा कौसल्यादशरथयोर्महदन्तरमस्ति । दशरथो हि “अहं वेद्मि महात्मानम्” इति परत्वेन निवेद्यमाने ऽपि तदकिञ्चित्कृत्य “दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि” इति रामे केवलं पुत्रत्वं मन्वानो वसिष्ठसन्धुक्षितहृदयो रामं प्रेषितवान् । कौसल्या तु केवलवात्सल्यपरा ऽपि द्रुतं सादरं प्रेषितवती । तदिदं तारतम्यमवलोक्य मुदितहृदयो मुनिराह कौसल्या सुप्रजा इति । मातृवाक्यं पितृवाक्यं च पालनीयमित्यमुं धर्मं लोके प्रवर्तयितुं स्वयं तदनुष्ठातृत्वेन सुप्रजा इत्युक्तम् । अथ क्रमेण गुणान्तरावगाहान्नीस्तीर्य प्रबोधयति रामेत्यादि । रामेत्यनेन स्वापकालिकसौन्दर्यमुच्यते । पूर्वा सन्ध्या प्रवर्तते । पूर्वा सन्ध्या दिवाकरमिव रामदिवाकरं त्वां कौसल्या जनितवतीति भावः । यद्वा मातृवत्पूर्वसन्ध्यामप्युपलालयेति । यद्वा पूर्वा सन्ध्या प्रवर्तते आदित्यस्येव भवतो ऽयं विरोधिनिरसनारम्भसमय इति । यद्वा पूर्वा सन्ध्या प्रवर्तते अज्ञानान्धकारो गतः, भगवत्साक्षात्कारो मे जातः, अद्य मे सुप्रभातमिति । यद्वा जगतः सर्वस्य भगवदवतारोत्सवोद्रेककालो जातः । “अद्य मे सफलं जन्म सुप्रभाता च मे निशा । यदुन्निद्राब्जपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ " उत्तिष्ठ निद्राश्रीरवलोकिता, प्रबोधश्रियमप्यवलोकितुमिच्छामि। नरशार्दूल नरश्रेष्ठ, नरश्रेष्ठतया भवतापि सन्ध्योपास्या “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः” इत्युक्तेः। उत्तिष्ठ नरशार्दूल आश्रितविरोधिनिरसनशीलस्य किं निद्रावकाशोप्यस्ति ? नरशार्दूल मद्यज्ञानिर्वाहक उत्थानप्रयोजनमाह कर्तव्यं दैवमाह्निकम्,देवेन सर्वेश्वरेण विहितं नित्यकर्म कर्तव्यम्। यद्वा देवशब्दो भवदर्थकः। भवदीयमाह्निकं भवदाज्ञारूपं कर्म मयाकर्तव्यम्, तत्स्वीकुर्वित्यर्थः। यद्वा दैवं देवाराधनभूतम् आह्निकम्, अह्ना निर्वर्त्यमेकसुत्यात्मकं कर्म यज्ञात्मकम्, कर्तव्यमित्यर्थः ॥ १।२३।२ ॥
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ १।२३।३ ॥
तस्येति । परमोदारम्, परमगम्भीरमित्यर्थः । कृतोदकौ कृतार्ध्यप्रक्षेपौ । यद्वा कृतदेवर्षितर्पणौ । जप्यत इति जपः तम् । गायत्रीमिति यावत् । तस्या एव परमत्वात् “न सावित्र्याः परं जप्यम्” इति वचनात् ॥ १।२३।३ ॥
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ॥ १।२३।४ ॥
कृतेति । अह्नि भवमाह्निकम् । “कालाट्ठञ्” । कृतप्रातःकृत्यावित्यर्थः । सन्ध्योपासनब्रह्मयज्ञसमिदाधानानि प्रातः कृत्यानि । अभितस्थतुः अभिमुखं स्थितौ ॥ १।२३।४ ॥
तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥ १।२३।५ ॥
ताविति । ततः तस्माद्देशात् प्रयातौ । तत्र प्रसिद्धे सरय्वाः सङ्गमे । त्रिपथगां गङ्गां नदीं ददृशाते ॥ १।२३।५ ॥
तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ १।२३।६ ॥
तत्रेति । तत्र गङ्गासरय्वोः सङ्गमे, ददृशाते इत्यनुषज्यते । तप्यतां तपताम्, कर्तरि यत् छान्दसः ॥ १।२३।६ ॥
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ १।२३।७ ॥
तमिति स्पष्टम् ॥ १।२३।७ ॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान् ।
भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ १।२३।८ ॥
कस्येति । वसते वसति ॥ १।२३।८ ॥
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥ १।२३।९ ॥
तयोरिति । प्रश्नमाधुर्यात् प्रहासः । यद्वा मानुषभावनटनात् । यस्यायमाश्रमः स श्रूयतामिति योजना । रामेति सम्बोधनं प्राधान्यात् ॥ १।२३।९ ॥
कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ॥ १।२३।१० ॥
कन्दर्प इति अर्द्धम् । यः काम इत्युच्यते स कन्दर्पः पुरा मूर्तिमानासीत् ॥ १।२३।१० ॥
तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ॥ १।२३।११ ॥
तपस्यन्तमिति सार्द्धश्लोकः । तपस्यन्तं तपश्चरन्तम् । “कर्मणो रोमन्थतपोभ्यां वर्तिचरोः” इति क्यङ् । इह आश्रमे तपस्यन्तम् । नियमेन अविच्छेदेन । समाहितं समाधिमन्तम् । कृतोद्वाहं कृतपार्वतीपरिणयम्, गच्छन्तं शुश्रूषणार्थं पार्वतीं प्राप्नुवन्तम्, देवेशं स्थाणुं रुद्रम्, दुर्मेधाः कामो धर्षयामास । कृतोद्वाहमिति क्रियाविशेषणम्, यदा अयं कृतोद्वाहो भवति तदा तं पार्वत्यां साभिलाषचित्तमकरोदित्यर्थः । समरुद्गणमित्यपि क्रियाविशेषणम् । तदनुमतिपूर्वकमित्यर्थः । महात्मना हुङ्कृतश्चासीत् ॥ १।२३।११ ॥
अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन ।
व्यशीर्य्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ १।२३।१२ ॥
अवदग्धस्येति । व्यशीर्यन्त विशीर्णानि । “शृ़ हिंसायाम्” इत्यतः कर्तरि श्यन् ॥ १।२३।१२ ॥
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ १।२३।१३ ॥
तस्येति । तत्र तदा महात्मना निर्दग्धस्य शरीरं हतम्, अतः कामः अशरीरः कृतः ॥ १।२३।१३ ॥
अनङ्ग इति विख्यातस्तदाप्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥ १।२३।१४ ॥
अनङ्ग इति । कामस्तदाप्रभृति अनङ्ग इति विख्यातः । सो ऽङ्गविषयः अङ्गदेशश्च विख्यातः । तत्र हेतुमाह यत्रेति । यस्मात्कारणादत्र कामो ऽङ्गं मुमोच तस्मादयं देशो ऽङ्ग इत्युच्यत इत्यर्थः ॥ १।२३।१४ ॥
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ १।२३।१५ ॥
तस्येति । तस्य कामस्य स्थाणोर्वा । अयमाश्रमः इमे मुनयः तस्य । पुरा पूर्वकालमारभ्य सन्तानपरम्परया शिष्याः, अत एव धर्मपराः, अत एव च तेषां पापं न विद्यते । पूर्वं रुद्रशिष्या अपि सम्प्रति तच्छिष्यत्वकृतपापं न विद्यत इत्यर्थः । एतेन प्रश्नद्वयस्याप्युत्तरमुक्तम् । हिमवति तपस्यन्तं कामो ऽधर्षयदित्युक्तिः पुराणान्तरे कल्पान्तरमपेक्ष्य ॥ १।२३।१५ ॥
इहाद्य रजनीं राम वसेम शुभदर्शन ।
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ १।२३।१६ ॥
इहेति । इह अङ्गविषये । तरिष्यामहे, गङ्गामिति शेषः ॥ १।२३।१६ ॥
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ॥ १।२३।१७ ॥
अभीति । स्नाताः अत एव शुचयो भूत्वा पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् ॥ १।२३।१७ ॥
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ १।२३।१८ ॥
तेषामिति । तेषां संवदतां तेषु संवदत्सु । तपसा दीर्घेण विप्रकृष्टार्थग्रहणसमर्थेन । चक्षुषा ज्ञानेन । विज्ञाय दृष्ट्वा, तेषामागमनं ताटकादिनिरासनिमित्तम्, तपोजन्यज्ञानेन विदित्वेत्यर्थः । हर्षं हर्षपुलकम् ॥ १।२३।१८ ॥
अर्घ्यं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे ।
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १।२३।१९ ॥
अर्घ्यमिति । अर्घ्यं पूजार्थमुदकम्, पाद्यं पादार्थमुदकम्, “पादार्घाभ्यां च” इति यत्प्रत्ययः । आतिथ्यम् आचमनीयपूर्वकं भोज्यप्रदानम् । अतिथिक्रियाम् अतिथिपूजाम् ॥ १।२३।१९ ॥
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।
यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः ॥ १।२३।२० ॥
सत्कारमिति । सत्कारं कुशलप्रश्नादिकं विश्वामित्रात्समनुप्राप्य अभिरञ्जयन् अभ्यरञ्जयन् अतिथिभूतानिति शेषः । क्रमेण सायं सन्ध्यागमे सति, ते तद्वासिनो विश्वामित्रादयश्च । छत्रिन्यायेन ऋषय इत्युक्तम्, समाहिताः अनन्यपराः । सन्ध्याम् अहोरात्रयोः सन्धिम् । अत्यन्तसंयोगे द्वितीया । यथार्हं यथायोग्यम्, यथाशक्तीति यावत् । “सहस्रपरमां देवीं शतमध्यां दशावराम्” इति वचनात् । अजपन्, गायत्रीमिति शेषः ॥ १।२३।२० ॥
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ।
न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ॥ १।२३।२१ ॥
तत्रेति । आनीताः निद्रायै स्वाश्रमं प्रापिताः । कामाश्रमपदे कामदाहात्कामाश्रमनामकस्य पदे स्थाने ॥ १।२३।२१ ॥
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ १।२३।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥
कथाभिरिति । कथाभिः तदाश्रमवैभवपराभिः ॥ १।२३।२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥