०२१ वसिष्ठवचनाद् रामप्रेषणम्

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।

समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १।२१।१ ॥

एवं रामप्रेषणवृत्तान्तव्याकुलं राजानं वसिष्ठः प्रतिबोधयति एकविंशे तच्छ्रुत्वेति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ॥ १।२१।१ ॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।

राघवाणामयुक्तो ऽयं कुलस्यास्य विपर्ययः ॥ १।२१।२ ॥

पूर्वमिति । अर्थं प्रार्थितार्थम् । अयं विपर्ययः प्रतिज्ञाहानिः, राघवाणामस्य कुलस्यायुक्तः ॥ १।२१।२ ॥

यदीदं ते क्षमं राजन् गमिष्यामि यथा गतम् ।

मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥ १।२१।३ ॥

यदीदमिति । इदं प्रतिज्ञातान्यथाकरणम् । सुखीभवेति व्यङ्ग्योक्तिः ॥ १।२१।३ ॥

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।

चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥ १।२१।४ ॥

तस्येति । रोषपरीतस्येति षष्ठी सप्तम्यर्थे । भयं पूर्वं कोपेनान्यथाकृतजगदयमद्य किं करिष्यतीति भयम् ॥ १।२१।४ ॥

त्रस्तरूपं स विज्ञाय जगत्सर्वं महानृषिः ।

नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ १।२१।५ ॥

त्रस्तेति । त्रस्तरूपम् अतिशयेन त्रस्तम् । प्रशंसायां रूपप् । धीरः धीमान् ॥ १।२१।५ ॥

इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः ।

धृतिमान् सुव्रतः श्रीमान्न धर्मं हातुमर्हसि ॥ १।२१।६ ॥

इक्ष्वाकूणामिति । त्वमिति शेषः ॥ १।२१।६ ॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।

स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ १।२१।७ ॥

त्रिष्विति । धर्मात्मा इतीत्यत्र वाक्ये संहिता ऽनित्या । स्वधर्मं प्रतिश्रुतनिर्वाहरूपम् ॥ १।२१।७ ॥

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव

इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ॥ १।२१।८ ॥

संश्रुत्येति । एवं करिष्यामीति संश्रुत्य तथा ऽकुर्वाणस्येत्यर्थः । इष्टमश्वमेधान्तो यागः । पूर्तं वाप्यादिनिर्माणम् । तदुक्तं “वापीकूपतडागादिप्रतिष्ठासेतुबन्धनम् । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ " इति तयोर्वधः निष्फलत्वम् ॥ १।२१।८ ॥

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।

गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ १।२१।९ ॥

कृतेति । कृतास्त्रं शिक्षितास्त्रं न शक्ष्यन्ति धर्षितुमिति शेषः । ज्वलनेन अग्निचक्रेण । ऽअमृतमग्निचक्रेण सुरक्षितम्ऽ इति भारते व्यक्तम् ॥ १।२१।९ ॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।

एष बुद्ध्याधिको लोके तपसश्च परायणम् ॥ १।२१।१० ॥

राज्ञो भयनिवृत्तये विश्वामित्रमाहात्म्यमाह एष इति । परायणं परमस्थानम् । एतत्सदृशः को ऽपि तपस्वी नास्तीत्यर्थः ॥ १।२१।१० ॥

एषो ऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।

नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥ १।२१।११ ॥

एष इति । अस्त्रानिति पुँल्लिङ्गत्वमार्षम् । सचराचर इत्यनेन सामस्त्यं गम्यते । एनम् एतदवगतमस्त्रसमूहम् ॥ १।२१।११ ॥

न देवा ऋषयः केचिन्नासुरा न च राक्षसाः ।

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १।२१।१२ ॥

केचनेत्युक्तं प्रपञ्चयति न देवा इति ॥ १।२१।१२ ॥

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।

कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ १।२१।१३ ॥

सर्वाविदितं कथमयं वेत्तीत्यत्राह सर्वेति । कृशाश्वः प्रजापतिष्वेकः । परमधार्मिकाः परमधर्मनिष्ठाः, पापिनमस्पृशन्त इत्यर्थः । दत्ताः कृशाश्वेन । प्रशासति प्रशास्ति, अयमिति शेषः ॥ १।२१।१३ ॥

ते ऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।

नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ १।२१।१४ ॥

पितृप्राशस्त्यमुक्त्वा मातृप्राशस्त्यमाह ते ऽपीति । प्रजापतिः दक्षः । तस्य सुतयोः कन्ययोः सुताः ॥ १।२१।१४ ॥

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।

ते सुवाते ऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १।२१।१५ ॥

के प्रजापतिसुते ? तत्राह जया चेति । सुवाते असुवाताम् । शस्त्राणि विशसनकर्तृ़णि । परमभास्वरमिति शताभिप्रायेणैकवचनम् ॥ १।२१।१५ ॥

पञ्चाशतं सुताँल्लेभे जया नाम परान् पुरा ।

वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ १।२१।१६ ॥

का कत्यसूयतेत्यत्राह पञ्चाशतमिति । अमेयान् अपरिच्छेद्यवैभवान् ॥ १।२१।१६ ॥

सुप्रभाजनयच्चापि सुतान् पञ्चाशतं पुनः ।

संहारान्नाम दुर्द्धर्षान् दुराक्रमान् बलीयसः ॥ १।२१।१७ ॥

सुप्रभेति । संहारान् अन्वर्थसंहारसञ्ज्ञान् । दुर्द्धर्षान् परैरभिभवितुमशक्यान् । दुराक्रामान् अमोघानित्यर्थः ॥ १।२१।१७ ॥

तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः ।

अपूर्वाणां च जनने शक्तो भूयस्य धर्मवित् ॥ १।२१।१८ ॥

तानीति । यथावत् कार्त्स्न्येन अपूर्वाणामस्त्राणाम्, सः विदितसकलास्त्रः ॥ १।२१।१८ ॥

एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।

न रामगमने राजन् संशयं गन्तुमर्हसि ॥ १।२१।१९ ॥

तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।

तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ १।२१।२० ॥

एवमिति श्लोकद्वयं स्पष्टम् ॥ १।२१।१९,२० ॥

इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद भास्वराङ्गः ।

गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥ १।२१।२१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकविंशः सर्गः ॥ २१ ॥

इतीति । भास्वराङ्गः भासनशीलः, प्रसन्नमुख इति यावत् । मुमोद मुमुदे । व्यत्ययात्परस्मैपदम् । राघवस्य गमनमभिरुरोच राघवं कुशिकात्मजाय दातुं बुद्ध्या चिन्तयदिति उपस्कार्यम् । पूर्ववत्पुष्पिताग्रावृत्तम् ॥ १।२१।२१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥