ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् ॥ १।१२।१ ॥
एवं दशरथः सर्वकामसमृद्धो ऽपि पुत्रालाभसन्तप्तस्तन्मूलानि पापानि स्वाधिकारानुरूपेणाश्वमेधेन विना न विनश्यन्तीति मन्वानः “सर्वं पाप्पानं तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते” इति श्रुत्या “राजसार्वभौमो ऽश्वमेधेन यजेत” इति स्मृत्या च विहितमश्वमेधं यष्टुं सङ्कल्प्य तदानीमुद्बुद्धसंस्कारेण सुमन्त्रेणोदीरितवचनाज्जामात्रुपलालनव्याजेन शान्तया सह ऋश्यशृङ्गमानीय प्राप्तकाले पूर्वं सङ्कल्पितमश्वमेधं कर्तुमारभतेत्याह ततः काल इत्यादि । ततः ऋश्यशृङ्गानयनानन्तरं , बहुतिथे अनल्पे काले गते । सङ्ख्यासञ्ज्ञाद्बहुशब्दात् पूरणार्थे डटि “बहुपूगगणसङ्घस्य तिथुक्” इति तिथुगागमः । कस्मिंश्चित् मलिम्लुचत्वादिदोषरहिततया विलक्षणे, सुमनोहरे पौर्णमास्याः कालत्वेनातिमनोज्ञे, वसन्ते समनुप्राप्ते प्रारब्धे, चैत्र्यां पौर्णमास्यामित्यर्थः । राज्ञो दशरथस्य यष्टुं साङ्ग्रहणीमिष्टिं कर्तुं मनः मनोरथः अभूत् । “चैत्र्यां पौर्णमास्यां प्रातरश्वमेधेन यक्ष्ये इति सङ्कल्प्य साङ्ग्रहण्येष्ट्या यजते” इति स्मरणात् ॥ १।१२।१ ॥
ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास सन्तानार्थं कुलस्य वै ॥ १।१२।२ ॥
अथ साङ्ग्रहणीमिष्टिं कर्तुमृत्विग्वरणे प्राप्ते प्रथममृश्यशृङ्गं ब्रह्मत्वेन वृतवानित्याह ततः प्रसाद्येति । देववर्णिनं देववर्चसम् ॥ १।१२।२ ॥
तथेति च स राजानमुवाच च सुसत्कृतः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ १।१२।३ ॥
तथेति । स च ऋश्यशृङ्गश्च ॥ १।१२।३ ॥
ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् ।
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ॥ १।१२।४ ॥
अथ “अपदातीनृत्विजः समावहन्त्यासुब्रह्मण्यायाः” इति विहितमध्वर्युप्रभृतिवरणमाह ततो राजेत्यादिना । अस्याः श्रुतेरयमर्थः तस्य तस्य गृहे गत्वा सोमप्रवाकवृतानध्वर्युब्रह्महोतृ़नाग्नीध्रं च हस्त्यश्वादिकमारोप्य राजगृहमानयन्ति राजपुरुषाः । अनन्तरायाममावास्यायां पूर्ववृता एव ते
सञ्ज्ञानेष्ट्यर्थं पुनर्व्रियन्ते । अथ वैशाख्यां पौर्णमास्यां प्राजापत्यर्षभपश्वर्थं पूर्ववत् सोमप्रवाकवृतौ मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यादिकमारोप्यानयन्ति राजपुरुषाः । अनन्तरायाममावास्यायां तथैव वृतमुद्गातारं हस्त्यादिभिरानयन्ति । अथागामिनि वसन्ते पञ्चदश्यां हस्त्यादिभिः प्रस्तोतारमानयन्ति । त्रैधातवीयार्थं यत्र दीक्षारम्भस्तद्दिवसादूर्ध्वं तृतीयादिष्वहस्वन्वहमितरानष्टावृत्विजो हस्त्यादिकमारोप्यानयन्ति ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहर्तारं ग्रावस्तुतं पोतारम् उन्नेतारं सुब्रह्मण्यमिति सोमार्थम् । एवमासुब्रह्मण्याह्वानादपदातीनृत्विज आवहन्तीति । एवं क्रमेण कर्त्तव्यानि ऋत्विग्वरणानि कार्यकरत्वात्सङ्ग्रहेण दर्शयति सुमन्त्रावाहयेति । आवाहय आनय । ऋतौ यजन्तीति ऋत्विजः । ब्रह्मवादिनः वेदपाठकान् ॥ १।१२।४ ॥
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातयः ॥ १।१२।५ ॥
ऋत्विजः परिगणयति सुयज्ञमिति ॥ १।१२।५ ॥
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत्स तान् सर्वान् समर्थान् वेदपारगान् ॥ १।१२।६ ॥
तत इति त्वरितविक्रमः त्वरितपदन्यासः ॥ १।१२।६ ॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ १।१२।७ ॥
तानिति । धर्मार्थसहितं धर्मार्थरूपप्रयोजनयुक्तम्, श्लक्ष्णं मधुरम् ॥ १।१२।७ ॥
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ १।१२।८ ॥
ममेति व्याख्यातम् ॥ १।१२।८ ॥
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् ॥ १।१२।९ ॥
तदिति । यष्टुमिच्छामि प्रतिबन्धकदुरितशान्त्यर्थम् । ऋषिपुत्रप्रभावेन ऋश्यशृङ्गकृतयज्ञप्रभावेन, पश्चात्कामान्, पुत्रान् प्राप्स्यामि च ॥ १।१२।९ ॥
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ १।१२।१० ॥
तत इति । ऋश्यशृङ्गश्लाघागर्भत्वाद्वसिष्ठप्रमुखा इत्युक्तम् ॥ १।१२।१० ॥
ऋश्यशृङ्गपुरोगाश्चप्रत्यूचुर्नृपतिं तदा ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ १।१२।११ ॥
ऋश्यशृङ्गेत्यादि व्याख्यातप्रायम् ॥ १।१२।११ ॥
सर्वथा प्राप्स्यसे पुत्रांश्चतुरो ऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १।१२।१२ ॥
सर्वथेति । सनत्कुमारवचःश्रवणाच्चतुर इत्युक्तम् ॥ १।१२।१२ ॥
ततः प्रीतो ऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ १।१२।१३ ॥
तत इति । क्रियाभेदान्न राजपदपुनरुक्तिः ॥ १।१२।१३ ॥
गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १।१२।१४ ॥
गुरूणामिति । सम्भ्रियन्तु सम्भ्रियन्ताम्, आर्षं परस्मैपदम् । अत्र सम्भाराः यज्ञीयाश्वमोचनोपकरणानि “द्वादशारत्नी रशना भवति” इत्युक्त्या द्वादशारत्निपरिमिता मुञ्जाख्यतृणविशेषनिर्मिता रशना “चतुष्टय्य आपो भवन्ति” इत्यनुवाकोक्ताः आतपतिवर्ष्याः कूप्याः स्थावरा वहन्त्यश्च इति चतुर्विधा आप इत्यादीनि । समर्थैः “चतुःशता रक्षन्ति” इति श्रूयमाणै राजपुत्राद्यैः अधिष्ठितः रक्षितः । सोपाध्यायः उपाध्यायैश्चतुर्भिः ऋत्विग्भिः सहितः । अश्वो विमुच्यताम् “चत्वार ऋत्विजः समुक्षन्तीत्यारभ्य शतेन राजपुत्रैः सह अध्वर्युः शतेनाराजभिरुग्रैः सहब्रह्मा शतेन सूतग्रामणीभिः सह होता शतेन क्षत्र्रसङ्ग्रहीतृभिः सहोद्गाता” इति श्रुतेः । सङ्गृहीतं च भट्टभास्करैः “सन्नाहवन्तः क्षितिपालपुत्राः सन्नद्धसूताः शतमस्य तल्प्याः । गोपायितारः शतमेवमुग्राः सन्नाहिनस्तादृशसूनुयुक्ताः । वैश्याः शतं प्रान्तचराः पथिस्युर्वरूथिनस्तैः शतमेव शूद्राः ॥ " इति ॥ १।१२।१४ ॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्द्धन्तां यथाकल्पं यथाविधि ॥ १।१२।१५ ॥
अथ “पुण्यनामदेवयजनमध्यवस्यति” इत्युक्तरीत्या यागार्हपुण्यस्थपलपरिग्रहं दर्शयति सरय्वा इति । उत्तरं विविक्तमिति तत्परिग्रहः । शान्तयः शान्तिकर्माणि । अभिवर्द्धन्तां प्रवर्तन्ताम्, यथाकल्पं यथाक्रमं, यथाविधि यथाशास्त्रम् ॥ १।१२।१५ ॥
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १।१२।१६ ॥
शक्य इति । कष्टः क्लेशकरः ॥ १।१२।१६ ॥
छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः ।
विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ॥ १।१२।१७ ॥
छिद्रमिति । छिद्रम् अपराधमित्यर्थः ॥ १।१२।१७ ॥
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १।१२।१८ ॥
तदिति । यथेति छेदः ॥ १।१२।१८ ॥
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥ १।१२।१९ ॥
तथेति । अकुर्वत साङ्ग्रहणेष्टिप्रभृत्यश्वविमोचनान्तमकुर्वन्नित्यर्थः ॥ १।१२।१९ ॥
ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ १।१२।२० ॥
ततो द्विजा इति । अनुज्ञाताः, तेनेति शेषः ॥ १।१२।२० ॥
गतेष्वथ द्विजाग्र्येषु मन्त्रिणस्तान्नराधिपः ।
विसर्ज्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ १।१२।२१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥ १२ ॥
गतेष्विति । स्वं वेश्म, अग्निगृहादन्तःपुरमित्यर्थः ॥ १।१२।२१ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥