भूय एव च राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १।११।१ ॥
एवं दशरथप्रश्नस्योत्तरमुक्त्वा कथाशेषं सुमन्त्रः प्रस्तौति भूय इत्यादि । देवप्रवरः सनत्कुमारः,
कथायां कथाप्रसङ्गे, एवं वक्ष्यमाणरीत्या यथा उक्तवान् तथा शृणु ॥ १।११।१ ॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥ १।११।२ ॥
इक्ष्वाकूणामिति । धार्मिको भविष्यतीत्यन्वयः । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ १।११।२ ॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ १।११।३ ॥
अङ्गेति । अस्य अङ्गराजस्य ॥ १।११।३ ॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।
अङ्गराजं दशरथो गमिष्यति महायशाः ॥ १।११।४ ॥
पुत्र इति । अङ्गस्य राज्ञः अङ्गराजस्य ॥ १।११।४ ॥
अनपत्यो ऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च ॥ १।११।५ ॥
अनपत्य इति । अहमनपत्यो ऽस्मि, तस्मात् मम कुलस्य सन्तानार्थमविच्छेदार्थं शान्ताभर्ता क्रतुमाहरेत अनुतिष्ठतु, इति वक्ष्यतीति शेषः ॥ १।११।५ ॥
श्रुत्वा राज्ञो ऽथ तद्वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ १।११।६ ॥
श्रुत्वेति । स रोमपादः मनसा विचिन्त्य, न तु मन्त्रिभिः । पुत्रवन्तं पुत्रप्रदानसमर्थं पुत्रयुक्तं वा ॥ १।११।६ ॥
प्रतिगृह्य च त विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ १।११।७ ॥
प्रतिगृह्येति । आहरिष्यति करिष्यतीत्यर्थः । अन्तरात्मना मनसा उपलक्षितः ॥ १।११।७ ॥
तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।
ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ १।११।८ ॥
तस्मिन् यज्ञे तमेव ऋत्विजं करिष्यतीत्याह तं चेति श्लोकद्वयमेकवाक्यम् । यष्टुं कामो यस्य स यष्टुकामः । “लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि” इति मकारलोपः । एवम्भूतो राजा तं वरयिष्यति । वरो वरणम् । “तत्करोति” इति णिच् । अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः ॥ १।११।८ ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च जनेश्वरः ।
लभते च स तं कामं विप्रमुख्याद्विशाम्पतिः ॥ १।११।९ ॥
किमर्थम् ? यज्ञार्थं पुत्रकामेष्ट्यर्थम्, तद्द्वारा प्रसवार्थं पुत्रार्थम्, तद्द्वारा स्वर्गार्थम् । “नापुत्रस्य लोको ऽस्ति” इति श्रुतेः । कामं काम्यक्रतुम् ॥ १।११।९ ॥
पुत्राश्चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १।११।१० ॥
पुत्राश्चेति । अमितविक्रमाः अपरिच्छिन्नपराक्रमाः ॥ १।११।१० ॥
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ १।११।११ ॥
एवमिति । पूर्वं पूर्वकाले । विभक्तिप्रतिरूपकमव्ययम् । पुरा पुराणः । देवयुगे कृतयुगे । यद्वा हे देव पुरा युगे, कृतयुग इत्यर्थः ॥ १।११।११ ॥
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ।
स्वयमेव च राजेन्द्र गत्वा सबलवाहनः ॥ १।११।१२ ॥
स इति । स त्वं पुत्रार्थी त्वम्, सुसत्कृतं सुसत्कारार्हम् । स्वयमेव, न तु पुरोहितादिद्वारा ॥ १।११।१२ ॥
अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।
[वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः ।]
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १।११।१३ ॥
अनुमान्येति । अनुमान्य कृतानुमतिकं कृत्वा, अन्यथा मयि स्थिते कथमयमन्यमाह्वयतीति वसिष्ठः कुप्येत्, अतः सुमन्त्रोक्तकथोक्तिपूर्वकमनुमान्येत्यर्थः । अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च इति वचनभङ्ग्या पुनर्वसिष्ठसन्निधौ सा कथा प्रस्ताविता सुमन्त्रमुखेनैवेति गम्यते । अतो वसिष्ठेनानुमतिः कृतेति मन्तव्यम् । सान्तःपुरतया गमनं जामात्रुपलालनरीत्या शान्तया सहानयनार्थम् । यत्र रोमपादनगरे ॥ १।११।१३ ॥
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १।११।१४ ॥
वनानीति । वनादिविलोकनकुतुकित्वं शनैः शनैरित्यनेन द्योत्यते ॥ १।११।१४ ॥
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १।११।१५ ॥
आसाद्येति । तं देशमासाद्य, तं ऋषिपुत्रम् । आदौ रोमपाददर्शनात् पूर्वं ददर्श, तस्मिन् भक्त्यतिशयद्योतनार्थम् ॥ १।११।१५ ॥
ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १।११।१६ ॥
तत इति । राजा रोमपादः, राज्ञो दशरथस्य ॥ १।११।१६ ॥
रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १।११।१७ ॥
रोमपादेनेति । सम्बन्धकं शान्ताया जनकपितृत्वरूपं सम्बन्धम् । प्रत्यपूजयत्, ऋश्यशृङ्ग इति शेषः ॥ १।११।१७ ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ॥ १।११।१८ ॥
एवमिति । तेन रोमपादेन सप्ताष्टेति लोकवचनपरिपाटी सङ्ख्यानियमोपेक्षा कृता ॥ १।११।१८ ॥
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ।
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १।११।१९ ॥
शान्तेति । उद्यतम् उद्युक्तम् ॥ १।११।१९ ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ १।११।२० ॥
तथेति । तस्य ऋश्यशृङ्गस्य गमनं संश्रुत्य प्रतिज्ञाय ॥ १।११।२० ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ १।११।२१ ॥
ऋषीति । प्रतिश्रुत्य आकर्ण्य । नृपं रोमपादम् ॥ १।११।२१ ॥
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ।
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ १।११।२२ ॥
ताविति । अन्योन्यमञ्जलिमित्यर्थः ॥ १।११।२२ ॥
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।
पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥ १।११।२३ ॥
तत इति । सुहृदं रोमपादम् ॥ १।११।२३ ॥
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।
धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम् ॥ १।११।२४ ॥
क्रियतामिति । सिक्तं च सम्मृष्टं च सिक्तसम्मृष्टम् । “पूर्वकाल " इत्यादिना समासः । स्वलङ्कृतं पुष्पकदलीकाण्डादिभिः ॥ १।११।२४ ॥
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ १।११।२५ ॥
तत इति । आगतम् आगतप्रायम्, राज्ञा यद्यथा प्रेषितं तत्तथा तदा श्रवणकाल एव चक्रुः ॥ १।११।२५ ॥
ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।
शङ्खदुन्दुभिर्निर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ १।११।२६ ॥
तत इति । द्विजर्षभं पुरस्कृत्य शङ्खदुन्दुभिनिर्घोषैः सह प्रविवेश ॥ १।११।२६ ॥
ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् ।
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ १।११।२७ ॥
तत इति । नागराः नगरवासिनः । नरेन्द्रेण दशरथेन । सत्कृत्य नगरालङ्कारादिभिः सम्मान्य प्रवेश्यमानं तं द्विजं दृष्ट्वा प्रमुदिताः सन्तुष्टाः आसन् । इन्द्रस्येव कर्म पराक्रमादिकं यस्य सः इन्द्रकर्मा तेन ॥ १।११।२७ ॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ १।११।२८ ॥
अन्तःपुरमिति । उपवाहनात् आनयनात् ॥ १।११।२८ ॥
अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ १।११।२९ ॥
अन्तरिति । भर्त्रा सहागताम् अनेन पूर्वं कन्यात्वदशायामपि कदाचिदागमनं व्यज्यते ॥ १।११।२९ ॥
पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा ॥ १।११।३० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥ ११ ॥
पूज्यमानेति । विशेषतः जनकत्वसम्बन्धात् ऋत्विजा ऋश्यशृङ्गेण पितृगृहत्वात् शान्तायाः
प्राधान्यम् ॥ १।११।३० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥