०१० ऋष्यशृङ्गकथा

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा ।

यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः स ह ॥ १।१०।१ ॥

सुमन्त्र इत्यादि । मे मत्तः, स ऋश्यशृङ्गः यथा मन्त्रिभिरानीतः तथा शृणु । हेति प्रसिद्धौ ॥ १।१०।१ ॥

रोमपादमुवाचेदं सहामात्यपुरोहितः ।

उपायो निरपायो ऽयमस्माभिरभिचिन्तितः ॥ १।१०।२ ॥

रोमेति । निरपायः अव्यभिचारिफलः ॥ १।१०।२ ॥

ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः ।

अनभिज्ञः स नारीणां विषयाणां सुखस्य च ॥ १।१०।३ ॥

ऋश्यशृङ्ग इति । तपःस्वाध्यायने तपःस्वाध्याययोः । “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भावः । “अन्येषामपि दृश्यते” इति दीर्घः । तेन पुराणेतिहासादिमुखेनापि न स्त्रीस्वरूपं जानातीति भावः । नारीणामनभिज्ञ इति कर्मणि षष्ठी । विषयाणां शब्दस्पर्शरूपरसगन्धानां सम्बन्धिनः सुखस्य चानभिज्ञश्च भवति ॥ १।१०।३ ॥

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।

पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ १।१०।४ ॥

इन्द्रियेति । नरचित्तप्रमाथिभिः नरचित्ताकर्षकैः, तमिति शेषः । क्षिप्रं शीघ्रमानाययिष्यामः । अध्यवसीयतां निश्चीयताम्, अस्मदुक्तप्रकार इति शेषः ॥ १।१०।४ ॥

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः ।

प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः ॥ १।१०।५ ॥

के इन्द्रियार्थाः, कथं तैरानयनम् ? तत्राह गणिका इति । गणिकाः वेश्याः । प्रलोभ्य वञ्चयित्वा सत्कृताः अस्माभिः कृतबहुमानाः, ऋश्यशृङ्गेण वा ॥ १।१०।५ ॥

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।

पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा ।

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ॥ १।१०।६ ॥

श्रुत्वेति । राजा पुरोहितं तथेति प्रत्युवाच । पुरोहितो ऽपि मन्त्रिणस्तथेति प्रत्युवाच । ते च मन्त्रिणस्तथा चक्रुः, तेषामेवाधिकारात् वारमुख्याः प्रेषयामासुरित्यर्थः ॥ वारेति अर्द्धमेकम् । वारशब्देन

वारस्त्रिय उच्यन्ते, नामैकदेशे नामग्रहणात् ॥ १।१०।६ ॥

आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने ।

ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ॥ १।१०।७ ॥

आश्रमस्येति । अस्मिन्वने आश्रमस्याविदूरे । दर्शने ऋष्यशृङ्गदर्शने । यत्नम् अवधानम्, कुर्वन्ति अकुर्वन् । ऋषिपुत्रस्येत्यादिविशेषणत्रयं यत्नस्य कर्तव्यत्वे हेतुः ॥ १।१०।७ ॥

पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ १।१०।८ ॥

उक्तहेतुं विवृणोति पितुरित्यर्द्धेन । पितुः सकाशान्नित्यसन्तुष्टः । पितृशुश्रूषणैकरत इत्यर्थः ॥ १।१०।८ ॥

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।

स्त्री वा पुमान् वा यच्चान्यत्सर्वं नगरराष्ट्रजम् ॥ १।१०।९ ॥

हेत्वन्तरमाह न तेनेति । जन्मप्रभृति जन्मारभ्य, नगरजमश्वादि, राष्ट्रजं कुक्कुटादि ॥ १।१०।९ ॥

ततः कदाचित्तं देशमाजगाम यदृच्छया ।

विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १।१०।१० ॥

तत इति । यदृच्छया दैववशात् ॥ १।१०।१० ॥

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः ।

ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ १।१०।११ ॥

ता इति । चित्रवेषाः नानालङ्काराः ॥ १।१०।११ ॥

कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् ।

एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १।१०।१२ ॥

कस्त्वमिति । कस्त्वं किञ्जातिः, कस्य पुत्र इत्यर्थः । किं किमर्थं वर्तसे । इच्छामह इत्यात्मनेपदमार्षम् । भवान् किञ्जातिः किन्नामधेयः कस्य पुत्रः त्वं घोरे ऽस्मिन्वने किमर्थं वर्तसे किमर्थमेकश्चरसीति योजना ॥ १।१०।१२ ॥

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।

हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ १।१०।१३ ॥

अदृष्टेति । यस्मात्कारणात् काम्यरूपाः काम्यमानरूपाः ताः । स्त्रियो वने तेनादृष्टरूपाः तस्मात् हार्दात् दर्शनजस्नेहात्, स्वकं पितरं पित्रादिकम् आख्यातुं मतिर्जाता ॥ १।१०।१३ ॥

पिता विभण्डको ऽस्माकं तस्याहं सुत औरसः ।

ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १।१०।१४ ॥

पितेति । अस्माकमिति मृगाद्यपेक्षया बहुवचनम् । किं तद्वद्गौणः पुत्रो ऽसि ? नेत्याह औरस इति । पुरा किल महाभूततटाकाख्ये सरसि उपस्पृशतो विभण्डकस्य उर्वशीं दृष्ट्वा रेतो ऽस्खलत् । तन्मृगी जलेन सह पीत्वा गर्भिण्यासीत् । तस्यां जातः ऋश्यमृगतुल्यशृङ्गत्वाद्दृश्यशृङ्गाख्यो ऽभूदिति पौराणिकी कथा । मे ऋश्यशृङ्गेति नाम ख्यातम् । मे तपोरूपं कर्म च भुवि वनभुवि ख्यातम् ॥ १।१०।१४ ॥

इहाश्रमपदो ऽस्माकं समीपे शुभदर्शनाः ।

करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १।१०।१५ ॥

इहेति । इह वनसमीपे प्रदेशे । अस्माकमाश्रमपदः । पुंस्त्वमार्षम् । अत्र वः पूजां करिष्ये, आगन्तव्यमिति भावः । सर्वेषामिति पुँल्लिङ्गनिर्देशः स्त्रीस्वरूपापरिज्ञानकृतः ॥ १।१०।१५ ॥

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै ।

तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः ॥ १।१०।१६ ॥

ऋषीति । द्रष्टुं मतिरास अभूत् । अस्तेर्भूभावाभाव आर्षः । तेन सह तदाश्रमपदं जग्मुश्च ॥ १।१०।१६ ॥

आगतानां ततः पूजामृषिपुत्रश्चकार ह ।

इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलम् ॥ १।१०।१७ ॥

आगतानामिति । आगतानाम् आश्रमपदमागतानाम्, अन्ते इतिकरणं द्रष्टव्यम् ॥ १।१०।१७ ॥

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।

ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः ॥ १।१०।१८ ॥

प्रतिगृह्येति । समुत्सुकाः तत्संलापसाभिलाषाः ताः सर्वाः तां पूजाम् ऋषिपुत्रदत्तां पूजाम् । प्रतिगृह्य ऋषेर्विभण्डकाद्भीतास्सत्यः शीघ्रं गमनाय मतिं दधुः ॥ १।१०।१८ ॥

अस्माकमपि मुख्यानि फलानीमानि वै द्विज ।

गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ १।१०।१९ ॥

अस्माकमिति । प्रतिगृहाणेत्यन्वयः । “छन्दसि परे ऽपि” इति प्रतीत्यस्योपसर्गस्य धातोरुपरिष्टात्प्रयोगः । “छन्दोवत्पुराणानि भवन्ति” इति न्यायात् । मा चिरं विलम्बं मा कुरु ॥ १।१०।१९ ॥

ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः ।

मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान् ॥ १।१०।२० ॥

तत इति । अत्रादौ इत्युक्त्वेत्युपस्कार्यम्, स्नेहिजनवत् वशीकारार्थमालिङ्ग्य ॥ १।१०।२० ॥

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।

अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ १।१०।२१ ॥

तानीति । वने नित्यनिवासिनाम् अनास्वादितपूर्वाणि तैः पूर्वमनास्वादितानि फलानीमानीति मन्यते स्म । अपूर्वरसत्वात् “पूरणगुण " इति समासप्रतिषेधादेव ज्ञापकात् तृतीयार्थे षष्ठी ॥ १।१०।२१ ॥

आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च ।

गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥ १।१०।२२ ॥

आपृच्छ्येति । व्रतचर्यां निवेद्य अस्माभिः किञ्चिद्व्रतमनुष्ठेयमस्तीति व्रतानुष्ठानं निवेद्य, तस्मादपदेशाद्व्याजात् । तस्य पितुर्भीताः सत्यो गच्छन्ति स्म ॥ १।१०।२२ ॥

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।

अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ १।१०।२३ ॥

गतास्विति । काश्यपस्य कश्यपपुत्रस्य विभण्डकस्य, अस्वस्थहृदयः कर्षितचित्तः दुःखं यथा भवति तथा परिवर्त्तते स्म सञ्चरति स्म ॥ १।१०।२३ ॥

ततो ऽपरेद्युस्तं देशमाजगाम स वीर्यवान् ।

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः ॥ १।१०।२४ ॥

तत इति । ततः अस्वस्थचित्तत्वाद्धेतोः ॥ १।१०।२४ ॥

दृष्टैव च तदा विप्रमायान्तं हृष्टमानसाः ।

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ॥ १।१०।२५ ॥

दृष्ट्वेति स्पष्टम् ॥ १।१०।२५ ॥

एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् ।

तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ १।१०।२६ ॥

एहीति । अस्माकमाश्रमपदमेहीति पूर्वेणान्वयः । तत्रापि श्रीमान् समृद्धिमान् एष विधिः सत्कारः स्वदेशत्वाद्विशेषेण भविष्यति इति चाब्रुवन्निति योजना ॥ १।१०।२६ ॥

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् ।

गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ १।१०।२७ ॥

श्रुत्वेति । हृदयङ्गमं मनोज्ञम् । खश्प्रकरणे “गमेः सुप्युपसङ्ख्यानम्” इति खश् । निन्युः नावमारोप्य गङ्गाप्रवाहेणेति शेषः । तथैव भारते प्रतिपादनात् ॥ १।१०।२७ ॥

तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ।

ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥ १।१०।२८ ॥

तत्रेति । तत्र अङ्गदेश इत्यर्थः ॥ १।१०।२८ ॥

हर्षेणैवागतं विप्रं विषयं स्वं नराधिपः ।

प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ १।१०।२९ ॥

हर्षेणेति । स्वं विषयं स्वदेशम्, प्रह्वः विनीतः ॥ १।१०।२९ ॥

अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः ।

वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशत् ॥ १।१०।३० ॥

अर्घ्यं चेति । अर्घः पूजा तदर्थमुदकमर्ध्यम्, “पादार्घाभ्यां च” इति यत्प्रत्ययः । न्यायतः शास्त्रक्रमेण । विप्रेन्द्रात् ऋश्यशृङ्गात् । प्रसादं गणिकाभिः प्रलोभ्यानयनकृतकोपनिवृत्तिं वव्रे । कथं वव्रे ? विप्रं त्वां मन्युः कोपो माविशेदिति, माविशत्वित्यर्थः । लकारव्यत्ययः । यद्वा विप्रं विभण्डकं मन्युः पुत्रविश्लेषकृतः कोपःमाविशेदिति । एवं प्रसादनादेव विभण्डको न चुकोप पुत्रप्रसादवरणादेव पिता त्रिलोकज्ञस्तुष्यतीति पूर्वमेव मन्त्रिभिर्निर्णीतं चेति बोध्यम् । कथमन्यथा उपायं चिन्तयन्तः प्राज्ञाः अपायमपि न चिन्तयेयुः ॥ १।१०।३० ॥

अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि ।

शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ १।१०।३१ ॥

अन्तःपुरमिति । प्रविश्य तेन सहेति सिद्धम् । शान्तेन निर्दुःखेन मनसोपलक्षितः । प्रसादकार्योपदर्शनात् प्रसन्नत्वं सिद्धम् ॥ १।१०।३१ ॥

एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ॥ १।१०।३२ ॥

[ऋश्यशृङ्गो महातेजाश्शान्तया सह भार्यया ।]

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥ १० ॥

एवमिति । एवं सर्वकामैः सुपूजितः । तत्र रोमपादान्तःपुरे ॥ १।१०।३२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने

दशमःसर्गः ॥ १० ॥