एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।
ऋत्विग्भिरुपदिष्टो ऽयं पुरावृत्तो मया श्रुतः ॥ १।९।१ ॥
अथ भगवदवतारासाधारणकारणं पुत्रेष्टिमुपक्षिपति सर्गत्रयेण एतच्छ्रुत्वेत्यादि । सूतः सारथित्वेन मन्त्रित्वेन च स्थितः सुमन्त्रः । रह एकान्ते इदमब्रवीत्, अन्तःपुरमागत्योक्तवानित्यर्थः । अयं अश्वमेधप्रवृत्तिरूपः पुत्रार्थोपायः । ऋत्विग्भिः वसिष्ठादिभिः उपदिष्टः, मया तु पुरावृत्तः इतिहासरूपः यः श्रुतः ॥ १।९।१ ॥
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ।
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति ॥ १।९।२ ॥
कथमित्यत्राह सनत्कुमार इत्यादि । भगवान् भविष्यज्ज्ञानवत्त्वरूपमाहात्म्यवान् । कथां भविष्यद्विषयिणीम् ॥ १।९।२ ॥
कश्यपस्य तु पुत्रो ऽस्ति विभण्डक इति श्रुतः ।
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ १।९।३ ॥
कश्यपस्येति । ख्यातो भविष्यतीत्यत्र “धातुसम्बन्धे प्रत्ययाः” इति भूतभविष्यतोः साधुत्वम् ॥ १।९।३ ॥
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ।
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ १।९।४ ॥
स इति । अन्यं ग्रामग्रामीणादिकम्, न जानाति न ज्ञास्यति ॥ १।९।४ ॥
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ॥ १।९।५ ॥
द्वैविध्यमिति । द्वैविध्यं द्वैधीभावः, स्त्रीसङ्गकृतो भङ्ग इत्यर्थः । लोकेषु प्रथितमित्यत्र ब्रह्मचर्यमित्यनुषङ्गः । यद्वा मेखलाजिनदण्डादिना लोकेषु प्रथितम्, विप्रैः स्मर्तृभिः कथितमृतुगमनलक्षणं च ब्रह्मचर्यस्य द्वैविध्यं भविष्यति । आह याज्ञवल्क्यः “षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत् ॥ " इति ॥ १।९।५ ॥
तस्यैवं वर्तमानस्य कालः समभिवर्तत ।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ १।९।६ ॥
तथाविधस्य द्वितीयब्रह्मचर्यस्य प्रसक्तिं दर्शयति तस्येत्यादिना । तस्य अग्निं यशस्विनं पितरं चाद्गुरुं च शुश्रूषमाणस्य प्रथमे ब्रह्मचर्ये वर्तमानस्येत्यर्थः । कालः कतिपयकालः समभिवर्तत । भविष्यदर्थे लङ् । “छन्दसि लुङ्लङ्लिटः” इति सर्वलकारापवादत्वेन लङो ऽपि विधानात्, अडभावश्चार्षः ॥ १।९।६ ॥
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ १।९।७ ॥
एतस्मिन्निति । एतस्मिन् काले तस्य ब्रह्मचर्यदशायाम् । अङ्गेषु अङ्गदेशेषु ॥ १।९।७ ॥
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
अनावृष्टिः सुघोरा वै सर्वभूतभयावहा ॥ १।९।८ ॥
तस्येति । व्यतिक्रमात् धर्मातिक्रमात् । सुदारुणा बहुकालव्यापिनी, सुघोरा तदीयसर्वराष्ट्रव्यापिनी अत एव सर्वभूतभयावहा ॥ १।९।८ ॥
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ १।९।९ ॥
अनावृष्ट्यामिति । श्रुतेन वृद्धाः श्रुतवृद्धाः, बहुभ्यो बहुधा श्रुतशास्त्रा इत्यर्थः । प्रवक्ष्यति चेत्यन्वयः ॥ १।९।९ ॥
भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ।
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥ १।९।१० ॥
भवन्त इति । श्रुतधर्माणः “धर्मादनिच् केवलात्” इत्यनिच् । लोकचारित्रवेदिनः लोकाचारज्ञाः, अतः अनावृष्टिमूलस्य मत्पापस्य प्रायश्चित्तं यथा भवेत् तादृशं नियममनुष्ठेयधर्मम्, आदिशन्तु ॥ १।९।१० ॥
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभण्डकसुतं राजन् सर्वोपायैरिहानय ॥ १।९।११ ॥
शुद्धब्रह्मचारिणे कन्याप्रदानमेव परमं प्रायश्चित्तमिति वक्ष्यन्तीत्याह वक्ष्यन्तीत्यादिना । सर्वोपायैः नानाविधोपायैः ॥ १।९।११ ॥
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १।९।१२ ॥
आनाय्येति । ऋश्यशृङ्गम् इत्यत्र “ऋत्यकः” इति प्रकृतिभावः । आनाय्येति आङुपसृष्टात् “णीञ् प्रापणे” इत्यस्माद्धेतुमण्ण्यन्ताल्ल्यप् । प्रयच्छ देहि । ऋश्यशृङ्गायेति शेषः । सुसत्कृतमित्यानयनक्रियाविशेषणम् । सुसमाहितः, निर्विचार इति यावत् ॥ १।९।१२ ॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १।९।१३ ॥
तेषामिति । चिन्ताप्रकारमाह केनेति । वीर्यवान् नियतब्रह्मचर्यः ॥ १।९।१३ ॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ १।९।१४ ॥
तत इति । विनिश्चिन्य ब्राह्मणं ब्राह्मणा एवानेष्यन्तीति निश्चित्य । ततः तस्माद्देशात् । प्रेष्यति प्रेषयिष्यति । भविष्यदर्थे लट् । “कालसामान्ये लड्वक्तव्यः” इति वचनात् ॥ १।९।१४ ॥
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १।९।१५ ॥
ते त्विति । व्यथिताः खिन्नाः अत एव विनताननाः नम्रमुखाः, ऋषेर्विभण्डकात् भीता इत्यनन्तरमितिकरणं बोध्यम् । अनुनेष्यन्ति न वयं गन्तुं शक्ताः, किन्तु तदानयन उपायं विचिन्त्य वक्ष्याम इति सान्त्वयिष्यन्ति ॥ १।९।१५ ॥
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ १।९।१६ ॥
वक्ष्यन्तीति । तत्क्षमान् ऋश्यशृङ्गानयनोचितान् उपायांश्चिन्तयित्वा तान् तस्य राज्ञो वक्ष्यन्ति । एतैरुपायैर्वयं विप्रमानेष्यामः । न च दोषो भविष्यति, ऋश्यशृङ्गस्य ब्रह्मचर्यवैकल्यदोषश्च न भविष्यति । तत्र भवता न शङ्कनीयम्, यथा गणिकासम्पर्को न भवेत् तथा आनेष्याम इत्यर्थः, ऋषिशापदोषो न भविष्यतीति वार्थः, अनावृष्टिदोषो न भविष्यतीति वा । इति वक्ष्यन्तीति पूर्वेणान्वयः ॥ १।९।१६ ॥
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।
आनीतो ऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ १।९।१७ ॥
सनत्कुमारोक्तं समाप्य स्वयमाह एवमिति । यथा आनयिष्याम इत्युक्तमेवमानीतः । देवः पर्जन्यश्चावर्षयत् । शान्ता रोमपादकन्या च, अस्मै ऋश्यशृङ्गाय । प्रदीयते प्रादीयत । कालसामान्ये लट् ॥ १।९।१७ ॥
ऋश्यशृङ्गस्तु जामाता पुत्रान् तव विधास्यति ।
सनत्कुमारकथितमेतावद्व्याहृतं मया ॥ १।९।१८ ॥
ऋश्यशृङ्ग इति । जामाता रोमपादस्य दशरथस्यापि वा । दशरथस्यौरसी शान्ता दत्ता रोमपादस्य । सनत्कुमारकथितमेतावत् । एवमङ्गाधिपेनेत्यादि तु मया व्याहृतमित्यर्थः । यद्वा सर्वं सनत्कुमारवचनमेव । अवर्षयत् वर्षयिष्यति । प्रदीयते प्रदास्यते ॥ १।९।१८ ॥
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।
यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ १।९।१९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥ ९ ॥
अथेत्युत्तरशेषः श्लोकः । अत्र सर्गविच्छेदो लेखकदोषकृत इति प्रतिभाति ॥ १।९।१९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥